Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.162

🌷
मूलम्--
परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः ।
अपरिच्छेदकर्तॄणां विपदः स्युः पदे पदे ॥१.१६२॥

🌺
पदविभागः--
परिच्छेदः हि पाण्डित्यं यद्-आपन्ना विपत्तयः । अपरिच्छेद-कर्तॄणां विपदः स्युः पदे पदे ॥१.१६२॥
🌸
अन्वयः--
पाण्डित्यं (तु) यदापन्ना विपत्तयः परिच्छेदः हि । अपरिच्छेदकर्तॄणां पदे पदे विपदः स्युः ॥१.१६२॥
🌼
प्रतिपदार्थः--
परिच्छेदः = सदसतोः सम्यक् ज्ञानं, विचारः ; पाण्डित्यं = विद्वत्ता, कौशलम् ; आपन्नाः = प्राप्ताः । अपरिच्छेदकर्तॄणाम् = अविचार्य कार्यमाचरताम्, अविवेकिनाम् = असन्तुष्टानां वा ॥१.१६२॥
🌻
तात्पर्यम्--
यदा  आपत्तयः आपतन्ति, तदानीं विचार्य कार्यकरणं विज्ञत्वमिति जानीयात्। ये विचारशीलाः न, तेषां तु मुहुर्मुहुः विपत्तयः भवन्ति  ॥१.१६२॥
🌿
हिन्द्यर्थः--
विपत्ति आने पर, विचार कर कार्य करना ही पाण्डित्य (बुद्धिमत्ता) है। विना विचारे काम करने वाले प्राणियों पर तो पद-पद में विपत्तियाँ आती है ॥१.१६२॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.161

🌷
मूलम्--
को धर्मो भूतदया किं सौख्यं नित्यमरोगिता जगति ।
कः स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः ॥१.१६१॥

🌺
पदविभागः--
कः धर्मः भूत-दया किं सौख्यं नित्यम् अरोगिता जगति । कः स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः ॥१.१६१॥
🌸
अन्वयः--
कः धर्मः? भूत-दया। किं सौख्यं? जगति नित्यम् अरोगिता । कः स्नेहः? सद्भावः। किं पाण्डित्यं? परिच्छेदः ॥१.१६१॥
🌼
प्रतिपदार्थः--
कः धर्मः = किं कर्तव्यम् इति ; भूतदया = जीवेषु अनुकम्पा ; सौख्यम् = सुखम् ; नित्यम् अरोगिता = सदा आरोग्यं ; जगति = लोके ; स्नेहः = मित्रत्वम् ; सद्भावः = सहृदयभावः ; पाण्डित्यं = विद्वत्ता ; परिच्छेदः = विभागोपभागपूर्वकं ज्ञानं, सदसद्विवेको वा ॥१.१६१॥
🌻
तात्पर्यम्--
प्राणिकोटिषु दाक्षिण्यभावः एव धर्मः। लोके सदा स्वस्थता एव सुखम्। सौजन्यभावः एव मित्रत्वम्। विभज्य सदसतोः सूक्ष्मं ज्ञानम् एव विज्ञता भवति ॥१.१६१॥
🌿
हिन्द्यर्थः--
धर्म क्या है ? प्राणियों पर दया । संसार में सुख क्या है ? नीरोग रहना । स्नेह क्या है ? सद्भाव अनुराग, प्रेम । पाण्डित्य क्या है? सत् असत् का विवेक । अर्थात्- उचित अनुचित का ठीक ठीक समझना ॥१.१६१॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.160

🌷
मूलम्--
न योजनशतं दूरं वाह्यमानस्य तृष्णया ।
सन्तुष्टस्य करप्राप्तेऽप्यर्थे भवति नादरः ॥१.१६०॥

🌺
पदविभागः--
न योजन-शतं दूरं वाह्यमानस्य तृष्णया । सन्तुष्टस्य करप्राप्ते अपि अर्थे भवति न आदरः ॥१.१६०॥
🌸
अन्वयः--
न योजन-शतं दूरं वाह्यमानस्य तृष्णया । सन्तुष्टस्य करप्राप्ते अपि अर्थे भवति न आदरः ॥१.१६०॥
🌼
प्रतिपदार्थः--
तृष्णया = आशया ; वाह्यमानस्य = प्रेर्यमाणस्य ; योजनशतमपि न दूरम् = शतं योजनेषु अपि समीपभावः एव ; सन्तुष्टस्य तु = तृप्तिंगतस्य ; करप्राप्ते = हस्तगतेऽपि ; अर्थे = धने, वस्तुनि वा ; न आदरो = उन्नतभावः न भवतीत्यर्थः ॥१.१६०॥
🌻
तात्पर्यम्--
यः अतिलोभात् पीडितः सः शतयोजनस्थानमपि अल्पं मन्यते। यः सन्तृप्तिवान् भवति सः करमितेन धनेनापि महद्भावम् आवहति ॥१.१६०॥
🌿
हिन्द्यर्थः--
जो मनुष्य तृष्णा के वश में हो रहा है, उसके लिये तो १०० सौ योजन (चार सौ कोश) भी दूर नहीं है, पर जो प्राणी सन्तुष्ट है, उसको तो हाथ में आए हुए धन पर भी आदर नहीं होता है, किन्तु उसमें भी उसे उपेक्षा ही होती है ॥१.१६०॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.159

🌷
मूलम्--
असेवितेश्वरद्वारमदृष्टविरहव्यथम् ।
अनुक्तक्लीबवचनं धन्यं कस्यापि जीवनम् ॥१.१५९॥

🌺
पदविभागः--
असेवित-ईश्वर-द्वारम् अदृष्ट-विरह-व्यथम् । अनुक्त-क्लीब-वचनं धन्यं कस्य अपि जीवनम् ॥१.१५९॥
🌸
अन्वयः--
असेवितेश्वरद्वारम् अदृष्टविरहव्यथम् । अनुक्त-क्लीब-वचनं धन्यं कस्य अपि जीवनम् ॥१.१५९॥
🌼
प्रतिपदार्थः--
(जीवनम् इत्यस्य विशेषणानि सर्वाणि पदानि) असेवितेश्वरद्वारम् ~ न सेवितं ईश्वरस्य द्वारं यस्मिन् जीवने = राजादिधनिगृहद्वारं न सेवितम् यस्मिन् जीवने; अदृष्टविरहव्यथम् ~ अदृष्टा विरहव्यथा यस्मिन् तत् तादृक् = प्रियविरहं न अनुभूतं यस्मिन् जीवने ; अनुक्तक्लीबवचनम् ~ नोक्तं क्वीबवचनं यस्मिन् जीवने = दीनवाक्यं मुखात् न निःसृतं ; जीवनम् = जीवितम् ; कस्यापि = सन्तुष्टस्य, विरक्तस्य च ; धन्यम् = सम्पन्नम् ॥१.१५९॥
🌻
तात्पर्यम्--
यः राज्ञां, धनिकानां वा गृहेषु सेवां न कृतवान्, यः कस्यचित् इष्टजनस्य अभावजनितां पीडां न अनुभूतवान्, यः कस्यचित् पुरतः गत्वा दीनभावं न व्यञ्जयति, तादृशस्य पुरुषस्य जीवनं सम्पन्नम् अस्ति॥१.१५९॥
🌿
हिन्द्यर्थः--
जिसने धनिको के द्वार की सेवा नहीं की, जिसने विरह की व्यथा नहीं सही, और जिसने कहीं अपनी दीनता प्रगट नहीं की, उसी मनुष्य का जीवन धन्य हैं ॥१.१५९॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.158

🌷
मूलम्--
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ।
येनाशाः पृष्ठतः कृत्वा नैराश्यमवलम्बितम् ॥१.१५८॥

🌺
पदविभागः--
तेन अधीतं श्रुतं तेन तेन सर्वम् अनुष्ठितम् । येन आशाः पृष्ठतः कृत्वा नैराश्यम् अवलम्बितम् ॥१.१५८॥
🌸
अन्वयः--
येन आशाः पृष्ठतः कृत्वा नैराश्यम् अवलम्बितं, तेन अधीतम्, तेन श्रुतम्, तेन सर्वम् अनुष्ठितम् ॥१.१५८॥
🌼
प्रतिपदार्थः--
अधीतम् = अध्ययनं कृतम्, शास्त्रं पठितम् ; श्रुतम् = गुरुमुखतः आकर्णितम् ; अनुष्ठितम् = सर्वं यज्ञादिकं शुभं कर्म कृतम् ; नैराश्यं = लोभाभावः, सन्तोषः ; अवलम्बितम् = स्वस्मिन् विहितम् ॥१.१५८॥
🌻
तात्पर्यम्--
यः अतितृष्णां त्यक्त्वा मनसि सन्तुष्टिं गतवान्, स एव अधीती, बहुश्रुतः, आचारवान् च ॥१.१५८॥
🌿
हिन्द्यर्थः--
जिसने आशा को लात मार कर नैराश्य (निराशा) का ही अवलम्बन किया है, उसीने सब शास्त्रों को ठीक २ पढा है, और उसी ने शास्त्रों को ठीक२ सुना है और उसी ने सब कुछ कर्त्तव्य कार्य किया है ॥१.१५८॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.157

🌷
मूलम्--
सन्तोषामृततृप्तानां यत् सुखं शान्तचेतसाम् ।
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥१.१५७॥

🌺
पदविभागः--
सन्तोष-अमृत-तृप्तानां यत् सुखं शान्त-चेतसाम् । कुतः तद्धन-लुब्धानामितश्चेतश्च धावताम् ॥१.१५७॥
🌸
अन्वयः--
सन्तोषामृततृप्तानां शान्तचेतसां यत् सुखं तत् कुतः धनलुब्धानाम् इतश्च इतश्च धावताम् ?॥१.१५७॥
🌼
प्रतिपदार्थः--
सन्तोषामृततृप्तानां ~ सन्तोषः एव अमृतं, तेन तृप्तानाम् इत्यर्थः = आनन्दभावेन सन्तुष्टानाम् ; शान्तचेतसां = प्रशान्तं चित्तं येषां तेषां ; सुखं = धनलुब्धानाम् = वित्तेन आकृष्टानां ; इतश्च इतश्च धावताम् = दिशं विना धावन्ति ये तेषां॥१.१५७॥
🌻
तात्पर्यम्--
ये सन्तोषकारणात् तृप्तिभावयुक्ताः, येषां मनांसि शान्तानि भवन्ति, ते नन्दन्ति। तादृशं नन्दनं द्रविणलोलुपानां, दिशाहीनं गच्छतां न भवति ॥१.१५७॥
🌿
हिन्द्यर्थः--
सन्तोषरूपी अमृत से तृप्त एवं शान्त चित्तवालों को जो सुख है, वह सुख धन के लोभ से इधर-उधर दौड़ने वाला को कहाँ से हो सकता है? ॥१.१५७॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.156

🌷
मूलम्--
सर्वाः सम्पत्तयस्तस्य सन्तुष्टं यस्य मानसम् ।
उपानद्गूढपादस्य ननु चर्मावृतेव भूः ॥१.१५६॥

🌺
पदविभागः--
सर्वाः सम्पत्तयः तस्य सन्तुष्टं यस्य मानसम् । उपानद्-गूढ-पादस्य ननु चर्म-आवृता इव भूः ॥१.१५६॥
🌸
अन्वयः--
यस्य मानसं सन्तुष्टं तस्य सर्वाः सम्पत्तयः (भवन्ति) । (अत्रोदहरणम्) ननु उपानद्गूढपादस्य भूः चर्मावृता इव ॥१.१५६॥
🌼
प्रतिपदार्थः--
सम्पत्तयः = धनानि ; सन्तुष्टं = तृप्तियुतं ; मानसम् = चित्तम् ; उपानद्गूढपादस्य = पादुकाबद्धपादस्य ; चर्मावृतेव = चर्मास्तृतेव ; भूः = (कण्टकादियुतापि) धरित्री निष्कण्टकैव ॥१.१५६॥
🌻
तात्पर्यम्--
यस्य मनः सन्तृप्तं भवति, तस्य सविधे सर्वविधसम्पदाः भवन्ति। यस्य पादयोः पादरक्षे भवतः, तस्मै भूमिः चर्मणा आवृता इव निष्कण्टका भवति॥१.१५६॥
🌿
हिन्द्यर्थः--
जिसका मन सन्तुष्ट है, उसके पास सब सम्पत्ति है । जैसे जिस मनुष्य के पैर में जूता है, उसके लिये मानो सब पृथ्वी ही चर्म से अच्छा दिए है ॥१.१५६॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.155

🌷
मूलम्--
धनलुब्धो ह्यसन्तुष्टोऽनियतात्माजितेन्द्रियः ।
सर्वा एवापदस्तस्य यस्य तुष्टं न मानसम् ॥१.१५५॥

🌺
पदविभागः--
धनलुब्धः हि असन्तुष्टः अनियतात्मा अजितेन्द्रियः । सर्वाः एव आपदः तस्य यस्य तुष्टं न मानसम् ॥१.१५५॥
🌸
अन्वयः--
धनलुब्धः हि असन्तुष्टः अनियतात्मा अजितेन्द्रियः सर्वाः एव आपदः तस्य यस्य मानसं तुष्टं न (भवति) ॥१.१५५॥
🌼
प्रतिपदार्थः--
धनलुब्धः = वित्ते दत्तैकचित्तः, धनलोभाक्रान्तः ; हि = निश्चयेन ; असन्तुष्टः = सन्तोषरहितः ; अनियतात्मा = यः स्ववशे नास्ति, चञ्चलमानसः ; अजितेन्द्रियः = इन्द्रियाणि यस्य स्वामिनः भवन्ति ; सर्वाः एव आपदः = समस्तविधाः विपत्तयः ; मानसं तुष्टं न = अन्तः सन्तुष्टिः नास्ति ॥१.१५५॥
🌻
तात्पर्यम्--
यः वित्तसक्तः, सन्तोषहीनः, अवशात्मा, अवशेन्द्रियः अथवा , नियमनरहितः, अतुष्टमनाः भवति- तस्य सर्वाः विपत्तयः भवन्ति ॥१.१५५॥
🌿
हिन्द्यर्थः--
जो मनुष्य धन का लोभी, असंतोषी, चञ्चल चित्तवाला, इन्द्रियों के वश में रहनेवाला है, तथा जिसका मन सन्तुष्ट नहीं है, ऐसे मनुष्य को सब प्रकार की आपत्तियों आकर घेर लेती हैं ॥१.१५५॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.154

🌷
मूलम्--
लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् ।
तृषार्तो दुःखमाप्नोति परत्रेह च मानवः ॥१.१५४॥

🌺
पदविभागः--
लोभेन बुद्धिः चलति लोभः जनयते तृषाम् । तृषार्तः दुःखम् आप्नोति परत्र इह च मानवः ॥१.१५४॥
🌸
अन्वयः--
लोभेन बुद्धिः चलति । लोभः तृषां जनयते । तृषार्तः मानवः परत्र इह च दुःखम् आप्नोति ॥१.१५४॥
🌼
प्रतिपदार्थः--
लोभेन = अत्याकाङ्क्षया ; बुद्धिः चलति = मतिः नश्यति ; तृषाम् = तृष्णाम् ; तृषार्तः = तृष्णया आर्दितः, धनादितृष्णया आकुलः ; मानवः = मनुष्यः ; परत्र = परलोके ; इह = अस्मिन्लोके ; दुःखम् आप्नोति = पीडाम् अनुभवति ; ॥१.१५४॥
🌻
तात्पर्यम्--
(लोभात् काः हानयः भवन्तीति उच्यते-) अतिस्पृहया मतिभ्रमः भवति । अत्यभिलाषेण अतिलिप्सा जायते । तृष्णायुक्तः इहलोके परलोके च खेदमनुभवति । ॥१.१५४॥
🌿
हिन्द्यर्थः--
लोभ से मनुष्य की बुद्धि चञ्चल हो जाती है, और लोभ से मनुष्य को तृष्णा उत्पन्न होती है और तृष्णा से ही मनुष्य इस लोक में तथा परलोक में भी दुःख पाता है ॥१.१५४॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.153

🌷
मूलम्--
रोगी चिरप्रवासी परान्नभोजी परावसथशायी ।
यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः ॥१.१५३॥

🌺
पदविभागः--
रोगी चिर-प्रवासी पर-अन्न-भोजी पर-आवसथ-शायी । यत् जीवति तत् मरणं यत् मरणं सः अस्य विश्रामः ॥१.१५३॥
🌸
अन्वयः--
रोगी चिरप्रवासी परान्नभोजी परावसथशायी । यत् जीवति तत् मरणं यत् मरणं सः अस्य विश्रामः ॥१.१५३॥
🌼
प्रतिपदार्थः--
रोगी = आतुरः ; चिरप्रवासी = अधिकसमयं यावत् अन्यदेशो यः निवसति ; परान्नभोजी = अन्येषां गृहे यः भोजनं गृह्णाति ; परावसथशायी = परगृहे यः शेते ; यज्जीवति तन्मरणं = तस्य जीवनं मरणतुल्यम् ; यन्मरणं सोऽस्य विश्रामः = मरणञ्च तस्य क्लेशनिर्मोक्षः ॥१.१५३॥
🌻
तात्पर्यम्--
[एतेषां चतुर्णां स्थितिः मृत्युतुल्या भवति इति उच्यते] रोगग्रस्तः, अधिककालं यावत् विदेशनिवासी, यः परेषाम् अन्नं खादति, परगृहे यः निद्राति- एतेषां जीवनं मृत्युतुल्यम्। मृत्युं प्राप्नुवन्ति, तेनैव समस्याविरामः भवति ॥१.१५३॥
🌿
हिन्द्यर्थः--
रोगी, सदा परदेश रहने वाले दूसरे का अन्न खाने वाले, और दूसरे के घर में रहनेवाले-पुरुष का जीवन तो मरने के तुल्य है, और उसका मरना उसके लिए विश्राम के ही समान है। अर्थात् जीने से उसका मरना ही अच्छा है ॥१.१५३॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.152

🌷
मूलम्--
पल्लवग्राहि पाण्डित्यं क्रयक्रीतञ्च मैथुनम्।
भोजनञ्च पराधीनं तिस्रः पुंसां विडम्बनाः ॥१.१५२॥

🌺
पदविभागः--
पल्लव-ग्राहि पाण्डित्यं, क्रयक्रीतं च मैथुनम्। भोजनं च पराधीनं, तिस्रः पुंसां विडम्बनाः ॥१.१५२॥
🌸
अन्वयः--
पाण्डित्यं पल्लवग्राहि, मैथुनं च क्रयक्रीतं, भोजनं च पराधीनं- तिस्रः पुंसां विडम्बनाः ॥१.१५२॥
🌼
प्रतिपदार्थः--
पल्लवग्राहि = अंशमात्रेण गृहीतम्, नानाशास्त्रेभ्यः कियतः अपि अंशस्य विशकलितस्य ग्रहणेन समुद्धतम् ; क्रयक्रीतं = वेश्यादितो भाटकेन लब्धम् ; मैथुनं = सुरतम् ; भोजनम् = अन्नग्रहणम् ; पराधीनं = स्ववशात् बहिः ; पुंसां = मनुष्याणाम् ; विडम्बनाः = कदर्थनानि, उपहासायैव ॥१.१५२॥
🌻
तात्पर्यम्--
(अत्र विडम्बनाजनकविषयाः त्रयः उक्ताः) अपूर्णा विद्वत्ता लेशमात्रं ज्ञानं वा, (वाराङ्गनायै पण्यस्त्रियै वा) धनं दत्त्वा उपभुक्तं रतिसुखं, अन्येभ्यः करणीयम् अशनं च प्रतारणकराः विषयाः एते त्रयः॥१.१५२॥
🌿
हिन्द्यर्थः--
क्यों कि-पल्लवग्राही पाण्डित्य-(थोडा थोडा सब कुछ पढ़ना, परन्तु किसी विषय को पूरा पूरा न जानना), द्रव्य देकर मैथुन करना, दूसरे के अधीन होकर पेट पालना (भोजन करना) ये तीनों बातें तो अत्यन्त कष्ट देने बाली और उपहासास्पद ही हैं, अर्थात् निस्सार (व्यर्थ) ही है ॥१.१५२॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.151

🌷
मूलम्--
सेवेव मानमखिलं ज्योत्स्नेव तमो जरेव लावण्यम् ।
हरिहरकथेव दुरितं गुणशतमप्यर्थिता हरति ॥१.१५१॥

🌺
पदविभागः--
सेवा इव मानम् अखिलं ज्योत्स्ना इव तमः जरा इव लावण्यम् । हरिहर-कथा इव दुरितं गुण-शतम् अपि अर्थिता हरति ॥१.१५१॥
🌸
अन्वयः--
सेवा अखिलं मानम् इव, ज्योत्स्ना तमः इव, जरा लावण्यम् इव, हरिहरकथा दुरितम् इव- अर्थिता गुणशतम् अपि हरति ॥१.१५१॥ 🌼
प्रतिपदार्थः--
सेवा = भृत्यकार्यम् ; मानम् = आत्मगौरवभावः ; अखिलं = सर्वम् ; हरति = न्यूनीकरोति ; जोत्स्ना = चन्द्रकान्तिः ; तमः = अन्धकारम् ; हरति = नाशयति ; जरा = वृद्धावस्था ; लावण्यं = सौन्दर्यम् ; हरति = अल्पीकरोति; हरिहरकथा = भगवत्कीर्तनम् ; दुरितं = पापं ; हरति = अपाकरोति ; अर्थिता = याच्ञा ; गुणशतम् अपि = अनुन्तान् अपि गुणान् ; हरति = विलोपयति ; ॥१.१५१॥
🌻
तात्पर्यम्--
सेवनं पूर्णं स्वाभिमानं लोपयति । चन्द्रिका तिमिरस्य अन्तं करोति । वार्धक्यं सुन्दरतां तनूकरोति । ईश्वरप्रसङ्गश्रवणं, चिन्तनं च अघं विनाशयति । तथैव याचना निखलान् अपि सद्गुणान् विलोपयति ॥१.१५१॥
🌿
हिन्द्यर्थः--
जैसे दूसरे की सेवा मान को, प्रकाश अन्धकार को, वृद्धता सौन्दर्य को और भगवत्कथा पाप को हरण करती है, वैसे ही याचना (माँगना) भी मनुष्यों के सभी गुणों को हर लेती है, (वह सभी गुणों का नाश कर देती है) ॥१.१५१॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.150

🌷
मूलम्--
वरं शून्या शाला न च खलु वरो दुष्टवृषभो
वरं वेश्या पत्नी न पुनरविनीता कुलवधूः ।
वरं वासोऽरण्ये न पुनरविवेकाधिपपुरे
वरं प्राणत्यागो न पुनरधमानामुपगमः ॥१.१५०॥

🌺
पदविभागः--
वरं शून्या शाला न च खलु वरः दुष्ट-वृषभः वरं वेश्या पत्नी न पुनः अविनीता कुलवधूः ।वरं वासः अरण्ये न पुनः अविवेक-अधिप-पुरे वरं प्राण-त्यागः न पुनः अधमानाम् उपगमः ॥१.१५०॥
🌸
अन्वयः--
शून्या शाला वरं, दुष्ट-वृषभः न च खलु वरः । वेश्या पत्नी वरं, अविनीता कुलवधूः न पुनः । अरण्ये वासः वरं, अविवेक-अधिप-पुरे न पुनः । प्राण-त्यागः वरं, अधमानाम् उपगमः न पुनः ॥१.१५०॥
🌼
प्रतिपदार्थः--
वरम् = श्रेष्ठ इत्यर्थः ; शाला = गोशाला, गृहं च ; वृषभः = गौः ; वासः = जीवनयापनाय निवासः ; अरण्ये = वने ;  अविनीता = अविनम्रा ; अविवेकाधिपपुरे = विवेकशून्यः यः नरपतिः तस्य नगर्याम् ; उपगमः = याच्ञा ; अधमानां = नीचानाम् ॥१.१५०॥
🌻
तात्पर्यम्--
(अत्र श्रेष्ठवस्तूनि, तदितराणि कतिपयानि अधमवस्तूनि च विवृतानि) गोशाला रिक्ता भवेत् इति तद्वरं, किन्तु अनियतः वृषः न भवेत्। वाराङ्गना वा भार्या युक्ता स्यात् किन्तु कुलाङ्गना यदि विनयशीला नास्ति, तत् न युज्यते। यत्र अवेविकी अधिपः वर्तते तत्र निवासात् कानने आवासः योग्यः । खलानां समीपं गमनात् मृत्युरेव श्रेयः॥१.१५०॥
🌿
हिन्द्यर्थः--
गोशाला का सूना रहना अच्छा है, परन्तु उनमें दुष्ट बैल रखना अच्छा नहीं है । वेश्या को पत्नी रूप से रख लेना अच्छा है, परन्तु कुलीन स्त्री यदि दुश्चरित्रा हो, तो वह अच्छा नहीं । वन में रहना अच्छा है, परन्तु अविवेकी राजा के राज्य में रहना अच्छा नहीं । प्राण का त्याग कर देना कहीं अच्छा है, परन्तु नीचो, की सेवा और उनका संग-साथ कभी अच्छा नहीं है ॥१.१५०॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.149

🌷
मूलम्--
वरं मौनं कार्यं न च वचनमुक्तं यदनृतं
वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् ।
वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचि-
र्वरं भिक्षाशित्वं न च परधनास्वादनसुखम् ॥१.१४९॥
🌺
पदविभागः--
वरं मौनं कार्यं न च वचनम् उक्तं यद् अनृतं वरं क्लैब्यं पुंसां न च पर-कलत्र-अभिगमनम् । वरं प्राण-त्यागः न च पिशुन-वाक्येषु अभिरुचिः वरं भिक्षाशित्वं न च परधन-आस्वादन-सुखम् ॥१.१४९॥
🌸
अन्वयः--
मौनं कार्यं वरं, यद् अनृतं (तद्) वचनम् उक्तं न च। पुंसां क्लैब्यं वरं, पर-कलत्र-अभिगमनं न च । प्राण-त्यागः वरं, पिशुन-वाक्येषु अभिरुचिः न च । भिक्षाशित्वं वरं, परधन-आस्वादन-सुखं न च ॥१.१४९॥
🌼
प्रतिपदार्थः--
वरं = उत्तमम् ; मौनं कार्यं = तूष्णीभावस्य आचरणम् ; वचनं = वाणी ; अनृतं = मिथ्या ; क्लैब्यं = नपुंसकता ; परकलत्राभिगमनम् = परदाराणां प्रति असाधुवाञ्छा, तदाचरणं च ; प्राणत्यागः = जीवनस्य समापनम् ; पिशुनवाक्येषु = अनुपस्थितौ निन्दासु, दुर्जनखलवचनेषु ; अभिरुचिः=आदरः ; भिक्षाशित्वं = भिक्षाभोजनस्वीकारः ; परधनास्वादनसुखम् = परेषां धनस्य उपभोगे लम्पटता ॥१.१४९॥
🌻
तात्पर्यम्--
(अस्मिन् पद्ये श्रेष्ठाचारस्य कीर्तनं, तदितरस्य गर्हिताचरणस्य निन्दा च कृता ।) असत्यवचनात् न किमपि उक्तमेव साध्वाचारः । अन्येषां पत्नीषु आसक्तेः नपुंसकत्वमेव उत्तमम् । कस्यचित् अनुपस्थितौ दुर्वचनानां प्रयोगात् मृत्युरेव आचरणीयः । अन्येषां धनमुपयुज्य उपभोगेच्छया भिक्षाटनं साधुकार्यम्  ॥१.१४९॥
🌿
हिन्द्यर्थः--
चुप रहना कहीं अच्छा है, परन्तु मू बोलना अच्छा नहीं।  नपुंसकता अच्छा है, परन्तु परस्त्रीगमन अच्छा नहीं । मर जाना अच्छा है परन्तु दुष्ट व निन्दक के वचन में विश्वास करना अच्छा नहीं । भिक्षा माँगकर खाना अच्छा है, परन्तु क्रूर के धन पर आनन्द (मौज) करना कभी अच्छा नहीं है ॥१.१४९॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.148

🌷
मूलम्--
दारिद्र्याद्ध्रियमेति ह्रीपरिगतः सत्त्वात् परिभ्रश्यते
निःसत्त्वः परिभूयते परिभवान्निर्वेदमापद्यते ।
निर्विण्णः शुचमेति शोकनिहतो बुद्ध्या परित्यज्यते
निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥१.१४८॥

🌺
पदविभागः--
दारिद्र्याद् ह्रियम् एति ह्रीपरिगतः सत्त्वात् परिभ्रश्यते निःसत्त्वः परिभूयते परिभवान् निर्वेदम् आपद्यते । निर्विण्णः शुचम् एति शोक-निहतः बुद्ध्या परित्यज्यते निर्बुद्धिः क्षयम् एति अहो निधनता सर्व-आपदाम् आस्पदम् ॥१.१४८॥
🌸
अन्वयः--
दारिद्र्याद् ह्रियम् एति । ह्रीपरिगतः सत्त्वात् परिभ्रश्यते । निःसत्त्वः परिभूयते । परिभवान् निर्वेदम् आपद्यते । निर्विण्णः शुचम् एति । शोकनिहतः बुद्ध्या परित्यज्यते । निर्बुद्धिः क्षयम् एति । अहो निधनता सर्वापदाम् आस्पदम् ॥१.१४८॥
🌼
प्रतिपदार्थः--
दारिद्र्याद् = निर्धनत्वात् । ह्रियं = लज्जाम्। ह्रीपरिगतः = लज्जितः ; सत्त्वात् = शक्त्या, बलात्, ओजसः, पौरुषात्, धैर्याच्च ; परिभ्रश्यते = तेजसा विहीनो भवति ; निस्सत्त्वः = शक्तिहीनः ; परिभूयते = तिरस्क्रियते ; निर्वेदं = ग्लानिम्. मनस्तापञ्च ; आपद्यते = स्थितिं प्राप्नोति ; निर्विण्णः = खिन्नः ; शुचं= शोकम् ; एति = गच्छति ; शोकनिहतः = व्याकुलः ; बुद्ध्या = मत्या ; परित्यज्यते = त्यक्तो भवति ; निर्बुद्धिः = बुद्धिहीनः ; क्षयं = विनाशम् ; निधनता = निर्धनता, दरिद्रता ; सर्वापदां = सकलविपत्तीनाम् ; आस्पदं = स्थानम्, कारणञ्च ॥१.१४८॥
🌻
तात्पर्यम्--
(अस्मिन् पद्ये दरिद्रतायाः नरः परम्पराशृङ्खलया कां स्थितिम् आप्नोतीति दर्शयति) निर्धनः जनः लज्जामनुभवति, ततः कान्तिहीनः, ततः पराभवभाक् च भवति। तेन खेदं, ततश्च शोकं, पुनः बुद्धिहीनतां च समाप्नोति। अहो, वित्तहीनः सर्वदा आपद्भिः एव परिवृत्तो भवति ॥१.१४८॥
🌿
हिन्द्यर्थः--
दरिद्रता से मनुष्य लज्जित सा हो जाता है । लज्जित मनुष्य तेज से हीन हो जाता है! तेजहीन मनुष्य का सर्वत्र निरादर होता है। अनादर से खेद (उदासी) होता है । खिन्न मनुष्य शोक से व्याप्त हो जाता है । शोक ग्रस्त मनुष्य की बुद्धि नष्ट हो जाती है । और बुद्धिहीन मनुष्य का नाश निश्चित है । अतः दरिद्रता ही सब आपत्तियों का आधार स्थान (स्थ कारण) है ॥१.१४८॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.147

🌷
मूलम्--
वरं विभवहीनेन प्राणैः सन्तर्पितोऽनलः ।
नोपचारपरिभ्रष्टः कृपणः प्रार्थितो जनः ॥१.१४७॥

🌺
पदविभागः--
वरं विभव-हीनेन प्राणैः सन्तर्पितः अनलः । न उपचार-परिभ्रष्टः कृपणः प्रार्थितः जनः ॥१.१४७॥
🌸
अन्वयः--
विभवहीनेन प्राणैः सन्तर्पितः अनलः वरम्।  उपचारपरिभ्रष्टः कृपणः प्रार्थितः जनः (इति) न (वरम्) ॥१.१४७॥
🌼
प्रतिपदार्थः--
वरम् = श्रेष्ठम् ; विभवहीनेन = धनरहितेन पुंसा ; अनलः = वह्निः ; प्राणैः = जीवितेन ; सन्तर्पितः = तृप्तिं कारितः, वह्वौ शरीरं हुतं चेत् ; वरं = किञ्चित् श्रेष्ठम् ; उपचारपरिभ्रष्ठः = सत्कारवर्जितः ; कृपणो जनः = कदर्यः ;  प्रार्थितः=याचितः ; ॥१.१४७॥
🌻
तात्पर्यम्--
(अस्मिन् श्लोके निर्धनस्य मनुष्यस्य दुःस्थितिः वर्ण्यते-) सद्भावनारहितस्य परमलुब्धस्य पुरतः गत्वा याचनात् वरमिदं यत् धनहीनः वह्नौ स्वस्य शरीरं त्यजेत् ॥१.१४७॥
🌿
हिन्द्यर्थः--
दरिद्र मनुष्य अपने प्राण को अग्नि में समर्पण कर दे, तो वह बहुत अच्छा है। परन्तु विचार शून्य कृपण मनुष्यों से प्रार्थना करना (उनसे भिक्षा माँगना) यह तो अच्छा नहीं हैं ॥१.१४७॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.146

🌷
मूलम्--
कुसुमस्तबकस्येव द्वे वृत्ती तु मनस्विनः ।
सर्वेषां मूर्ध्नि वा तिष्ठेद् विशीर्येत वनेऽथवा ॥१.१४६॥
🌺
पदविभागः--
कुसुमस्तबकस्य इव द्वे वृत्ती तु मनस्विनः । सर्वेषां मूर्ध्नि वा तिष्ठेद् विशीर्येत वने अथवा ॥१.१४६॥
🌸
अन्वयः--
कुसुमस्तबकस्य इव द्वे वृत्ती तु मनस्विनः । सर्वेषां मूर्ध्नि वा तिष्ठेद् विशीर्येत वने अथवा ॥१.१४६॥
🌼
प्रतिपदार्थः--
कुसुमस्तबकस्य इव=पुष्पगुच्छकस्य इव ; वृत्ती = व्यवस्थिती ; मनस्विनः = मानधनिनः ; मूर्ध्नि = शिरसि ; विशीर्येत = म्लायेत् ; वने = अरण्ये ;  ॥१.१४६॥
🌻
तात्पर्यम्--
पुष्पमालेव उत्तममनस्काः द्वौ मार्गौ एव सरन्ति। सा यद्वा जनानां शिरसि तिष्ठति, नो चेत् वने म्लानीभवति । (तथैव मानिनः सर्वेषां हृदये स्थिताः नो चेत् जनसमाजात् बहिरेव भवन्ति)॥१.१४६॥
🌿
हिन्द्यर्थः--
फूल के गुच्छे की तरह मनस्वी मनुष्य की भी दो ही वृत्तियाँ होती हैं। या तो वह सब के (शिर के) ऊपर ही रहता है, अथवा वह वन में ही पड़ा-पड़ा नष्ट हो जाता है ॥१.१४६॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.145

🌷
मूलम्--
मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति ।
अपि निर्वाणमायाति नानलो याति शीतताम् ॥१.१४५॥

🌺
पदविभागः--
मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति । अपि निर्वाणम् आयाति न अनलः याति शीतताम् ॥१.१४५॥
🌸
अन्वयः--
मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति । अपि निर्वाणम् आयाति न अनलः याति शीतताम् ॥१.१४५॥
🌼
प्रतिपदार्थः--
मनस्वी = उन्नतचेतः ; कामं = इच्छया ; म्रियते=स्वप्राणान् जहाति ; कार्पण्यं = दैन्यम् ; गच्छति, आयाति, याति = स्थितिं प्राप्नोति ; निर्वाणं = शान्तिम् ; शीततां = शैत्यम् ; अनलः = वह्निः ॥१.१४५॥
🌻
तात्पर्यम्--
मानधनी नरः इच्छापूर्वकं मरणं प्राप्नोति किन्तु दीनस्थितिं न आप्नोति । (अस्योदाहरणम्) अनलः अन्ततो गत्वा उपशाम्यति किन्तु शीतो न भवति॥१.१४५॥
🌿
हिन्द्यर्थः--
मनस्वी मनुष्य मर भले ही जाता है, परन्तु वह किसी के सामने दीनता कभी नहीं प्रगट करता है। देखो, अग्नि बुझ तो जरूर जाता है, परन्तु वह कभी शीतल नहीं होता है ॥१.१४५॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.144

🌷
मूलम्--
अत्यन्तविमुखे दैवे व्यर्थे यत्ने च पौरुषे ।
मनस्विनो दरिद्रस्य वनादन्यत् कुतः सुखम् ॥१.१४४॥

🌺
पदविभागः--
अत्यन्त-विमुखे दैवे व्यर्थे यत्ने च पौरुषे । मनस्विनः दरिद्रस्य वनाद् अन्यत् कुतः सुखम् ॥१.१४४॥
🌸
अन्वयः--
दैवे अत्यन्तविमुखे (सति) यत्ने पौरुषे च व्यर्थे (सति) मनस्विनः दरिद्रस्य वनाद् अन्यत् कुतः सुखम् ॥१.१४४॥
🌼
प्रतिपदार्थः--
दैवे = अदृष्टे ; अत्यन्तं विमुखे = नितरां प्रतिकूले सति ; यत्ने = प्रयत्ने च ; पौरुषे = बले च ; व्यर्थे = व्यर्थतां गते सति ; मनस्विनः = मानधनस्य, उन्नतचित्तस्य ; दरिद्रस्य = धनहीनस्य ; वनाद् अन्यत् = स्वदेशं विहाय वनगमनं विना ; कुतः सुखं = क्व सुखं स्यात् ॥१.१४४॥
🌻
तात्पर्यम्--
यदा भाग्यं विमुखं, यदा आत्मबलः, प्रयत्नश्च व्यर्थतां यातः- तदानीम् उत्तममनसः वित्तहीनस्य वनं विहाय क्व सुखम्? नैव कुत्रापि सुखमित्यर्थः ॥१.१४४॥
🌿
हिन्द्यर्थः--
जब विधाता प्रतिकूल हो और जब सब यत्न भी निष्फल हो जाए, तो निर्धन मनस्वी मनुष्य के लिये वन को छोड़कर और काहाँ सुख हो सकता है ? अर्थात् इसे देश छोड़कर अन्यत्र कहीं वनमें चला जाना चाहिए ॥१.१४८॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.143

🌷
मूलम्--
आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् ।
तपो दानापमानञ्च नव गोप्यानि यत्नतः ॥१.१४३॥

🌺
पदविभागः--
आयुः वित्तं, गृहच्छिद्रं, मन्त्रमैथुनभेषजं, तपः, दानापमानं च नव गोप्यानि यत्नतः ॥१.१४३॥
🌸
अन्वयः--
यत्नतः गोप्यानि नव – आयुः, वित्तं, गृहच्छिद्रं, मन्त्रमैथुनभेषजं, तपो, दानापमानं च ॥१.१४३॥
🌼
प्रतिपदार्थः--
आयुः = जीवितकालः ; वित्तं = धनम् ; गृहच्छिद्रं = गृहे भवानि दुश्चरितानि ;  मन्त्रमैथुनभेषजम् = मन्त्रसुरतभेषजानि ; तपः = व्रतपूर्वकप्रयत्नः, दीक्षा ; दानम् = धनादीनां समर्पणम् ; अपमानञ्चेति = पराभवः च इति ; नव गोप्यानि = रहसि स्थाप्यानि, न प्रकाशनीयानि ॥१.१४३॥
🌻
तात्पर्यम्--
(मनुष्येन कतिपय विषयाः न प्रकटनीयाः, क्वचिदपि कस्यचित् अपि पुरतः न वक्तव्याः । ते) प्रयत्नपूर्वकं गोप्यविषयाः नव सन्ति- वयः, वेतनं, गेहे दोषाः, मन्त्रदीक्षादिकं, रतिसुखप्रस्तावः, औषधं, तपस्या, वित्ताद्यर्पणं चेति ॥१.१४३॥
🌿
हिन्द्यर्थः--
आयु, धन, गृह का कलंक, मन्त्र, मैथुन, औषध, तप, दान और अपमान, इन नौ बातों को सदा बहुत सावधानी से छिपाना चाहिए ॥१.१४३॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.142

🌷
मूलम्--
अर्थनाशं मनस्तापं गहे दुश्चरितानि च ।
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥१.१४२॥

🌺
पदविभागः--
अर्थनाशं मनस्तापं गहे दुश्चरितानि च । वञ्चनं, च अपमानं च, मतिमान्न प्रकाशयेत् ॥१.१४२॥
🌸
अन्वयः--
मतिमान् अर्थनाशं, मनस्तापं, गहे दुश्चरितानि च, वञ्चनं, च अपमानं च- न प्रकाशयेत् ॥१.१४२॥
🌼
प्रतिपदार्थः--
अर्थनाशं = धननाशम् ; मनस्तापं = मानसं क्लेशम् ; गृहे = गृहे भवानि ; दुश्चरितानि = दुराचररगानि, व्यभिचारादीनि ; वञ्चनं = दुष्टैः छलः ; अपमानं = तिरस्कारञ्च ; मतिमान् = बुद्धिमान् ; न प्रकाशयेत् =
कस्याप्यग्रे न प्रकटीकुर्यात् ॥१.१४२॥
🌻
तात्पर्यम्--
विवेकशीलः कदापि एतान् स्वदोषान् बहिः न प्रकटयेत्- धनापगमं, मनसि पीडां, गेहे घटमानानि दुर्घटनानि, छलं, पराभवं च॥१.१४२॥
🌿
हिन्द्यर्थः--
क्यों कि- बुद्धिमान् मनुष्य,- अपने धनको नाश, अपने मन को सताप घरकी बुराई, ठगा जाना और अपने अपमान को किसी के सामने प्रकाशित न करे ॥१.१४२॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.141

🌷
मूलम्--
तानीन्द्रियाण्यविकलानि तदेव नाम
सा बुद्धिरप्रतिहता वचनं तदेव ।
अर्थोष्मणा विरहितः पुरुषः स एव
अन्यः क्षणेन भवतीति विचित्रमेतत् ॥१.१४१॥

🌺
पदविभागः--
तानि इन्द्रियाणि अविकलानि तद् एव नाम सा बुद्धिः अप्रतिहता वचनं तद् एव । अर्थ-ऊष्मणा विरहितः पुरुषः सः एव अन्यः क्षणेन भवति इति विचित्रम् एतत् ॥१.१४१॥
🌸
अन्वयः--
तानि अविकलानि इन्द्रियाणि । तद् एव नाम । सा अप्रतिहता बुद्धिः । तद् एव वचनम् । सः एव अर्थोष्मणा विरहितः पुरुषः । अन्यः क्षणेन भवति- इति एतत् विचित्रम् ॥१.१४१॥
🌼
प्रतिपदार्थः--
तानि = यानि पूर्वम् आसन् तानि एव ; अविकलानि = दोषैः अनुपहतानि ; इन्द्रियाणि = चक्षुरादीनि (अप्रकटानि अवयवान्तरिक-संवेदकानि) ; तदेव = यद्धन-सत्त्वसमये आसीत्, तदेव च ; नाम = नामधेयम् ; अप्रतिहता = अकुण्ठिता सा निर्मला एव ; बुद्धिः = मतिः ; तदेव वचनं= वाक्यम् ; अर्थोष्मणा = वित्तागमनेन जनितः अहङ्कारतापः ; स एव = यो धनसत्त्वसमये आसीत्स एवास्ति ; अन्यः = अन्य इव, धनापगमेन प्रभावशून्यः ; इत्येतत् = अयं विषयः ; विचित्रम् = आश्चर्यजनकम् ॥१.१४१॥
🌻
तात्पर्यम्--
धनं यदा अस्ति, तदा यानि अकुण्ठितानि इन्द्रियाणि, नाम, अविहता बुद्धिः, उक्तयः- सर्वाः समानाः धनापगमे अपि सन्ति । मनुष्यः अपि स एवास्ति । किन्तु लोके वित्तहीनस्य स्थितिः सपदि एव पूर्वस्याः धनवत्त्वस्थितेः नितान्तं विरुद्धा घटते इति विचित्रम्॥१.१४१॥
🌿
हिन्द्यर्थः--
यद्यपि दरिद्र होने पर भी पुरुष की वे ही अविकृत इन्द्रियाँ रहती है, वही नाम है, वही पहिले की तरह ही अल्प बुद्धि है, वही वाणी है, परन्तु जब उसमें धन की गर्मी नहीं रहती है, तो क्षण भर में ही उसकी दशा बदल जाती है, यह कैसी विचित्र और आश्चर्य की बात है ॥१.१४१॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.140

🌷
मूलम्--
दारिद्र्यान्मरणाद् वापि दारिद्र्यमवरं स्मृतम् ।
अल्पक्लेशेन मरणं दारिद्र्यमतिदुःसहम् ॥१.१४०॥

🌺
पदविभागः--
दारिद्र्यान् मरणाद् वा अपि दारिद्र्यम् अवरं स्मृतम् । अल्प-क्लेशेन मरणं दारिद्र्यम् अतिदुःसहम् ॥१.१४०॥
🌸
अन्वयः--
दारिद्र्यान् मरणाद् वा अपि दारिद्र्यम् अवरं स्मृतम् । मरणम् अल्प-क्लेशेन, दारिद्र्यम् अतिदुःसहम् ॥१.१४०॥
🌼
प्रतिपदार्थः--
दारिद्र्यात् = धनहीनत्वात् ; मरणात् = मृत्योः ; अवरं = निकृष्टम् ; स्मृतम् = उक्तम्, ज्ञायेत ; अल्पक्लेशेन = क्षणमात्र-स्थायिना दुःखेन ;  दारिद्र्यं = दारिद्र्योत्थितं दुखन्तु ; अतिदुःसहम् = नितरां सोढुमशक्यम् ; ॥१.१४०॥
🌻
तात्पर्यम्--
अत्र वित्तहीनतायाः मृत्योः च तुलना कृता । द्वयोः वित्तहीनता निकृष्टतरास्ति तस्याः अतिदुस्तरत्वात् । प्राणहरणम् अत्यल्पकष्टप्रदम्, दारिद्र्यदुःखं तु आजीवनपीडाकरम्॥१.१४०॥
🌿
हिन्द्यर्थः--
दरिद्रता और मरना इन दोनों में से मरना ही अच्छा है, क्यों कि मरने में तो थोड़ी देर ही क्लेश है, पर दरिद्रता में तो सदा कष्ट ही कष्ट है ॥१.१४०॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.139

🌷
मूलम्--
अपुत्रस्य गृहं शून्यं सन्मित्ररहितस्य च ।
मूर्खस्य च दिशः शून्याः सर्वशून्या दरिद्रता ॥१.१३९॥

🌺
पदविभागः--
अपुत्रस्य गृहं शून्यं सन्मित्र-रहितस्य च । मूर्खस्य च दिशः शून्याः सर्वशून्या दरिद्रता ॥१.१३९॥
🌸
अन्वयः--
अपुत्रस्य सन्मित्र-रहितस्य च गृहं शून्यम् । मूर्खस्य च दिशः शून्याः । दरिद्रता सर्वशून्या ॥१.१३९॥
🌼
प्रतिपदार्थः--
अपुत्रस्य = पुत्ररहितस्य पुंसः ; गृहं = गेहं ; शून्यं = रिक्तम् इव भवति ; सन्मित्ररहितस्य च = श्रेष्ठमित्रविरहितस्यापि च ; मूर्खस्य = अविवेकिनः ;  दिशः = दिक्प्रदेशाः शून्याः, क्वचिदपि स गन्तुमशक्तः, मूर्खत्वात् ; दरिद्रता = धनहीनत्वं ; सर्वशून्या = दरिद्रस्य सर्वमेव शून्यमित्यर्थः ॥१.१३९॥
🌻
तात्पर्यम्--
यस्य पुत्रः नास्ति, तस्य वेश्म सत्सु सर्वेष्वपि अन्येषु सर्वरहितमिव । सुहृदेन विनापि गृहं रिक्तमिव । विवेकहीनस्य आशाः सर्वाः प्रयोजनहीनाः । वित्तहीनता तु सर्वविधशून्यत्वस्य आस्पदम्॥१.१३९॥
🌿
हिन्द्यर्थः--
और भी-जिसको लडका नहीं है उसका, तथा जिसके सच्चा मित्र नहीं है उसका तो घर ही सूना है । और मूर्ख के लिए सब दिशायें ही सूनी हैं । (सभी देश शून्यवत् है, परन्तु दरिद्र के लिये तो सभी कुछ सूना है, अर्थात् दरिद्र के इसलिये सब कुछ सूने की तरह ही है ॥१.१३९॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.138

🌷
मूलम्--
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स पुमान् लोके यस्यार्थाः स हि पण्डितः ॥१.१३८॥

🌺
पदविभागः--
यस्य अर्थाः तस्य मित्राणि यस्य अर्थाः तस्य बान्धवाः । यस्य अर्थाः सः पुमान् लोके यस्य अर्थाः सः हि पण्डितः ॥१.१३८॥
🌸
अन्वयः--
यस्य अर्थाः तस्य मित्राणि यस्य अर्थाः तस्य बान्धवाः । यस्य अर्थाः सः पुमान् लोके यस्य अर्थाः सः हि पण्डितः ॥१.१३८॥
🌼
प्रतिपदार्थः--
यस्य = पुंसः ; अर्थाः = धनानि सन्ति ; तस्य = तस्य एव ; मित्राणि = सुहृदः भवन्ति ; बान्धवाः = सम्बन्धिनः ; पुमान् = पुरुषश्रेष्ठः ; लोके  विश्वे ; पण्डितः = विद्वान् ॥१.१३८॥
🌻
तात्पर्यम्--
यस्य समीपे धनं वर्तते सः एव लोके मित्रवान्, बान्धववान्, नरश्रेष्ठः, विद्यावान् इति च प्रसिद्धिं याति। (अत्र धनसम्बद्धां लोकरीतिं दर्शयति । लोकः तथास्तीति एव भावः, न तु तथा भवितव्यमिति।) ॥१.१३८॥
🌿
हिन्द्यर्थः--
जिसके पास धन है, उसीके सब लोग मित्र हैं, उसी के भाह बन्धु है, वह श्रेष्ठ पुरुष है और वही सच्चा पण्डित है ॥१.१३८॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.137

🌷
मूलम्--
अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः ।
क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥१.१३७॥
🌺
पदविभागः--
अर्थेन तु विहीनस्य पुरुषस्य अल्प-मेधसः । क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितः यथा ॥१.१३७॥
🌸
अन्वयः--
अर्थेन तु विहीनस्य पुरुषस्य अल्प-मेधसः । क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितः यथा ॥१.१३७॥
🌼
प्रतिपदार्थः--
अर्थेन = धनेन ; विहीनस्य = रहितस्य ; अल्पमेधसः = स्वल्पमतेः ; सर्वाः क्रियाः = सर्वाणि कर्माणि ; विनश्यन्ति = हीयन्ते ; ग्रीष्मे = आतपकाले ; कुसरितः = स्वल्पजला नद्यः ; ॥१.१३७॥
🌻
तात्पर्यम्--
यथा अधिके आतपे अल्पनीरयुक्ताः नद्यः शुष्यन्ति, तथैव बुद्धिहीनस्य धनहीनस्य प्रयतनानि सर्वाणि व्यर्थानि भवन्ति॥१.१३७॥
🌿
हिन्द्यर्थः--
धनहीन (दरिद्र) हो जाने से अल्पबुद्वि वाले भाग्यहीन मनुष्य के सभी काम उसी प्रकार बिगड़े जाते हैं, जैसे गरमी में सब छोटी छोटी नदियाँ सूख जाती है ॥१.१३७॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.135

🌷
मूलम्--
धनवान् बलवाँल्लोके सर्वः सर्वत्र सर्वदा ।
प्रभुत्वं धनमूलं हि राज्ञामप्युपजायते ॥१.१३५॥

🌺
पदविभागः--
धनवान् बलवान् लोके सर्वः सर्वत्र सर्वदा । प्रभुत्वं धनमूलं हि राज्ञाम् अपि उपजायते ॥१.१३५॥
🌸
अन्वयः--
लोके सर्वः सर्वत्र सर्वदा धनवान् बलवान् । राज्ञाम् अपि प्रभुत्वं धनमूलं हि उपजायते ॥१.१३५॥
🌼
प्रतिपदार्थः--
धनवान् = वित्तयुक्तः ; बलवान् = बलसम्पन्नः ; राज्ञामपि = महाराजानमपि ; प्रभुत्वं = राजत्वं ; धनमूलमेव = धनेनैव, धन-हेतुकमेव ; उपजायते = भवति ॥१.१३५॥
🌻
तात्पर्यम्--
लोके सर्वस्थानेषु सर्वकालेषु धनसम्पन्नः एव बलयुक्तः भवति । राजानः अपि धनकारणेनैव सर्वशासकाः जायन्ते ॥१.१३५॥
🌿
हिन्द्यर्थः--
क्योकि- संसार में सभी जगह, सदा ही, धनी लोग ही बलवान् गिने जाते हैं । राजा लोग भी धन ही के कारण सबके स्वामी बने रहते हैं ॥१.१३५॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.134

🌷
मूलम्--
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः ।
स्वभावेनैव तच्छास्त्रं स्त्रीबुद्धौ सुप्रतिष्ठितम् ॥१.१३४॥

🌺
पदविभागः--
उशना वेद यत्-शास्त्रं यत् च वेद बृहस्पतिः । स्वभावेन एव तत् शास्त्रं स्त्रीबुद्धौ सुप्रतिष्ठितम् ॥१.१३४॥
🌸
अन्वयः--
यत्-शास्त्रम् उशना वेद यत् च बृहस्पतिः वेद, तत् शास्त्रं स्त्रीबुद्धौ स्वभावेन एव सुप्रतिष्ठितम् ॥१.१३४॥
🌼
प्रतिपदार्थः--
उशनाः = शुक्राचार्यः ; यच्छास्त्रं = यत् नीतिशास्त्रादिकम् ; वेद = अध्ययनादिना वेत्ति ; बृहस्पतिः = देवगुरुः ; वेद = अधीत्य ज्ञातवान् ; तत्-शास्त्रसारं ; स्वभावेनैव = प्रकृत्यैव ; स्त्रीबुद्धौ = नारीणां मतौ ; सुप्रतिष्ठितम् = सम्यक् उपस्थितम् ; ननु शिक्षणादेः तत्र न आवश्यकतेति भावः ॥१.१३४॥
🌻
तात्पर्यम्--
दैत्यगुरुः देवगुरुश्च यत् शास्त्रादिकं जानाति, तत् सर्वं सहजमेव नारीणां बुद्धिषु पूर्वमेव सुस्थितम् (अध्ययनादिकस्य आवश्यकता नास्तीति यावत्) ॥१.१३४॥
🌿
हिन्द्यर्थः--
कहा भी है- शुक्राचार्य और बृहस्पति भी जिन शास्त्रों को अपने गुरु से पढकर ही जानसके हैं, वे सब शास्त्र स्त्रियों की बुद्धि में स्वभाव से ही रहते हैं ॥१.१३४॥
🙏


हितोपदेश-सुभाषित-श्लोकाः - 1.133

🌷
मूलम्--
स्त्रियो हि चपला नित्यं देवानामपि विश्रुतम्।
ताश्चापि रक्षिता येषां ते नराः सुखभागिनः ॥१.१३३॥

🌺
पदविभागः--
स्त्रियः हि चपलाः नित्यं देवानामपि विश्रुतम् । ताः च अपि रक्षिता येषां ते नराः सुखभागिनः ॥१.१३३॥
🌸
अन्वयः--
देवानामपि स्त्रियः हि नित्यं चपलाः (इति) विश्रुतम् । येषां ताः च अपि रक्षिता ते नराः सुखभागिनः ॥१.१३३॥
🌼
प्रतिपदार्थः--
(न केवलं मानुषाणामेव, किन्तर्हि) देवानाम् अपि स्त्रियः = लक्ष्मी-प्रभृतयः स्त्रियः ; चपलाः = चञ्चलाः ; इति  विश्रुतं = पुराणादौ प्रसिद्धमेव ; ताः = प्रकृति-चपलाः स्त्रियः ; येषां = अन्येषां पुसां, यैर्वा पुरुषैः ; रक्षिताः = सुरक्षिताः, शीले स्थापिताः ; ते एव नराः सुखभागिनः = लोके सुखिनः ॥१.१३३॥
🌻
तात्पर्यम्--
देवतानामपि नार्यः नित्यं चञ्चलाः इति प्रसिद्धमेव। तादृश्यपि नार्यः येषां पुरुषाणां सुरक्षिताः सन्ति, एते सुखिनः सन्ति॥१.१३३॥
🌿
हिन्द्यर्थः--
क्योकि- स्त्रियाँ सदा चञ्चल हैं- यह बात लक्ष्मी आदिके विषय में देवताओं में भी प्रसिद्ध है । अतः जिन पुरुषों की स्त्रियां सुशील व सुरक्षित हैं, वे ही मनुष्य संसार में सुखी हैं ॥१.१३३॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.132

🌷
मूलम्--
पिता रक्षति कौमारे भर्ता रक्षति यौवने।
पुत्रश्च स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥१.१३२॥

🌺
पदविभागः--
पिता रक्षति कौमारे, भर्त्ता रक्षति यौवने। पुत्रः च स्थाविरे भावे, न स्त्री स्वातन्त्र्यम् अर्हति ॥१.१३२॥
🌸
अन्वयः--
पिता कौमारे रक्षति, भर्त्ता यौवने रक्षति । पुत्रः च स्थाविरे भावे (रक्षति), स्त्री स्वातन्त्र्यं न अर्हति ॥१.१३२॥
🌼
प्रतिपदार्थः--
पिता = जनकः ; कौमारे = बाल्ये ; भर्ता = पतिः ; यौवने = युवावस्थायाम् ; स्थाविरे भावे = वृद्धावस्थायाम् ; रक्षति = संरक्षणं करोति ; अतः- स्त्री = नारी ; कदापि स्वातन्त्र्यं = स्वाधीनतां ; न अर्हति = नैव अर्हति ॥१.१३२॥
🌻
तात्पर्यम्--
वनिता यदा कुमारी तदा जन्मदः संरक्षति। यदा सा युवती तदा धवः रक्षणं निर्वहति। सा जराजीर्णा भवति तदा आत्मजः तां पश्यति। सा स्वतन्त्रा न तिष्ठेत्॥१.१३२॥
🌿
हिन्द्यर्थः--
और बाल्यावस्था में स्त्री की रक्षा पिता को करनी चाहिए जवानी में पति को रक्षा करनी चाहिये । और वृद्धावस्था में पुत्र की उनकी रक्षा करना चाहिये। इस प्रकार स्वयं को कभी स्वतन्त्र नहीं छोडना चाहिये ॥१.१३२॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.131

🌷
मूलम्--
न लज्जा न विनीतत्वं न दाक्षिण्यं न भीरुता।
प्रार्थनाभाव एवैकं सतीत्वे कारणं स्त्रियाः ॥१.१३१॥
🌺
पदविभागः--
न लज्जा, न विनीतत्वं, न दाक्षिण्यं न भीरुता। प्रार्थना-अभावः एव एकं सतीत्वे कारणं स्त्रियाः ॥१.१३१॥
🌸
अन्वयः--
न लज्जा, न विनीतत्वं, न दाक्षिण्यं न भीरुता (वा नास्ति कारणम्)। प्रार्थनाभावः एव एकं स्त्रियाः सतीत्वे कारणम् ॥१.१३१॥
🌼
प्रतिपदार्थः--
नेति । लज्जा = व्रीडा, गुर्वादिलज्जा ; विनीतत्वं = विनयः, शिक्षेति यावत् ; दाक्षिण्यं = मनोऽनुकूलता, अनुरोधः, चातुर्यं वा ; भीरुता = ताडनादिभयातुरता, मुग्धता वा ; प्रार्थनाभावः = कामुकपुरुषेण कृतायाः प्रार्थनायाः अभावः एव ; प्रार्थकाभाव' इति पाठान्तरम् ; सतीत्वे = साध्वीभावे ; कारणं = हेतुः ; स्त्रियाः = नार्याः ॥१.१३१॥
🌻
तात्पर्यम्--
नारी साध्वी भवतीति अत्र कारणं – लज्जा, विनयभावः, सरलता, भीतिः वा न। तत्र कामुकः कोपि आगत्य सङ्गमेच्छा न व्यनक्ति इत्येव हेतुः तत्र ॥१.१३१॥
🌿
हिन्द्यर्थः--
और स्त्री के सती होने का कारणा तो लज्जा है, न नम्रता है, न दान-शीलता है, और न डर ही है, किन्तु इसमें यदि कोई कारण है, तो वह केवल प्रार्थना करने वाले पुरुष का पास में नहीं होना ही है ॥१.१३१॥
🙏


हितोपदेश-सुभाषित-श्लोकाः - 1.130

🌷
मूलम्--
मात्रा, स्वस्रा, दुहित्रा वा न विविक्तासनो भवेत्।
बलवानिन्द्रियग्रामो महान्तमपि कर्षति ॥१.१३०॥
🌺
पदविभागः--
मात्रा, स्वस्रा, दुहित्रा वा न विविक्ता आसनः भवेत्। बलवान् इन्द्रिय-ग्रामः महान्तम् अपि कर्षति ॥१.१३०॥
🌸
अन्वयः--
मात्रा, स्वस्रा, दुहित्रा वा न विविक्ता आसनः भवेत्। बलवान् इन्द्रिय-ग्रामः महान्तम् अपि कर्षति ॥१.१३०॥
🌼
प्रतिपदार्थः--
मात्रा = जनन्या ; स्वस्रा = भगिन्या ; दुहित्रा = पुत्र्या ; विविक्तासनः = निर्जनप्रदेशस्थितः, एकान्त-स्थितः ; बलवान् = शक्तिशाली, अनियतः ; इन्द्रियग्रामः = इन्द्रियाणां समूहः ; महान्तम् अपि = सद्गुणयुक्तम्, सच्छीलम् अपि ; कर्षति = बलवत् समीपं नयति, अत्र- पापे नियोजयति ॥१.१३०॥
🌻
तात्पर्यम्--
जनयित्र्या, सोदर्या, आत्मजायाः च सह एकाकी न तिष्ठेत्। अवशः महापुरुषमपि हृषीकाणां वर्गः महात्मानम् अपि प्रलोभे पातयति ॥१.१३०॥
🌿
हिन्द्यर्थः--
बुद्धिमान् पुरुष को अपनी माता, बहन तथा अपनी लड़की के साथ भी कभी भी एकान्त में नहीं बैठना चाहिये, क्यों कि इन्द्रियों बड़ी प्रबल हैं, ये (इन्द्रियाँ) विद्वान् को भी अपने वश में कर ले सकती है ॥१.१३०॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.129

🌷
मूलम्--
घृतकुम्भसमा नारी तप्ताङ्गारसमः पुमान्।
तस्माद् घृतञ्च वह्निञ्च नैकत्र स्थापयेद्बुधः ॥१.१२९॥

🌺
पदविभागः--
घृतकुम्भसमा नारी, तप्त-अङ्गार-समः पुमान्। तस्मात् घृतञ्च वह्निं च, न एकत्र स्थापयेद् बुधः ॥१.१२९॥
🌸
अन्वयः--
नारी घृतकुम्भसमा, पुमान् तप्ताङ्गारसमः । तस्मात् बुधः घृतं च वह्निं च, एकत्र न स्थापयेत् ॥१.१२९॥
🌼
प्रतिपदार्थः--
घृतकुम्भसमा = घृतपूर्णघटतुल्या ; नारी = स्त्री ; तप्ताङ्गारसमः =ज्वलद्-अङ्गार-तुल्यः ; पुमान् = पुरुषः ; तस्माद् = तेन कारणेन ; घृतञ्च = आज्यं च ; वह्निञ्च = अग्निं च ; नैकत्र = एकस्मिन् स्थान् न ; स्थापयेद् = न्यस्येत् ; बुधः= बुद्धिमान् ;॥१.१२९॥
🌻
तात्पर्यम्--
वनिता सर्पिःसदृशा। नरः तु उष्ण-अङ्गारतुल्यः। अतः द्वावपि एकत्र न स्थापनीयौ।  ॥१.१२९॥
🌿
हिन्द्यर्थः--
और स्त्री- घी से भरे घड़े के समान है, पुरुष-जलते हुए अङ्गार (अग्नि) है समान है, इस लिए बुद्धिमान् पुरुष को चाहिये कि घृत और अग्नि को एक साथ कभी न रखे ॥१.१२९॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.128

🌷
मूलम्--
न स्त्रीणामप्रियः कश्चित्प्रियो वापि न विद्यते ।
गावस्तृणमिवारण्ये प्रार्थयन्ति नवं नवम् ॥१.१२८॥

🌺
पदविभागः--
न स्त्रीणाम् अप्रियः कश्चित् प्रियः वा अपि न विद्यते । गावः तृणम् इव अरण्ये प्रार्थयन्ति नवं नवम् ॥१.१२८॥
🌸
अन्वयः--
कश्चित् स्त्रीणाम् अप्रियः प्रियः वा अपि न विद्यते । गावः अरण्ये नवं नवं तृणं प्रार्थयन्ति इव (ताः अपि)॥१.१२८॥
🌼
प्रतिपदार्थः--
स्त्रीणां = नारीणां ; प्रियः = हृदयसमीपवर्ती ; अप्रियः = इष्टाभावपात्रम् ; कश्चित् न विद्यते = कोपि न अस्ति ;  अरण्ये = वने ; गावः = धेनवः ; नवं नवं = प्रत्यहं नूतनं नूतनं ; तृणम् = हरितम् ; इव = वत् ; प्रार्थयन्ति = इच्छन्ति ॥१.१२८॥
🌻
तात्पर्यम्--
नारीणां इष्टः, इष्टरहितः वा कोपि न भवति। (अत्रोदाहरणम्) धेनवः वने नवं नवं त्रिणम् अभिलषन्ति, (तथैव वनिताः अपि नूतनं पुरुषम् काङ्क्षन्ति)॥१.१२८॥
🌿
हिन्द्यर्थः--
और भी- स्त्रियों का न तो कोई प्रिय है और न उनका कोई अप्रिय ही है । किन्तु जैसे गाय वन में नया नया तृण (घास) ढूँढती रहती हैं, (वैसे ही स्त्रियां भी नये नये पुरुषों को खोजा करती हैं) ॥१.१२८ ॥
🙏


हितोपदेश-सुभाषित-श्लोकाः - 1.127

🌷
मूलम्--
स्थानं नास्ति क्षणो नास्ति नास्ति प्रार्थयिता
तेन नारद नारीणां सतीत्वमुपजायते ॥१.१२७॥

🌺
पदविभागः--
स्थानं नास्ति, क्षणः नास्ति, नास्ति प्रार्थयिता तेन नारद! नारीणां सतीत्वम् उपजायते॥१.१२७॥
🌸
अन्वयः--
नारद! स्थानं नास्ति, क्षणः नास्ति, प्रार्थयिता नास्ति। तेन नारीणां सतीत्वम् उपजायते॥१.१२७॥
🌼
प्रतिपदार्थः--
स्थानम् = व्यभिचाराय एकान्तस्थानमित्यर्थः ; क्षणः = अवसरः ; प्रार्थयिता = कामयिता, कामी, यः व्यभिचरितुमिच्छेत्, शीलखण्डनाय लोभादिप्रदर्शनेनोत्तेजकः ; हे नारदेति सम्बोधनपदम् ; तेन = तेनैव, नान्यथा इत्यर्थः ॥१.१२७॥
🌻
तात्पर्यम्--
हे नारद, आस्पदराहित्यम्, अवसराभावः, कामिनः अनुपलब्धिरेव स्त्रियः साध्वीत्वे कारणानि भवन्ति (स्थानादिकानामभावात् एव स्त्रीणां सतीत्वं तिष्ठति)॥१.१२७॥
🌿
हिन्द्यर्थः--
हे नारद! स्त्रियाँ पतिव्रता तभी तक रह सकती हैं, जब तक या तो उनके लिए व्यभिचारका कोई स्थान ही नहीं हो, या समय (व्यभिचार के लिये मौका) ही न मिले, या उनके चाहने वाला कोई पुरुष ही न हो ॥१.१२७॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.126

🌷
मूलम्--
पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् ।
स्वप्नश्चान्यगृहे वासो नारीणां दूषणानि षट् ॥१.१२६॥

🌺
पदविभागः--
पानं दुर्जन-संसर्गः, पत्या च विरहः अटनम् । स्वन्नश्चा अन्यगृहे वासः, नारीणां दूषणानि षट् ॥१.१२६॥
🌸
अन्वयः--
नारीणां दूषणानि षट् – पानं, दुर्जनसंसर्गः, पत्या च विरहः, अटनम्, अन्यगृहे स्वप्नः वासः च ॥१.१२६॥
🌼
प्रतिपदार्थः--
नारीणां = स्त्रीणां ; दूषणानि = दुष्टलक्षणानि ; पानं = मद्यपानम् ; दुर्जनसंसर्गः = दुष्टैः जनैः सह मित्रता ; पत्या = भर्त्रा ; विरहः = कोपात् दूरे वासः ; अटनं = भ्रमणम् ; अन्यगृहे = बन्धुमित्राणां, अज्ञातानां वा गेहे ; स्वप्नः = शयनम् ; ॥१.१२६॥
🌻
तात्पर्यम्--
अत्र योषितां दुर्लक्षणानि उक्तानि- मधुपानं, दुर्जनसम्पर्कः, भर्तुः दूरे स्थितिः, वृथा विचरणं, परेषां गृहेषु निद्राकरणं, दीर्घवासः चेति ॥१.१२६॥
🌿
हिन्द्यर्थः--
और भी- शराब पीना, दुष्टों का साथ, पति का विरह, इधर उधर घूमना, दूसरे के धर में रहना या सोना, अकारण हँसना, हँसी-ठट्ठा ये छः कारण स्त्रियों के दूषित होने (बिगड़ने) के होते हैं ॥१.१२६॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.125

🌷
मूलम्--
स्वातन्त्र्यं पितृमन्दिरे निवसतिर्यात्रोत्सवे सङ्गति-
र्गोष्ठी पूरुषसन्निधावनियमो, वासो विदेशे तथा ।
संसर्गः सह पुंश्चलीभिरसकृद्वृत्तेर्निजायाः क्षतिः,
पत्युर्वार्द्धकमीषितं प्रवसनं नाशस्य हेतुः स्त्रियाः॥१.१२५॥
🌺
पदविभागः--
स्वातन्त्र्यं पितृमन्दिरे निवसतिः यात्रोत्सवे सङ्गति-गोष्ठी पूरुषसन्निधौ अनियमः, वासः विदेशे तथा । संसर्गः सह पुंश्चलीभिः असकृद् वृत्तेः निजायाः क्षतिः, पत्युः वार्द्धकम् ईर्षितं, प्रवसनं, नाशस्य हेतुः स्त्रियाः॥१.१२५॥
🌸
अन्वयः--
स्वातन्त्र्यं, पितृमन्दिरे निवसतिः, यात्रोत्सवे सङ्गतिः, गोष्ठी, पूरुषसन्निधौ अनियमः, विदेशे वासः तथा, पुंश्चलीभिः सह असकृत् संसर्गः, निजायाः वृत्तेः क्षतिः, पत्युः वार्द्धकम् ईर्षितं, प्रवसनं- स्त्रियाः नाशस्य हेतुः ॥१.१२५॥
🌼
प्रतिपदार्थः--
स्वातन्त्र्यमिति । स्वातन्त्र्यं = स्वतन्त्रता ; पितृमन्दिरे = जनकस्य गेहे ; निवसतिः = निवासः ; यात्रोत्सवे, यात्रा = ग्रामान्तरादि-गमनम्, उत्सवे = विवाहादौ ; सङ्गतिः = जनैः सह गमनम्, जनसंसर्गः ; यद्वा यात्रोत्सवे = जनमेलापके, देवयात्रादौ, विवाहादौ च, सङ्गतिः = मुहुर्यानमित्यर्थः ; पुरुषसन्निधौ = पुरुषाणां सविधे ; गोष्ठी = आसनबन्धः वार्तालापः च ;  अनियमः = निरोधाभावः ; विदेशे वासः = परदेशे निवासः ; पत्युरात्मनश्चेति शेषः । पुंश्चलीभिः = दुष्टस्त्रीभिः, कुलटाभिः ; असकृत् = मुहुर्मुहुः ; संसर्गः = सम्पर्कः ; निजायाः = आत्मनः ; वृत्तेः = जीविकायाः ; क्षतिः = अभावः, विनाशश्च ; वार्धक्यं = पत्युः वृद्धावस्था ; ईर्षितं = पत्युरीर्ष्यालुत्वम्, स्वस्य वा ; प्रवसनं = पत्युर्विदेशे प्रवासः ; (पाठ. प्रहसनं = अकारणं हसणं च) स्त्रीणां = नारीणां ; नाशस्य = पतनस्य, शीलखण्डनस्य ; हेतुः = हेतवः ॥१.१२५॥
🌻
तात्पर्यम्--
योषितां शीलविनाशे हेतवः उच्यन्ते- नियन्त्रणराहित्यं, जन्मदस्य सदने (दीर्घकालं यावत्) वासः, अत्र तत्र प्रदेशान्तर-विहरणं, उत्सवमेलनादिषु (सुदीर्घकालं यावत्) विचरणं, वृथासँल्लापवर्गेषु गमनं, पुरुषैः सह समीपवर्तनं, नियमराहित्यं, विदेशवासः, दुश्चरिताभिः वनिताभिः सह मित्रता, स्वस्याः पत्युः वा जीविकायाः अभावः, भर्तुः वृद्धत्वं, धवस्य ईर्ष्यालुत्वं, स्वस्याः पत्युः वा अधिककालं यावत् देशान्तरवासः च ॥१.१२५॥
🌿
हिन्द्यर्थः--
क्यों कि- स्वतन्त्रता, पिता के घर (पीहर में) रहना, यात्रा (देवता आदि के दर्शनों के मेले एवं विवाह उत्सव इत्यादि में लोगों से मित्रता, पुरुषों के साथ में बिना रोक टोक बैठना और उनसे गप लड़ाना, किसी की रोक टोक का न रहना, विदेश में रहना, व्यभिचारिणी स्त्रियों का साथ होना, जीविका (खाने-पीने) का अभाव, पति का वृद्ध होना, पति का इर्षालु होना, और पति का परदेश में रहना,-ये सब स्त्रियों के बिगड़ने के कारण हैं ॥१.१२५॥
🙏


हितोपदेश-सुभाषित-श्लोकाः - 1.124

🌷
मूलम्--
नोपभोक्तुं न च त्यक्तुं शक्रोति विषयाञ्जरी ।
अस्थि निर्दशनः श्वेव जिह्वया लेढि केवलम् ॥१.१२४॥

🌺
पदविभागः--
न उपभोक्तुं न च त्यक्तुं शक्रोति विषयान् जरी । अस्थि निर्दशनः श्वेव जिह्वया लेढि केवलम् ॥१.१२४॥
🌸
अन्वयः--
जरी विषयान् न उपभोक्तुं (शक्नोति) न च त्यक्तुं शक्रोति । निर्दशनः श्वेव केवलम् अस्थि जिह्वया लेढि ॥१.१२४॥
🌼
प्रतिपदार्थः--
जरी = जराजीर्णो वृद्धः ; विषयान् = कान्तासुखादीन् ; उपभोक्तुम् = सुखं प्राप्तुं, आनन्दितुम् ; त्यक्तुं = परित्यक्तुं ; शक्नोति = पारयति ; निर्दशनः = दन्तविकलः ; श्वा इव = कुक्कुरवत् ; अस्थि = कीकशम् ; केवलं लेढि = जिह्वया केवलम् आस्वादयति एव ॥१.१२४॥
🌻
तात्पर्यम्--
जर्जरः नरः उपभोगवस्तूनि न च आनन्दितुं न वा हातुं पारयति। (अत्रोदाहरणम्) दन्तै विहीनः शुनकः कर्करं केवलं लिह्यति (दष्टुं न शक्नोति)॥१.१२४॥
🌿
हिन्द्यर्थः--
और वृद्ध मनुष्य न तो विषयों (स्त्री आदि) को भोग ही सकता है, और न उन्हें छोड़ ही सकता किन्तु जिस प्रकार दन्तहीन कुत्ता हड्डी को केवल जीभसे चाटता रहता है, किन्तु उसे चबा नहीं सकता है, वही दशा उस वृद्ध मनुप्य की भी होती है ॥१.१२४॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.123

🌷
मूलम्--
धनाशा जीविताशा च गुर्वी प्राणभृतां सदा ।
वृद्धस्य तरुणी भार्या प्राणेभ्योऽपि गरीयसी ॥१.१२३॥

🌺
पदविभागः--
धनाशा जीविताशा च गुर्वी प्राणभृतां सदा । वृद्धस्य तरुणी भार्या प्राणेभ्यः अपि गरीयसी ॥१.१२३॥
🌸
अन्वयः--
प्राणभृतां सदा धनाशा जीविताशा च गुर्वी । तरुणी भार्या वृद्धस्य प्राणेभ्यः अपि गरीयसी ॥१.१२३॥
🌼
प्रतिपदार्थः--
यद्यपि- प्राणभृतां = प्राणिनां ; धनाशा = वित्ते इच्छा ; जीविताशा = जीवनयापने आकाङ्क्षा ; सदा = तर्वदा ; गुर्वी = महती, अधिका भवति ; तथापि- वृद्धस्य = जराजीर्णस्य ; तरुणी भार्या = यौवनवती पत्नी ; तु तस्य प्राणेभ्योऽपि = प्राणानाम् अपेक्षया अपि ; गरीयसी = नितरां गुर्वी भवति ; ॥१.१२३॥
🌻
तात्पर्यम्--
यद्यपि- जीवानां द्रविणाकाङ्क्षा, आयुषि कामना च प्रबला भवति, तथापि- गतयौवनस्य प्राणेभ्यः अपि अधिका युवती कान्ता भाति ॥१.१२३॥
🌿
हिन्द्यर्थः--
क्यों कि- सभी प्राणियों को धन की आशा और जीवन की आशा (लालसा) स्वभावतः अधिक होती है । परन्तु वृद्ध पुरुष को तो अपनी युवती स्त्री अपने प्राणों से भी अधिक प्यारी होती है ॥ १.१२३ ॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.122

🌷
मूलम्--
पलितेषु हि दृष्टेषु पुंसः का नाम कामिता ।
भैषज्यमिव मन्यन्ते यदन्यमनसः स्त्रियः ॥१.१२२॥

🌺
पदविभागः--
पलितेषु हि दृष्टेषु पुंसः का नाम कामिता! । भैषज्यम् इव मन्यन्ते यद् अन्य-मनसः स्त्रियः ॥१.१२२॥
🌸
अन्वयः--
पुंसः (केशेषु) पलितेषु हि दृष्टेषु का नाम कामिता! यद् अन्य-मनसः स्त्रियः भैषज्यम् इव मन्यन्ते ॥१.१२२॥
🌼
प्रतिपदार्थः--
पलितेषु = शुक्लेषु केशेषु, केशशौक्ल्ये ; दृष्टेषु = जातेषु ; का नाम = का खलु ; कामिता = कामोपभोगपरायणता ; सा नैवोचिता इत्यर्थः ; यत् = यस्मात् ; अन्यमनसः = विरक्ताः, अन्यासक्ता वा ; स्त्रियः = कामिन्यः ; भैषज्यम् इव = कटुकौषधम् इव ; मन्यन्ते = भावयन्ति, ॥१.१२२॥
🌻
तात्पर्यम्--
मनुष्यस्य मूर्धजाः यदा शुक्लवर्णं प्राप्ताः, तदा का वार्ता कामभावस्य? नार्यः तादृशं पतिं परिहार्यं मन्यन्ते, अनिच्छया च तं सेवन्ते ॥१.१२२॥
🌿
हिन्द्यर्थः--
और जब पुरुष के सब बाल पक गये हों तो फिर कहो उसकी कामुकता कैसी ? अर्थात् वृद्धावस्था में कामोपभोग की इच्छा व्यर्थ है । क्यों कि- वृद्ध पुरुष की स्त्री दूसरे से आसक्त हो जाती हैं और वह अपने उस वृद्ध पति को औषध (दवा) की तरह ही कडुआ समझती है ॥१.१२२॥
🙏


हितोपदेश-सुभाषित-श्लोकाः - 1.121

🌷
मूलम्--
शशिनीव हिमार्तानां घर्मार्तानां रवाविव ।
मनो न रमते स्त्रीणां जराजीर्णेन्द्रिये पतौ ॥१.१२१॥

🌺
पदविभागः--
शशिनी इव हिमार्तानां घर्मार्तानां रवौ इव । मनः न रमते स्त्रीणां जरा-जीर्णेन्द्रिये पतौ ॥१.१२१॥
🌸
अन्वयः--
शशिनी इव हिमार्तानां घर्मार्तानां रवौ इव स्त्रीणां मनः जरा-जीर्णेन्द्रिये पतौ न रमते ॥१.१२१॥
🌼
प्रतिपदार्थः--

हिमार्तानाम्= शीतपीडितानाम् ; शशिनि = चन्द्रे ; इव = वत् ; घर्मार्तानां = ग्रीष्मोपतापतप्तानाम् ; रवौ = सूर्ये ; स्त्रीणां = नारीणां ; मनः = चित्तं ;  जराजीर्णेन्द्रिये = जरया विकले इन्द्रियग्रामे ; पतौ = भर्तरि (छान्दसोऽयं प्रयोगः, पत्यौ इत्युचितम्) ; 'धवे' इति पाठान्तरम् ; न रमते = आनन्दितं न भवति ॥१.१२१॥
🌻
तात्पर्यम्--
शैत्येन पीडितानां यथा चन्द्रमसि आसक्तिः न भवति, आतपेन तप्तानाम् आदित्ये चेतः न भवति, तथैव यस्य इन्द्रियाणि जीर्णानि तादृशि वृद्धे पत्यौ नारीणां मनः रतं न भवति ॥१.१२१॥
🌿
हिन्द्यर्थः--
हिम (बर्फ़ जाड़ा) से पीडित प्राणी को चन्द्रमा अच्छा नहीं लगता है, धूप से पीडित मनुष्य को सूर्य अच्छा नहीं लगता है, वैसे ही जिस की सभी इन्द्रियों जीर्ण हो गयी हो ऐसा वृद्धपति युवति स्त्रियों को कभी अच्छा नहीं लगता है ॥१.१२१॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.120

🌷
मूलम्--
अकस्माद्युवती वृद्धं केशेष्वाकृष्य चुम्बति ।
पतिं निर्दयमालिङ्ग्य हेतुरत्र भविष्यति ॥१.१२०॥

🌺
पदविभागः--
अकस्माद् युवती वृद्धं केशेषु आकृष्य चुम्बति । पतिं निर्दयम् आलिङ्ग्य हेतुः अत्र भविष्यति' ॥१.१२०॥
🌸
अन्वयः--

युवती अकस्माद् वृद्धं पतिं निर्दयम् आलिङ्ग्य केशेषु आकृष्य चुम्बति, अत्र हेतुः भविष्यति' ॥१.१२०॥
🌼
प्रतिपदार्थः--
अकस्माद् = हेतुना विना, विनापि हेतोः ; युवती = तरुणी ; वृद्धं = जराजीर्णम् ; केशेषु = मूर्धजेषु ; आकृष्य = बलात् समीपमाहूय ; पतिम् = स्वामिनम् ; निर्दयम् = बलवत् ; आलिङ्ग्य = आश्लिष्य ; चुम्बति = मुखम् ओष्ठैः स्पृशति ; हेतुः = किमपि कारणम् ॥१.१२०॥
🌻
तात्पर्यम्--
यदि काचित् प्राप्तयौवना अकारणं स्थविरं भर्तारं बलेन निकटमाहूय परिष्वङ्गसहितं मुखसंयोगं करोति, तत्र अवश्यं किमपि कारणम् अवश्यं भविष्यति ॥१.१२०॥
🌿
हिन्द्यर्थः--
वृद्धपति की जवान (युवती) स्त्री सहसा अपने वृद्धपति के केशों को पकड़कर उसका गाढ़ आलिङ्गन कर उसके मुख का चुम्बन करती है, तो उसमें ज़रूर कुछ कारण होगा ॥१.१२० ॥
🙏

Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.119

🌷
मूलम्--
अदृष्टिदानं कृतपूर्वनाशनम्
अमाननं दुश्चरितानुकीर्तनम् ।
कथाप्रसङ्गेन च नामविस्मृति-
र्विरक्तभावस्य जनस्य लक्षणम् ॥१.११९॥

🌺
पदविभागः--
अदृष्टिदानं कृतपूर्व-नाशनम् अमाननं दुश्चरित-अनुकीर्तनम् । कथा-प्रसङ्गेन च नाम-विस्मृतिः विरक्त-भावस्य जनस्य लक्षणम् ॥१.११९॥
🌸
अन्वयः--
विरक्त-भावस्य जनस्य लक्षणम्- अदृष्टिदानं, कृतपूर्व-नाशनम्, अमाननं, दुश्चरित-अनुकीर्तनम्, कथा-प्रसङ्गेन च नाम-विस्मृतिः (इति)॥१.११९॥
🌼
प्रतिपदार्थः--
अदृष्टिदानम् = अविलोकनम् ; कृतपूर्वनाशनम् = पूर्वोपकारादि-अचिन्तनम् ; अमाननम् = तिरस्कारः, सत्काराभावश्च ; दुश्चरितानुकीर्तनम् = दोषवर्णनम् ; कथाप्रसङ्गेन = कथावसरेणापि ; नामविस्मृतिः = नाम-अस्मरणम् ; विरक्तभातस्य = विरक्तस्य ; जनस्य = मनुष्यस्य ; लक्षणम् = सङ्केतः॥१.११९॥
🌻
तात्पर्यम्--
यः पूर्वानुरागी, अधुना रागरहितः विरक्तश्च सञ्जातः तस्य लक्षणानि एवं सन्ति- सः सहृदं न पश्यति । पूर्वकृतं सर्वं विस्मरति । मित्रं पराभवति । आचरितानां दोषानां वर्णनं करोति । वार्ताप्रसङ्गे नाम अपि विस्मरति ॥१.११९॥
🌿
हिन्द्यर्थः--
असन्तुष्ट होकर देखना, पूर्वकृत कार्यों (उपकारों) को भूल जाना, सत्कार न करना, दोषों को प्रकट करना, अक्सर (मौके) पर नाम तक भी भूल जाना, वे सब विरक्त मनुष्य के लक्षण है ॥१.११९॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.118

🌷
मूलम्--
मुखं प्रसन्नं विमला च दृष्टिः
कथानुरागो मधुरा च वाणी ।
स्नेहोऽधिकः सम्भ्रमदर्शनं च
सदानुरक्तस्य जनस्य लक्ष्म ॥१.११८॥

🌺
पदविभागः--
मुखं प्रसन्नं विमला च दृष्टिः कथानुरागः मधुरा च वाणी । स्नेहः अधिकः सम्भ्रम-दर्शनं च सदा अनुरक्तस्य जनस्य लक्ष्म ॥१.११८॥
🌸
अन्वयः--
सदा अनुरक्तस्य जनस्य लक्ष्म (इत्थं भवति)- प्रसन्नं मुखं, विमला च दृष्टिः, कथानुरागः, मधुरा च वाणी, अधिकः स्नेहः, सम्भ्रम-दर्शनं च ॥१.११८॥
🌼
प्रतिपदार्थः--
मुखं = वदनं ; प्रसन्नं = सन्तुष्टियुक्तं ; विमला = स्वच्छा, रागशून्या ; दृष्टिः = दर्शनम् ; कथानुरागः = वार्ताश्रवणादरः ; मधुरा वाणी = श्रवणानन्दकरी वाक् ; स्नेहः = सुहृद्भावः ; सम्भ्रमर्दनं = आगमने सत्कारादिषु च त्वरादर्शनम् ; सदा = नित्यं ; अनुरक्तस्य = प्रीतिभावयुक्तस्य ; लक्ष्म = लक्षणम् ॥१.११८॥
🌻
तात्पर्यम्--
यः सदा अनुरागयुक्तः भवति तस्य लक्षणानि उच्यन्ते- तद्वदनम् आनन्दितं, दृष्टिः स्वच्छा च भवति । तस्मिन् सुहृदः वार्तां श्रोतुम् उत्साहः दृश्यते । तस्य वाक् मधुरा । अधिकं सुहृद्भावं च दर्शयति । मित्रे आगते सति सानन्दाश्चर्यं दर्शयति ॥१.११८॥
🌿
हिन्द्यर्थः--
प्रसन्न मुख, विमल नेत्र, बातों में प्रेम, मधुर वाणी, अधिक स्नेह, आने पर संभ्रम से (हडबडाकर, उत्सुकतापूर्वक) देखना- ये सब अनुरक्त मनुष्यों के लक्षण हैं ॥१.११८॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.117

🌷
मूलम्--
उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः ।
पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः ॥१.११७॥

🌺
पदविभागः--
उत्तमस्य अपि वर्णस्य नीचः अपि गृहम् आगतः । पूजनीयः यथायोग्यं सर्व-देवमयः अतिथिः ॥१.११७॥
🌸
अन्वयः--
उत्तमस्य अपि वर्णस्य नीचः अपि गृहम् आगतः । पूजनीयः यथायोग्यं सर्व-देवमयः अतिथिः ॥१.११७॥
🌼
प्रतिपदार्थः--
उत्तमस्य वर्णस्य = ब्राह्मण-क्षत्रियादेः अपि ; नीचोऽपि = शूद्रादिरपि ; गृहम् = स्वनिवासम् ; आगतः = मेलनाय समागतः ; पूजनीयः = सत्कारयोग्यः ; यतायोग्यं = यावच्छक्ति ; सर्वदेवमयः = सकलदेवस्वरूपः ; सः = अतिथिः ॥१.११७॥
🌻
तात्पर्यम्--
अग्रवर्णस्य गृहम् आयातः अनत्यवर्णस्थोऽपि यावच्छक्ति पूज्यः एव। (तिरस्कारः न कार्यः। सत्कारः एव कार्यः) यतो हि गृहमायातः यः कोपि भवतु स देवस्वरूपः भवति (अनेन वर्णव्यवस्था काचित् वृत्तिकार्यालयव्यवस्था इव आसीदिति ज्ञायते) ॥१.११७॥
🌿
हिन्द्यर्थः--
और उत्तम वर्ण (ब्राह्मण आदि) के घर पर यदि अपने से नीच (क्षत्रिय वैश्य या शूद्र आदि) भी कोई आवे तो भी उसकी भी यथायोग्य पूजा करनी चाहिए, क्यों कि अतिथि में सब देवताओं का निवास रहता है ॥१.११७ ॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.116

🌷
मूलम्--
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ॥१.११६॥

🌺
पदविभागः--
गुरुः अग्निः द्विजातीनां वर्णानां ब्राह्मणः गुरुः । पतिः एकः गुरुः स्त्रीणां सर्वत्र अभ्यागतः गुरुः ॥१.११६॥
🌸
अन्वयः--
गुरुः अग्निः द्विजातीनां वर्णानां ब्राह्मणः गुरुः । पतिः एकः गुरुः स्त्रीणां सर्वत्र अभ्यागतः गुरुः ॥१.११६॥
🌼
प्रतिपदार्थः--
द्विजातीनां = ब्राह्मणादीनां त्रैवर्णिकानाम् ; अग्निः = वैश्वानरः ; गुरुः पूज्यः ; वर्णानां = ब्राह्मणादीनां चतुर्णा वर्णानां ; गुरुः = श्रेष्ठः ; एकः = केवलः, नान्यः ; स्त्रीणां = पत्नीसम्बन्धेन नारीणां ; सर्वस्य = सर्वस्यापि लोकस्य ; अभ्यागतः = आह्वानेन गृहमागतः ; गुरुः = सत्कारार्हः॥१.११६॥
🌻
तात्पर्यम्--
कस्य कस्य कः कः पूज्यः इति कीर्तयति- चतुर्षु वर्षेणु प्रथमत्रयेभ्यः अग्निः आराध्यः। सर्ववर्णास्थेभ्यः ब्राह्मणः सत्क्रियार्हः। स्त्रीणां कृते पतिः एव गुरुः। समस्तलोकाय अतिथिः पूज्यः भवति॥१.११६॥
🌿
हिन्द्यर्थः--
अग्नि- द्विजाति (ब्राह्मण, क्षत्रिय, वैश्य इन तीनों) का गुरु (पूज्य) हैं । वर्णों (ब्राह्मण क्षत्रिय, वैश्य, शूद्र इन चारों को, ब्राह्मण गुरु हैं । स्त्री का पति ही गुरु है और अभ्यागत (अतिथि) सभी का गुरु है ॥१.११६॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.115

🌷
मूलम्--
बालो वा यदि वा वृद्धो युवा वा गृहमागतः ।
तस्य पूजा विधातव्या सर्वत्राभ्यागतो गुरुः ॥१.११५॥

🌺
पदविभागः--
बालः वा यदि वा वृद्धः युवा वा गृहम् आगतः । तस्य पूजा विधातव्या सर्वत्र अभ्यागतः गुरुः ॥१.११५॥
🌸
अन्वयः--
गृहम् आगतः यदि बालः वा, वृद्धः वा, युवा वा, तस्य पूजा विधातव्या। अभ्यागतः सर्वत्र गुरुः ॥१.११५॥
🌼
प्रतिपदार्थः--
गृहम् = निवासस्थानम् ; आगतः = आयातः ; यदि = चेत् ; बालः = अल्वयस्कः ; वृद्धः = अधिकायुः ; युवा = युवकः ; पूजा = स्वागतसत्कारपूर्वक-वस्तुप्रदानादिभिः युक्तः समुचितव्यवहारः ; विधातव्या = कर्तव्या ; अभ्यागतः = विशेषेण गृहमागतः ; सर्वत्र = यत्र क्वचिदपि ; गुरुः = पूज्यः, सद्व्यवहारार्हः ॥१.११५॥
🌻
तात्पर्यम्--
गेहमागतः यः कोपि भवतु सः सत्कारार्हः एव। तस्य आदरः एव विहितव्यः। यतो हि सः सर्वेषां गौरवयोग्यो भवति॥१.११५॥
🌿
हिन्द्यर्थः--
बालक, या वृद्ध, या जवान कोई भी हो, वह यदि अपने घर पर आजाये तो उसका भोजन आदि से सत्कार और अतिथिपूजन अवश्य करना चाहिए, क्योंकि- अतिथि सबका पूज्य है ॥१.११५॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.114

🌷
मूलम्--
तत्र मित्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् ।
ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी ॥१.११४॥

🌺
पदविभागः--
तत्र मित्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् । ऋणदाता च वैद्यः च श्रोत्रियः सजला नदी ॥१.११४॥
🌸
अन्वयः--
मित्र ! यत्र चतुष्टयं नास्ति तत्र न वस्तव्यम् - ऋणदाता च वैद्यः च श्रोत्रियः सजला नदी ॥१.११४॥
🌼
प्रतिपदार्थः--
मित्र = हे सुहृत् ; न वस्तव्यं = निवासः न कार्यः ; चतुष्टयम् = चत्वारः ; ऋणदाता = यः धनं ददाति उपयोगाय, पुनः प्रत्यर्पणाय ; वैद्यः = चिकित्सकः ; श्रोत्रियः = वेदपारगः ब्राह्मणः, सजला नदी = जलपूर्णा नदी ॥१.११४॥
🌻
तात्पर्यम्--
हे सुहृत्, यत्र एते चत्वारः न भवन्ति, तत्र वासः न कार्यः- ऋणं ददाति यः, रोगनिवारकः, वेदज्ञः, जलयुक्ता नदी च ॥१.११४॥
🌿
हिन्द्यर्थः--
हे मित्र- जहाँ ऋणदाता धनी, वैद्य, श्रोत्रिय (वैदिक विद्वान्) और जल से पूर्ण नदी, ये चार चीज़े नहीं हों, वहाँ कभी नहीं रहना चाहिए ॥१.११४॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.113

🌷
मूलम्--
लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता ।
पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ॥१.११३॥

🌺
पदविभागः--
लोकयात्रा भयं लज्जा दाक्षिण्यं त्याग-शीलता । पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ॥१.११३॥
🌸
अन्वयः--
लोकयात्रा, भयं, लज्जा, दाक्षिण्यं, त्याग-शीलता (च इति) पञ्च यत्र न विद्यन्ते तत्र संस्थितिं न कुर्यात् ॥१.११३॥
🌼
प्रतिपदार्थः--
लोकयात्रा = जीवनोपायः ; भयं = राज-लोक-धर्म-भयम् ; लज्जा = लोके पापमाचरामः तेन जनाः निन्देयुः इति भीतिपूर्वका व्रीडा ; दाक्षिण्यं = अनुकूलता ; त्यागशीलता = निःस्वार्थबुद्धिः ; संस्थितिं = वासम् ॥१.११३॥
🌻
तात्पर्यम्--
यस्मिन् प्रदेशे एते पञ्च न वर्तन्ते, तत्र निवासः न कार्यः- जीविकायाः मार्गः, असाध्वाचरणेन भीतिः, लोकतः ह्री, कार्यानुकूलता, स्वार्थराहित्यं च ॥१.११३॥
🌿
हिन्द्यर्थः--
और जिस देश में जीविका का साधन, लोकभय, लोकलज्जा, सरलता, त्याग, (उदारता) ये पाँच बातें न हों, वहाँ कभी नहीं रहना चाहिए ॥१.११३॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.112

🌷
मूलम्--
धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः ।
पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥१.११२॥

🌺
पदविभागः--
धनिकः श्रोत्रियः राजा नदी वैद्यः तु पञ्चमः । पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥१.११२॥
🌸
अन्वयः--
धनिकः, श्रोत्रियः, राजा, नदी, पञ्चमः तु वैद्यः – (एते) पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥१.११२॥
🌼
प्रतिपदार्थः--
धनिकः = ऋणादिदाता श्रेष्ठी ; श्रोत्रियः = वेदपारगः ; राजा = परिपालकः ; नदी = नीरस्थानं, जलाशयः वा ; वैद्यः = चिकित्सकः ; पञ्च = एते पञ्च ; वासं = संस्थितिम् ॥१.११२॥
🌻
तात्पर्यम्--
यस्मिन् प्रदेशविशेषे एते उच्यमानाः पञ्च न वर्तन्ते, तस्मिन् देशे केनापि निवासः न कार्यः । ते पञ्च सन्ति- धनवान्, पुरोहितः, पालयिता, नदी सरः वा, रोगहारकश्च ॥१.११२॥
🌿
हिन्द्यर्थः--
धनी (सेठ-बोहरा), श्रोत्रिय, (वेदपाठी), राजा, नदी और वैद्य, ये पाँच जहाँ नहीं हो, वहाँ मनुष्य को एक दिन भी नहीं रहना चाहिये ॥१.११२॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.111

🌷
मूलम्--
यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवः ।
न च विद्यागमः कश्चित् तं देशं परिवर्जयेत् ॥१.१११॥

🌺
पदविभागः--
यस्मिन् देशे न सम्मानः न वृत्तिः न च बान्धवः । न च विद्या-आगमः कश्चित् तं देशं परिवर्जयेत् ॥१.१११॥
🌸
अन्वयः--
यस्मिन् देशे सम्मानः न, वृत्तिः न, बान्धवः च न, विद्या-आगमः च न कश्चित् (वर्तेत), तं देशं परिवर्जयेत् ॥१.१११॥
🌼
प्रतिपदार्थः--
सम्मानः = सत्कारः ; वृत्तिः = जीविका ; बान्धवाः = ज्ञातिनः, परिचिताः, मित्राणि वा ; विद्यागमः = विद्यालाभः ; परिवर्जयेत् = विमुञ्चेत् ॥१.१११॥
🌻
तात्पर्यम्--
यत्र स्वस्मै आदरभावः न वर्तते, वित्ताय कार्यनियोगः नास्ति, बन्धुजनाः न सन्ति, ज्ञानलाभः न विद्येत तस्मिन् प्रदेशविशेषे कदापि न वस्तव्यम्। त्यक्त्वा गन्तव्यम् ॥१.१११॥
🌿
हिन्द्यर्थः--
जिस देश में सम्मान न हो, कोई जीविका न हो, कोई मित्र न हो, और न किसी प्रकार की विद्या की प्राप्ति ही हो, उस देश को छोड़ देना चाहिये, उसमें कभी नहीं रहना चाहिये ॥१.१११॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.110

🌷
मूलम्--
परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् ।
धर्मे स्वीयमनुष्ठानं कस्यचित् तु महात्मनः ॥१.११०॥

🌺
पदविभागः--
परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् । धर्मे स्वीयम् अनुष्ठानं कस्यचित् तु महात्मनः ॥१.११०॥
🌸
अन्वयः--
परोपदेशे पाण्डित्यं सर्वेषां नृणां सुकरम् । धर्मे स्वीयम् अनुष्ठानं तु कस्यचित् महात्मनः ॥१.११०॥
🌼
प्रतिपदार्थः--
परोपदेशे = परशिक्षणे ; पाण्डित्यं = नैपुण्यं, विद्वत्त्वम् ; सर्वेषां नृणां = समेषां मनुष्याणां ; सुकरम् = सुलभम् ; धर्मे = कर्तव्यपालने ; स्वीयं = स्वकीयम् ; अनुष्ठानं = आचरणम् ; महात्मनः = महापुरुषस्य ॥१.११०॥
🌻
तात्पर्यम्--
अन्येषाम् उपबोधने सामान्याः सर्वे कुशलिनः । किन्तु स्वयमेव आचरणीयस्य अनुपालनं केचन उत्तमाः एव कर्तुं पारयन्ति॥१.११०॥
🌿
हिन्द्यर्थः--
क्यों कि- धर्म के विषय में दूसरे को उपदेश देने के लिये पण्डिताई दिख-लाना तो सभी के लिए सहज है, परन्तु धर्म का स्वयं आचरण तो बिरले ही महात्मा लोग किया करते हैं ॥१.११०॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.109

🌷
मूलम्--
चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् ।
नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥१.१०९॥

🌺
पदविभागः--
मित्र, क्व गन्तव्यम् ? तथा च उक्तम्– चलति एकेन पादेन तिष्ठति एकेन बुद्धिमान् । न असमीक्ष्य परं स्थानं पूर्वम् आयतनं त्यजेत् ॥१.१०९॥ 

🌸
अन्वयः--
मित्र, क्व गन्तव्यम् ? तथा च उक्तम्– बुद्धिमान् एकेन पादेन चलति एकेन तिष्ठति । परं स्थानं असमीक्ष्य पूर्वम् आयतनं न त्यजेत् ॥१.१०९॥
🌼
प्रतिपदार्थः--
बुद्धिमान् = विवेकी ; एकेन पादेन चलति = किञ्चित् अग्रे सरति ; एकेन तिष्ठति = किञ्चित् तत्रैव स्थित्वा ईक्षते ; परं = वर्तमानात् अन्यत् ; स्थानं = प्रदेशं ; असमीक्ष्य = सम्यक् अदृष्ट्वा ; पूर्वम् = वर्तमाने स्थितं ; आयतनं = स्थानम् न त्यजेत् = न मुञ्चेत् ॥१.१०९॥
🌻
तात्पर्यम्--
मतिमान् मनुष्यः सः पदमेकमग्रे न्यस्यति, पुनः अन्यत् पदं न सारयति, तत्रैव तिष्ठति। अस्य स्थानस्य त्यागात् पूर्वं यत्र गन्तव्यं तत्र समीचीनत्वं परीक्षितव्यम्। अपरीक्ष्य अधुना यदस्ति तत् विमुच्य न यातव्यम्। (विवेकशीलः अविलोक्य अविचार्य वा कार्यं न करोतीति भावः) ॥१.१०९॥
🌿
हिन्द्यर्थः--
बुद्धिमान् मनुष्य वही है, जो एक पैर से चलता है, अर्थात् एक पैर वह आगे रखता है, और एक पैर पूर्व स्थान पर ही रखे (जमाए) रहता है । इसलिए दूसरे स्थान को पहिले से निर्धारित किये बिना ही पहले स्थान को नहीं छोड़ना चाहिये॥१.१०९॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.108

🌷
मूलम्--
को वीरस्य मनस्विनः स्वविषयः को वा विदेशः स्मृतः
यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् ।
यद्दंष्ट्रानखलाङ्गुलप्रहरणः सिंहो वनं गाहते
तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिनत्त्यात्मनः ॥१.१०८॥

🌺
पदविभागः--
कः वीरस्य मनस्विनः स्वविषयः कः वा विदेशः स्मृतः यं देशं श्रयते तम् एव कुरुते बाहु-प्रताप-अर्जितम् । यद् दंष्ट्रा-नख-लाङ्गुल-प्रहरणः सिंहः वनं गाहते तस्मिन् एव हत-द्विपेन्द्र-रुधिरैः तृष्णां छिनत्ति आत्मनः ॥१.१०८॥
🌸
अन्वयः--
मनस्विनः वीरस्य कः स्वविषयः, कः वा विदेशः स्मृतः? (सः) यं देशं श्रयते तम् एव बाहुप्रतापार्जितं कुरुते । यद् दंष्ट्रानख-लाङ्गुलप्रहरणः सिंहः वनं गाहते, तस्मिन् एव (वने) हतद्विपेन्द्ररुधिरैः आत्मनः तृष्णां छिनत्ति ॥१.१०८॥
🌼
प्रतिपदार्थः--
वीरस्य = शूरस्य ; मनस्विनः = धीरस्य, गम्भीराशयस्य ; स्वविषयः = (अत्र) स्वदेशः ; विदेशः = स्वदेशात् भिन्नः प्रदेशः ; स्मृतः = भावितः ; श्रयते = आश्रयते ; बाहुप्रतापार्जितम् ~ बाह्वोः-प्रतापेन अर्जितम् = भुजयोः बलेन स्वाधीनं कृतम् ; दंष्ट्रानखलाङ्गुलप्रहरणः ~ दंष्ट्राः नखाः पुच्छं च आयुधाः यस्य ; सिंहः = केसरी ; वनं = अरण्यं ; गाहते = प्रविशति ; तस्मिन्नेव = (अत्र) वने ; हतद्विपेन्द्ररुधिरैः ~ हतः द्विपेन्द्रः, तस्य रुधिराणि, तैः = व्यापादितः गजेन्द्रः तस्य रक्तैः, आत्मनः = स्वीयं ; तृष्णां = पिपासाम् अथवा बुभुक्षाम् ; छिनत्ति = अपनयति ॥१.१०८॥
🌻
तात्पर्यम्--
धैर्यशालिनः विक्रान्तस्य चिन्तने स्वदेशः कः, विदेशः कः? (कोपि भेदो न। सः सर्वत्र एकथैव तिष्ठति) यत्रापि (गच्छेत्) निवसेत्, तत्र स्वभुदोर्बलेन स्वायत्तं करोति। (अत्र उदाहरणम्) यथा सिंहः दशनरूपैः नखरूपैः, पुच्छरूपेण च आयुधैः युक्तः इव कानने निवसति, तत्रैव गजान् हत्वा तेषां शोणितेन स्वस्य बुभुक्षादिकं निवारयति। (अस्यार्थः- सिंहः स्वस्य वनं वा अपरं वनं वेति न चिन्तयति। यत्र निवासाय याति तत्रैव स्वस्याहारम् अन्विष्यति, तेन जीवति च।) ॥१.१०८॥
🌿
हिन्द्यर्थः--
और भी-वीर एवं मनस्वी पुरुष के लिये कौन अपना देश है कौन-कौन विदेश है? वह तो जिस देश में जाता है, उसी को अपने बाहुबल से अपना कर लेता है । जैसे (दाँत, नख, और पूंछ ही आयुध जिसके हैं, ऐसा वीर) सिंह जिस वन में जाता है, उसी वन में हाथियों को मारकर, उनके रुधिर से हो अपनी प्यास बुझाता है॥१.१०८॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.107

🌷
मूलम्--
स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः ।
तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥१.१०७॥

🌺
पदविभागः--
स्थानम् उत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः । तत्र एव निधनं यान्ति काकाः कापुरुषा मृगाः ॥१.१०७॥
🌸
अन्वयः--
सिंहाः सत्पुरुषा गजाः (च) स्थानम् उत्सृज्य गच्छन्ति । काकाः कापुरुषा मृगाः (च) तत्र एव निधनं यान्ति ॥१.१०७॥
🌼
प्रतिपदार्थः--
सिंहाः = वनराजाः ; सत्पुरुषाः = सज्जनाः ; गजाः = करिणः ; स्थानं = निवासयोग्यं स्वस्थानम् ;  उत्सृज्य = विहाय ; काकाः = वायसाः ; कापुरुषाः = भीरवः ; मृगाः = हरिणाः ; तत्रैव = निवास-अयोग्ये अपि स्थाने ; निधनं यान्ति = मृत्युं प्राप्नुवन्ति ॥१.१०७ ॥
🌻
तात्पर्यम्--
(यदा निवासाय अयोग्यं भवति, तदा) प्रकृतं निवासस्थानमपि केचन तत् त्यक्त्वा गच्छन्ति- यथा दन्तिनः, केसरिणः, सन्तः च। (यदा स्वस्य वासस्थानं वस्तुं  न योग्यं, तदापि केचन तत् परित्यज्य न निर्गच्छन्ति, तत्कारणात्) स्वस्थाने मरणमपि प्राप्नुवन्ति- यथा काकाः, धर्यहीनाः, कुरङ्गाः च  ॥१.१०७॥
🌿
हिन्द्यर्थः--
क्यों कि क्यों कि सिंह, सत्पुरुष और हाथी ये तीनों तो अपना अपना स्थान छोडकर जहाँ चाहते हैं, वहीं (अच्छे स्थान में) चले जाते हैं । परन्तु कौवा, कायर मनुष्य और मृग, ये तीनों तो अपने स्थान पर ही पड़े-पड़े मर जाते हैं ॥१.१०७॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.106

🌷
मूलम्--
स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः ।
इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥१.१०६॥

🌺
पदविभागः--
स्थानभ्रष्टाः न शोभन्ते दन्ताः केशाः नखाः नराः । इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥१.१०६॥
🌸
अन्वयः--
दन्ताः केशाः नखाः नराः (च) स्थानभ्रष्टाः न शोभन्ते इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥१.१०६॥
🌼
प्रतिपदार्थः--
दन्ताः = दशनाः ; केशाः = मूर्धजाः ; नखाः = अङ्गुल्यन्ताः ; नराः = मनुष्याः ; स्थानभ्रष्टाः = स्वस्थानात् चलिताः ; न शोभन्ते = शोभां, श्रियं च न लभन्ते ; इति विज्ञाय = एवं ज्ञात्वा ; मतिमान् = बुद्धिमान् ; स्वस्थानं = वर्तमानां स्वकीयां स्थितिं ; न परित्यजेत् = न मुञ्चेत् ॥१.१०६॥
🌻
तात्पर्यम्--
रदाः, शिरोजाः, नखाः, मानवाः च स्वस्मात् स्थिरस्थानात् विचलिताः न शोभन्ते इति ज्ञात्वा विवेकी कदाचित् स्वस्थानं न मुञ्चेत् ॥१.१०६॥
🌿
हिन्द्यर्थः--
दाँत, केश, नख, मनुष्य, ये चारों स्थानभ्रष्ट होने पर शोभते नहीं हैं । ऐसा विचारकर बुद्धिमान् मनुष्य को अपना स्थान कभी नहीं छोडना चाहिये॥१.१०६॥
🙏


हितोपदेश-सुभाषित-श्लोकाः - 1.105

🌷

मूलम्--
मनस्यन्यद् वचस्यन्यत् कर्मण्यन्यद् दुरात्मनाम् ।
मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ॥१.१०५॥

🌺
पदविभागः--
मनसि अन्यद् वचसि अन्यत् कर्मणि अन्यद् दुरात्मनाम् । मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम् ॥१.१०५॥
🌸
अन्वयः--
दुरात्मनां मनसि अन्यद्, वचसि अन्यत्, कर्मणि अन्यद् (भवति) । महात्मनां मनसि एकं वचसि एकं कर्मणि एकम् (भवति)॥१.१०५॥
🌼
प्रतिपदार्थः--
मनसि = चित्ते ; वचसि = वचने ; कर्मणि = कार्याचरणे ; अन्यत् = यद् दृश्यते तस्मात् भिन्नम् ; दुरात्मनां = पापिनाम् ; महात्मनाम् = सत्पुरुषानाम् ॥१.१०५॥
🌻
तात्पर्यम्--
दुष्टानां मनसि अन्यद् भवति। ते हि अन्यया भाषन्ते । क्रियायाम् अन्यदेव आचरन्ति । महात्मनां तु यदेव मनसि, तदेव तेषां वचसि, तेषां क्रियायां च इत्यर्थः ॥१.१०५॥
🌿
हिन्द्यर्थः--
और दुर्जन लोग सोचते कुछ और है, कहते कुछ और है, करते कुछ और है । परन्तु सज्जन लोगों के मन में जो है वहीं वे कहते हैं और वही वे करते भी हैं ॥१.१०५॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.104

🌷
मूलम्--
अन्यथैव हि सौहार्दं भवेत् स्वच्छान्तरात्मनः ।
प्रवर्ततेऽन्यथा वाणी शाठ्योपहतचेतसः ॥१.१०४॥

🌺
पदविभागः--
अन्यथा एव हि सौहार्दं भवेत् स्वच्छ-अन्तरात्मनः । प्रवर्तते अन्यथा वाणी शाठ्य-उपहत-चेतसः ॥१.१०४॥
🌸
अन्वयः--
स्वच्छ-अन्तरात्मनः सौहार्दम् अन्यथा एव हि भवेत् । शाठ्योपहतचेतसः वाणी अन्यथा प्रवर्तते ॥१.१०४॥
🌼
प्रतिपदार्थः--
स्वच्छान्तरात्मनः = शुद्धचेतसः ; अन्यथैव = अन्यप्रकारेण एव ; सौहार्दं = मैत्री ; शाठ्योपहतचेतसः = क्रौर्य-निष्ठुर-चेतसः, शठस्य ; अन्यथैव = अन्यादृशी एव कपटपूर्णा ; वाणी = वाक् ; प्रवर्त्तते = प्रसरति ॥१.१०४॥
🌻
तात्पर्यम्--
स्वच्छमनसः सौमनस्यं एकविधं (समं, सद्भावपूर्णं च) भवति। दुष्टमनस्कस्य भाषा अन्यथा (कठिना, परुषा च) भवति ॥१.१०४॥
🌿
हिन्द्यर्थः--
शुद्धहृदय वाले सज्जन की सहृदयता तो कुछ और ही प्रकार की होती है और कुटिल हृदय धूर्त की बोलचाल कुछ और ही तरह की दोती है। अर्थात् सज्जन और दुर्जन का भेद तो बातों से ही मालूम हो जाता है ॥१.१०४॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.103

 🌷
मूलम्--
पटुत्वं सत्यवादित्वं कथायोगेन बुद्ध्यते ।
अस्तब्धत्वमचापल्यं प्रत्यक्षेनावगम्यते ॥१.१०३॥

🌺
पदविभागः--
पटुत्वं सत्य-वादित्वं कथा-योगेन बुद्ध्यते । अस्तब्धत्वम् अचापल्यं प्रत्यक्षेन अवगम्यते ॥१.१०३॥
🌸
अन्वयः--
पटुत्वं सत्य-वादित्वं (च) कथा-योगेन बुद्ध्यते । अस्तब्धत्वम् अचापल्यं प्रत्यक्षेन अवगम्यते ॥१.१०३॥
🌼
प्रतिपदार्थः--
पटुत्वं = कुशलत्वम् ; सत्यवादित्वम् = सदा सत्यं वचनं ; कथायोगैन = प्रसङ्गेन ; बुध्यते = सर्वैर्ज्ञातुं शक्यते, मया च ज्ञायते ; अस्तब्धत्वम् = अजडत्वम्, अभीतत्वम् ; अचापल्यं = स्थिरत्वम् ; प्रत्यक्षेण = सावाद्दर्शनेन ; साक्षात् = त्वन्मुखदर्शनादेव च मया ज्ञायते इति भावः ॥१.१०३॥
🌻
तात्पर्यम्--
मनुष्यः समर्थः, सत्यवादी वा अस्ति, न वेति प्रसङ्गात् ज्ञायते। (तदर्थं सन्दर्भादिकस्य आवश्यकता वर्तते।) किन्तु सः जडः नास्ति, चपलः नास्तीति प्रत्यक्षमेव ज्ञायते॥१.१०३॥
🌿
हिन्द्यर्थः--
मनुष्य की चतुराई और सचाई तो बात चीत करने से मालूम होती है, पर मनुष्य की नमता और गम्भीरता ता उसे देखने से ही मालूम हो जाती है ॥१.१०३॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.102

🌷
मूलम्--
रहस्यभेदो याच्ञा च नैष्ठुर्यं चलचित्तता ।
क्रोधो निःसत्यता द्यूतमेतन्मित्रस्य दूषणम् ॥१.१०२॥

🌺
पदविभागः--
रहस्यभेदः याच्ञा च नैष्ठुर्यं चलचित्तता । क्रोधः निःसत्यता द्यूतम् एतत् मित्रस्य दूषणम् ॥१.१०२॥
🌸
अन्वयः--
रहस्यभेदः, याच्ञा च, नैष्ठुर्यं, चलचित्तता, क्रोधः, निःसत्यता, द्यूतम् - एतत् मित्रस्य दूषणम् ॥१.१०२॥
🌼
प्रतिपदार्थः--
रहस्यभेदः = मित्रस्य अन्तरङ्गविषयाणां बहिः वचनम् ; याच्ञा = द्रव्यादिप्रार्थना ; नैष्टुर्यं = कोठरव्यवहारः; चलचित्तता = अस्थिरत्वम् ; निःसत्यता = मिथ्याभाषित्वम् ; द्यूतम् = अक्षक्रीडा ; मित्रस्य = सुहृदः ; दूषणम् = दोषः, ॥१.१०२॥
🌻
तात्पर्यम्--
मित्रीभङ्गकारिणः, मित्रे अवगुणाः केचन अत्र उच्यन्ते- १. मित्रस्य रहस्यानाम् उद्घाटनम्, २. वस्तुभ्यः, धनार्थं वा याचनम्, ३. परुषवचांसि, व्यवहारश्च ४. मनसः चाञ्चल्यम्, ५. असत्यभाषणम्, ६. द्यूतम् ॥१.१०२॥
🌿
हिन्द्यर्थः--
गुप्त बातों को प्रगट कर देना, माँगना, निष्ठुरता, चित्त की अस्थिरता, क्रोध, झूठ बोलना, जुआ खेलना ये सब मित्र के दोष हैं ॥१.१०२॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.101

🌷
मूलम्--
घर्मार्तं न तथा सुशीतलजलैः स्नानं न मुक्तावली
न श्रीखण्डविलेपनं सुखयति प्रत्यङ्गमप्यर्पितम् ।
प्रीत्यै सज्जनभाषितं प्रभवति प्रायो यथा चेतसः
सद्युक्त्या च परिष्कृतं सुकृतिनामाकृष्टिमन्त्रोपमम् ॥१.१०१॥

🌺
पदविभागः--
घर्म-आर्तं न तथा सुशीतल-जलैः स्नानं न मुक्तावली न श्रीखण्ड-विलेपनम् सुखयति प्रत्यङ्गम् अपि अर्पितम् । प्रीत्यै सज्जन-भाषितं प्रभवति प्रायः यथा चेतसः सद्युक्त्या च परिष्कृतं सुकृतिनाम् आकृष्टि-मन्त्र-उपमम् ॥१.१०१॥
🌸
अन्वयः--
सुशीतलजलैः स्नानं न, मुक्तावली न, प्रत्यङ्गम् अर्पितम् श्रीखण्ड-विलेपनम् अपि घर्मार्तं न तथा सुखयति यथा प्रायः सद्युक्त्या परिष्कृतं, सुकृतिनाम् आकृष्टि-मन्त्र-उपमं च सज्जन-भाषितं चेतसः प्रीत्यै प्रभवति ॥१.१०१॥
🌼
प्रतिपदार्थः--
घर्मार्तं = निदाघसन्तप्तं पुमांसं; सुशीतलजैः = शीतनीरैः ; स्नानं = शरीरस्य जलेन शुद्धीकरणं ;  मुक्तावली = मुक्तानां माला ;  प्रत्यङ्गं = प्रत्यवयवम् ; अर्पितं = दत्तं, लेपितं ; श्रीखण्डविलेपनम् = चन्दनस्य लेपनं ; सुखयति = प्रसन्नकरं भवति ; चेतसः = मनसः ; प्रीत्यै = आनन्दाय ; सद्युक्या = शोभनयुक्त्या, कल्पोक्तविधिविधानेन च ; परिष्कृतं = शोभितम् ; आकृष्टिमन्त्रोपमम् = आकर्षणमन्त्रतुल्यम् ; सज्जनभाषितं =सत्पुरुषाणां वचांसि ; प्रभवति = शक्तो भवति ॥१.१०१॥
🌻
तात्पर्यम्--
निदाघतप्तं पुरुषं हिमजलैः स्नानं तथा न हर्षयति। मुक्तानां हारं धृत्वा वा, श्रीचन्दनं सर्वेषु अवयवेषु विलेप्य वा सः तादृशं सुखं नानुभवति। सुष्ठु युक्तिभिः अलङ्कृतं, आकर्षणमन्त्रसदृशं सत्पुरुषवचनं श्रुत्वा मनसः अतिशयेन सन्तोषः भवति॥१.१०१॥
🌿
हिन्द्यर्थः--
आकर्षण मन्त्र की तरह मन को खींचने वाली, अच्छी २ युक्तियों से युक्त सज्जनों की वाणी चित्त को जितना आनन्द देती है, उतना सुख घाम से सन्तप्त मनुष्यों को- शीतल जल का स्नान, मोती की माला और शरीर में लगा शुभा चन्दन भी नहीं देता है ॥१.१०१॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.100

🌷
मूलम्--
शुचित्वं त्यागिता शौर्यं सामान्यं सुखदुःखयोः ।
दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्गुणाः ॥१.१००॥

🌺
पदविभागः--
शुचित्वं त्यागिता शौर्यं सामान्यं सुख-दुःखयोः । दाक्षिण्यं च अनुरक्तिः च सत्यता च सुहृद्गुणाः ॥१.१००॥
🌸
अन्वयः--
शुचित्वं, त्यागिता, शौर्यं, सुख-दुःखयोः सामान्यं, दाक्षिण्यम्, अनुरक्तिः, सत्यता च – (एते) सुहृद्गुणाः (सन्ति) ॥१.१००॥
🌼
प्रतिपदार्थः--
शुचित्वं= स्वच्छता ; त्यागिता = औदार्यम् ; शौर्यं = वीरता ; सुखदुःखयोः = सुखे, दुःखे च ; सामान्यं = समता ; दाक्षिण्यं = कुशलता ; अनुरक्तिः = अनुरागभावः ; सत्यता = सत्यवाक्॥१.१००॥
🌻
तात्पर्यम्--
स्वच्छत्वं, उदारत्वं, शूरत्वं, सन्तोषपीडयोः समत्वं, सामर्थ्यम्, अनुरागः, सत्यत्वं – एतानि सर्वाणि मित्रस्य लक्षणानि॥१.१००॥
🌿
हिन्द्यर्थः--
चित्त शुद्धि, त्याग, वीरता, सुख और दुःख में एक सा भाव, उदारता, प्रेम, सत्य- ये सब मित्र के गुण हैं ॥१.१००॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.99

🌷
मूलम्--
स्नेहच्छेदेऽपि साधूनां गुणा नायान्ति विक्रियाम् ।
भङ्गेऽपि हि मृणालानामनुबध्नन्ति तन्तवः ॥१.९९॥

🌺
पदविभागः--
स्नेहच्छेदे अपि साधूनां गुणा न आयान्ति विक्रियाम् । भङ्गे अपि हि मृणालानाम् अनुबध्नन्ति तन्तवः ॥१.९९॥
🌸
अन्वयः--
साधूनां गुणाः स्नेहच्छेदे अपि विक्रियाम् न आयान्ति । मृणालानां भङ्गे अपि तन्तवः अनुबध्नन्ति हि॥१.९९॥
🌼
प्रतिपदार्थः--
स्नेहच्छेदे = प्रणयभङ्गे ; साधूनां = सज्जनानां ; गुणाः = सरलत्वादयः सद्गुणाः ; विक्रियां = विकारम् ; भङ्गेऽपि = छेदेऽपि ; मृणालानाम् = कमलदण्डानाम् ; तन्तवः = बिससूत्राणि, बिसतन्तवः ; अनुबध्नन्ति = सम्बन्धं न परिहरन्ति ॥१.९९॥
🌻
तात्पर्यम्--
सत्पुरुषानां मध्ये यदा स्नेहच्छेदः भवति, तदापि तेषां सल्लक्षणानि दूषितानि न भवन्ति। (अत्रोदाहरणम्) कमलनालानि यदा विच्छिद्यन्ते तदापि तेषाम् अन्तःस्थितानि तनूनि सूत्राणि परस्परं बद्धानि एव भवन्ति, बन्धं न त्यजन्ति॥१.९९॥
🌿
हिन्द्यर्थः--
और सज्जनों के साथ प्रीति टूट जाने पर भी उनका चित्त विकृत नहीं होता है, किन्तु उनका साधारण सम्बन्ध बना ही रहता है। जैसे मृणालों (कमल की डण्डी) के बीच में से टूट जाने पर भी उनके तन्तु परस्पर में जुड़े ही रहते हैं ॥१.९९॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.98


 🌷
मूलम्--
नारिकेलसमाकारा दृश्यन्ते हि सुहृज्जनाः ।
अन्ये बदरिकाकारा बहिरेव मनोहराः ॥१.९८॥

🌺
पदविभागः--
नारिकेल-समाकाराः दृश्यन्ते हि सुहृज्जनाः । अन्ये बदरिका-आकाराः बहिः एव मनोहराः ॥१.९८॥
🌸
अन्वयः--
सुहृज्जनाः नारिकेलसमाकाराः दृश्यन्ते हि । अन्ये बदरिकाकाराः बहिः एव मनोहराः ॥१.९८॥
🌼
प्रतिपदार्थः--
नारिकेलसमाकाराः = नारिकेलफलवद्वहिः कठिनाः, अन्तः मृदवः च; दृश्यन्ते = भान्ति ; सुहृज्जनाः = सज्जनाः, सन्तः; अन्ये = सज्जनेतराः, खलाः; बदरिकाकाराः = बदरीफलमिव बाह्ये कोमलाः अभ्यन्तरे कठिनाः च, दुःखदाः; ॥१.९८॥
🌻
तात्पर्यम्--
नारिकेलफलसदृशाः सुहृदयाः जनाः बाह्यदर्शनाय कठिनाः भवन्ति, परन्तु यथा नारिकेलस्यान्तः जलं वर्तते, तथैव ऐते अन्तः मृदवः भवन्ति। दुष्टजनाः पुनः बदरीफलसन्निभाः भवन्ति- बहिः दर्शनाय सरलाः मृदवश्च। किन्तु अन्तः सर्वं कठोरबीजमेव भवति। ॥१.९८॥
🌿
हिन्द्यर्थः--
सज्जन लोग नारियल के फल के समान ऊपर से ही रूखे व कड़े देख पड़ते हैं, परन्तु भीतर उनके मधुरता ही होती है । अर्थात् बाहर से तो वे कठोर मालूम पड़ते हैं, परन्तु भीतर से बड़े ही दयालु होते हैं । पर दूसरे लोग (अर्थात् दुर्जन लोग) बैर के फल की तरह बाहर से ही सुन्दर देख पड़ते हैं, परन्तु भीतर उनके कठोरता (कड़ी गुठली) ही रहती है ॥१.९८॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.97

🌷
मूलम्--
द्रवत्वात् सर्वलोहानां निमित्तान्मृगपक्षिणाम् ।
भयाल्लोभाच्च मूर्खाणां सङ्गतं दर्शनात् सताम् ॥१.९७॥

🌺
पदविभागः--
द्रवत्वात् सर्व-लोहानां निमित्ताद् मृग-पक्षिणाम् । भयात् लोभात् च मूर्खाणां सङ्गतं दर्शनात् सताम् ॥१.९७॥
🌸
अन्वयः--
सर्व-लोहानां द्रवत्वात्, मृग-पक्षिणां निमित्ताद्, मूर्खाणां भयात् लोभात् च, सतां सङ्गतं दर्शनात् (भवति)॥१.९७॥
🌼
प्रतिपदार्थः--
सर्वलौहानां = सकलधातूनां ; द्रवत्वात् = द्रवभावेन ; मृगपक्षिणां = पशूनां खगानां च ; निमित्तात् = भोजनादिदानात्, कार्यकारण-भावाच्च ; मूर्खाणां = मूढानां ; भयात् = भीतेः ; लोभात् = लौल्यात् ; सतां = सज्जनानां ; दर्शनाद् = प्रेक्षणमात्राद् एव ; सङ्गतं = मैत्री ॥१.९७॥
🌻
तात्पर्यम्--
समस्तधातुपदार्थानां विगलनमार्गेण संयुक्तता भवति। पशूनां पक्षिणां च मैत्री केनचिद् हेतुना कल्प्यते। बुद्धिहीनानां साङ्गत्यं भीतेः लोलुपतायाः च कारणात् घटते। सज्जनानां मित्रत्वं केवलं दर्शनमात्रेण जागर्ति॥१.९७॥
🌿
हिन्द्यर्थः--
सब धातुओंका परस्पर मेल गलाने से ही होता है, पशुपक्षियों का मेल किसी निमित्त (कारण) से ही होता है, मूर्खों का मेल भय और लोभ से ही होता है, परन्तु सज्जनों का मेल (मैत्री) तो केवल दर्शनमात्र से ही हो जाता है ॥१.९७॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.96

🌷
मूलम्--
मृद्घटवत् सुखभेद्यो दुःसन्धानश्च दुर्जनो भवति ।
सुजनस्तु कनकघटवद् दुर्भेद्यश्चाशु सन्धेयः ॥१.९६॥

🌺
पदविभागः--
मृद्घट-वत् सुखभेद्यः दुःसन्धानः च दुर्जनः भवति । सुजनः तु कनक-घटवद् दुर्भेद्यः आशु सन्धेयः ॥१.९६॥
🌸
अन्वयः--
दुर्जनः च मृद्घटवत् सुखभेद्यः दुःसन्धानः च भवति । सुजनः तु कनक-घटवद् दुर्भेद्यः आशु सन्धेयः ॥१.९६॥
🌼
प्रतिपदार्थः--
मृद्धटवत् = मृत्तिकया निर्मतकुम्भः इव ; सुखभेद्यः = सुकरं भेत्तुं शक्यः ; दुःसन्धानः = पुनर्योजितुम् अशक्यः ;  कनकघटवत् = सुवर्णादिकुम्भवत् ; दुर्भेद्यः = भेत्तुम् असुकरः ; आशु = अनायासेन ; सन्धेयः = योज्यः ॥१.९६॥
🌻
तात्पर्यम्--
(अयं श्लोकः दुर्जनसज्जनयोः मध्ये भेदं ज्ञापयति) दुर्जनः मृत्तिकाभाण्डः इव अनायासेन भग्नः भवति, नाम क्रोधादिविकारान् प्राप्नोति भवति; पुनः योजितुं कदापि शक्यः न भवति, नाम शान्तः न भवति। किन्तु सज्जनः स्वर्णकलशसदृशः विभक्तुम् अशक्यः, नाम अविकृतः भवति; पुनश्च यदि किञ्चित् भग्नः, तदा विनायासं योजितुं शक्यः, नाम झटिति स्वस्थितिं प्राप्नोति॥१.९६॥
🌿
हिन्द्यर्थः--
दुर्जन प्राणी मिट्टी के घड़े की तरह अनायास ही विकृत हो (फूट-फूट) जाते हैं और उनका पुनः मेल (जोड़ना) कठिनता से होता है । परन्तु सज्जन लोग सुवण के घट की तरह जल्दी बिगड़ते (टूटते) नहीं है, और यदि बिगड़ते भी है, तो शीघ्र ही पुनः ठीक किए (जोड़े) जा सकते हैं ॥१.९६॥
🙏


हितोपदेश-सुभाषित-श्लोकाः - 1.95

🌷
मूलम्--
महताप्यर्थसारेण यो विश्वसिति शत्रुषु ।
भार्यासु च विरक्तासु तदन्तं तस्य जीवनम् ॥१.९५॥

🌺
पदविभागः--
महता अपि अर्थसारेण यः विश्वसिति शत्रुषु । भार्यासु च विरक्तासु तदन्तं तस्य जीवनम् ॥१.९५॥
🌸
अन्वयः--
यः महता अपि अर्थसारेण शत्रुषु विश्वसिति, विरक्तासु भार्यासु च तस्य जीवनं तदन्तम् ॥१.९५॥
🌼
प्रतिपदार्थः--
महता अपि = विपुलेन अपि ; अर्थसारेण = धनादिबलेन समन्वितोऽपीति शेपः ;  यद्वा अर्थसिद्ध्यादिकारणवशेन; यः = यो जनः ; च = पुनः ; विरक्तासु = अननुरक्तासु, परपुरुषरतासु च विश्वसितीति शेपः ; तदन्तं = तद्विश्वासपर्यन्तमेव ; जीवितं = जीवनम् ; केचित्तु- महता अपि अर्थसारेण इत्यस्य गुरुणापि प्रयोजनेन इत्यर्थम् आहुः ॥१.९५॥
🌻
तात्पर्यम्--
यः पुरुषः बृहतः प्रयोजनस्य कारणेनापि अरिषु आश्वासनं करोति, परस्त्रीषु अनुरक्तेः कारणेन आश्वस्तः वा भवति, तस्य जीवनं तावत् पर्यन्तमेव चलति, यावत् सः आश्वासभावः तिष्ठति। विश्वासभावः यदा समाप्तिमेति तदा तस्य जीवनम् अन्तं याति॥१.९५॥
🌿
हिन्द्यर्थः--
जो पुरुष विशेष लाभवश भी शत्रुओंका, या विरक्त स्त्री (पर-पुरुषानुरागवती) का विश्वास करता है, उस पुरुष के जीवन का अन्त ही समझना चाहिये ॥१.९५॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.94

🌷
मूलम्--
यदशक्यं न तच्छक्यं यच्छक्यं शक्यमेव तत् ।
नोदके शकटं याति न च नौर्गच्छति स्थले ॥१.९४॥
🌺
पदविभागः--
यद् अशक्यं न तत् शक्यं यत् शक्यं शक्यम् एव तत् । न उदके शकटं याति न च नौः गच्छति स्थले ॥१.९४॥
🌸
अन्वयः--
यद् अशक्यं तत् न शक्यम् । यत् शक्यं तत् शक्यम् एव । उदके शकटं न याति । नौः च स्थले न गच्छति ॥१.९४॥
🌼
प्रतिपदार्थः--
यत् = यत्कार्यम् ; अशक्यम् = यत् कर्तुम् वयं न समर्थाः ; यत् च शक्यं = यत् कर्तुं वयं प्रभवामः ; तत् शक्यमेव = सम्भवत्येव ; स्वयमेव = अनायासेन एव भवति ; उदके = जले ; शकटं = गन्त्री  (गाडी) ; स्थले = भूमौ ; नौः = नौका ॥१.९४॥
🌻
तात्पर्यम्--
यत् आचरितुं प्रभवामः, तत् कार्यं सम्पन्नं भवत्येव। यत् आचरितुं न समर्थाः तत् असम्पन्नं भवति । (अस्योदाहर्णम्) वारिणि नौका गन्तुं पारयति, किन्तु स्थलयानं न याति। तथैव भुवि नौः न व्रजति । ॥१.९४॥
🌿
हिन्द्यर्थः--
जो कार्य नहीं होने लायक है, वह नहीं हो सकता है, और जो होने लायक है, वह सर्वदा हो ही सकता है । जैसे गाड़ी जल में नहीं चल सकती है और भूमि पर नाव नहीं चल सकती है । अर्थात्- जो कार्य होने लायक हो वही करना चाहिए, असम्भव कार्य के लिए प्रयत्न करना मूर्खता है ॥१.९४॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.93

🌷
मूलम्--
दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥१.९३॥

🌺
पदविभागः--
दुर्जनः परिहर्तव्यः विद्यया अलङ्कृतः अपि सन् । मणिना भूषितः सर्पः किम् असौ न भयङ्करः ॥१.९३॥
🌸
अन्वयः--
दुर्जनः विद्यया अलङ्कृतः अपि सन् परिहर्तव्यः । मणिना भूषितः सर्पः असौ किम् न भयङ्करः? ॥१.९३॥
🌼
प्रतिपदार्थः--
दुर्जनः = दुष्टः ; विद्यया = ज्ञानेन ; अलङ्कृतः अपि सन् = भूषितः भूत्वा अपि ; परिहर्तव्यः = त्याज्यः ; मणिना = रत्नेन ; भूषितः = अलङ्कृतः ; सर्पः = नागः ; असौ = सः ; किम् न = (प्रश्नः) ; भयङ्करः = भयमुत्पादयति यः ; ॥१.९३॥
🌻
तात्पर्यम्--
ज्ञानेन आभूषितोऽपि दुष्टात्मा (दूरेणैव) परित्याज्यः। अत्र उदाहरणम्। भुजङ्गः रत्नेन अलङ्कृतोऽपि (सुन्दरः उपगमने योग्यः न भवति) भयमेवोत्पादयति ॥१.९३॥
🌿
हिन्द्यर्थः--
यदि दुर्जन विद्या से विभूषित भी हो तो भी उससे दूर ही रहना चाहिये । क्यों कि मणि से विभूषित होने पर भी क्या सर्प भयङ्कर नहीं होता है? अवश्य ही भयङ्कर होता है ॥१.९३॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.92

🌷
मूलम्--
शत्रुणा न हि सन्दध्यात् सुश्लिष्टेनापि सन्धिना ।
सुतप्तमपि पानीयं शमयत्येव पावकम् ॥१.९२॥

🌺
पदविभागः--
शत्रुणा न हि सन्दध्यात् सुश्लिष्टेन अपि सन्धिना । सुतप्तम् अपि पानीयं शमयति एव पावकम् ॥१.९२॥
🌸
अन्वयः--
शत्रुणा सुश्लिष्टेन अपि सन्धिना न हि सन्दध्यात् । पानीयं सुतप्तम् अपि पावकं शमयति एव ॥१.९२॥
🌼
प्रतिपदार्थः--
शत्रुणा = अमित्रेण, अहितकरेण ; सुश्लिष्टेन = सुदृढेन, स्वहितावहेन च ; सन्धिना = मैत्रिणा ; न सन्दध्यात् = संयुक्तो न भवेत् ; सुतप्तम् अपि = अत्यन्तम् उष्णम् अपि ; पानीयं = जलम् ; पावकं = वह्निम् ; शमयति = विनाशयति ॥१.९२॥
🌻
तात्पर्यम्--
अत्यन्तं दृढबन्धनशीलेन मैत्रिणा अपि अरिणा सह सुहृद्भावः न युक्तः । (अत्र उदाहरणम्) वारि तप्तम् अपि अग्निं निर्वापयति एव। [अत्र अयं भावः- नीरम् अग्नेः शत्रुः भवति। द्वयोः गुणौ विलोमौ। वह्निना युक्तः सन्नेव अम्बु उष्णीभवति। तेनैव तप्तं सदपि तदुदकम् अनलं ज्वलने न सहकरोति अपिच अपाकरोति।]॥१.९२॥
🌿
हिन्द्यर्थः--
उत्तम से उत्तम स्नेहभाव के द्वारा भी शत्रु से कभी सन्धि (मेल) नहीं करना चाहिये। क्यों कि यदि पानी गरम होगा तो भी वह अग्नि को तो बुझा ही देता है ॥१.९२॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.90

🌷
मूलम्--
साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् ।
न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया ॥१.९०॥

🌺
पदविभागः--
साधोः प्रकोपितस्य अपि मनः न आयाति विक्रियाम् । न हि तापयितुं शक्यं सागर-अम्भः तृण-उल्कया ॥१.९०॥
🌸
अन्वयः--
प्रकोपितस्य साधोः अपि मनः विक्रियाम् न आयाति । सागराम्भः तृणोल्कया हि तापयितुं न शक्यम् ॥१.९०॥ 🌼
प्रतिपदार्थः--
साधोः = सज्जनस्य ; प्रकोपितस्य = कोपं प्रापितस्यापि ; मनः = मतिः ; विक्रियां = विकारम् ; न आयाति = न प्राप्नोति गच्छति वा ; हि = यतः ; सागराम्भः = समुद्रजलं ; तृणोल्का = तृणमेव उल्का इव, अग्नियुक्तघासः ; तापयितुं = उष्णीकर्तुं ; न शक्यम् = असाध्यम्; ॥१.९०॥
🌻
तात्पर्यम्--
सत्स्वभावयुक्तः (अन्यैः) कोपयुक्तं कृतः सन्नपि तस्य मानसं विकारलेशमपि न प्राप्नोति। अस्योदाहरणम्- समुद्रनीरम् अग्नियुक्तेन घासेन उष्णीकर्तुं न शक्यते। (साधुः सः परैः अपकारशतेन क्रोधितोपि सन् क्रुद्धो न भवति इति। कोपितोऽपि साधुतां न जहातीति भावः) ॥१.९०॥
🌿
हिन्द्यर्थः--
सज्जन का चित्त क्रोध दिलाये जाने पर भी विकार को प्राप्त नहीं होता है । जैसे समुद्र के जल को घास कूस को अग्नि (लुकाटी) से गरम नहीं किया जा सकता है । ॥१.९०॥
🙏

Friday, February 19, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.89

🌷
मूलम्--
तिरश्चामपि विश्वासो दृष्टः पुण्यैककर्मणाम् ।
सतां हि साधुशीलत्वात् स्वभावो न निवर्तते ॥१.८९॥

🌺
पदविभागः--
तिरश्चाम् अपि विश्वासः दृष्टः पुण्य-एककर्मणाम् । सतां हि साधु-शीलत्वात् स्वभावः न निवर्तते ॥१.८९॥
🌸
अन्वयः--
पुण्य-एककर्मणां तिरश्चाम् अपि विश्वासः दृष्टः । सतां स्वभावः साधु-शीलत्वात् न निवर्तते हि ॥१.८९॥
🌼
प्रतिपदार्थः--
तिरश्चां = पशुपक्ष्यादीनाम् ; विश्वासः = आश्वासः ; दृष्टः = अनुभूतः ; (पुण्यमेकं कर्म येषा तेषां) पुण्यैककर्मणां = पुण्यात्मनां जनानाम् ; साधुशीलत्वात् = शुभाचारत्वात् ; स्वभावः = प्रकृतिः (व्यवहरणाधारभूतः मूलभूतः गुणः) ; साधुता शीलत्वं तस्मात् ; न निवर्तते = (जन्मान्तरेऽपि) न अपयाति ॥१.८९॥
🌻
तात्पर्यम्--
ये पशुपक्षिणः पुण्यवन्तः भवन्ति, तेषु परस्परं विश्वासः दृश्यते । सज्जनाः प्रकृतेः सदाचारित्वं न त्यजन्ति ॥१.८९॥
🌿
हिन्द्यर्थः--
पुण्यात्मा पशुपक्षियों का भी परस्पर में विश्वास देखा गया है, क्यों कि पुण्यवान् सज्जनों का स्वभाव साधुशील (सदाचारी) होने के कारण किसी भी योनि (जन्म) में नहीं बदलता है ॥१.८९॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.87

🌷
मूलम्--
त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः ।
अत्युत्कटैः पापपुण्यैरिहैव फलमश्नुते ॥१.८७॥

🌺
पदविभागः--
त्रिभिः वर्षैः त्रिभिः मासैः त्रिभिः पक्षैः त्रिभिः दिनैः । अत्युत्कटैः पापपुण्यैः इह एव फलम् अश्नुते ॥१.८७॥
🌸
अन्वयः--
अत्युत्कटैः पापपुण्यैः त्रिभिः वर्षैः त्रिभिः मासैः त्रिभिः पक्षैः त्रिभिः दिनैः फलम् इह एव अश्नुते ॥१.८७॥
🌼
प्रतिपदार्थः--
अत्युत्कटैः = विषमैः ; पापपुण्यै = सत्कर्मभिः दुष्कर्मभिः च ; वर्षैः = वत्सरावधिककालेन ; मासैः = मासावधिककालेन ; पक्षैः = पक्षावधिककालेन ; दिनैः = दिवसैः ; इह एव = अस्मिन्नेव जन्मनि ; अश्नुते = उपभुङक्ते ॥१.८७॥
🌻
तात्पर्यम्--
तीव्राणां दुराचरणानां सदाचरणानां वा प्रतिफलम अवश्यम् आप्यते। अत्र एव लोके लभ्यते। ततः त्रिवर्षकाले, त्रिमासकाले, त्रिपक्षकाले अथवा त्रिदिवसकाले एव मानवेन प्राप्यते। (अतः जागरूकतया सावधानतया च भाव्यम्।) ॥१.८७॥
🌿
हिन्द्यर्थः--
उत्कट पापों व पुण्यों का फल इसी लोक में- तीन वर्ष में, या तीन महीने में, या तीन पक्ष में, या तीन दिन के भीतर ही मनुष्य को मिल जाता है ॥१.८७ ॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.86

🌷
मूलम्--
दुर्जनः प्रियवादी च नैतद् विश्वासकारणम् ।
मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥१.८६॥

🌺
पदविभागः--
दुर्जनः प्रियवादी च न एतद् विश्वास-कारणम् । मधु तिष्ठति जिह्व-अग्रे हृदि हालाहलं विषम् ॥१.८६॥
🌸
अन्वयः--
दुर्जनः प्रियवादी च- एतद् विश्वास-कारणं न । जिह्वाग्रे मधु तिष्ठति हृदि हालाहलं विषं (तिष्ठति) ॥१.८६॥
🌼
प्रतिपदार्थः--
दुर्जनः = दुष्टः ; प्रियवादी = यः मधुरं वदति ; नैतत् = न एष विषयः ; विश्वासकारणं = आश्वासहेतुः ; मधु = माक्षिकं, अत्र माधुर्यम् अर्थः ; जिह्वाग्रे = रसनायां ; तिष्ठति = वर्तते, हृदि = हृदये ; हालाहलं = स्थावरविषभेदः ; विषम् = गरलम् ;  ॥१.८६॥
🌻
तात्पर्यम्--
यः दुर्मनाः सन् मधुरालापं करोति तथापि तत्र आश्वासः न विधेयः, यतस्तस्य जिह्वायामेव मधुनः माधर्यं भवति। हृदये तु पुनः गरलमिव अतिभयानकभावना भवति। ॥१.८६॥
🌿
हिन्द्यर्थः--
दुर्जन भी कभी सच्चा प्रियवादी (मीठा बोलनेवाला हितैषी) हो सकता है, यह कभी विश्वास नहीं करना चाहिए, क्यों कि दुर्जन की जिह्वा पर हो मधुरता रहती है, परन्तु हृदय में तो उसके हलाहल विष ही भरा हुआ है ॥१.८६॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.85

🌷
मूलम्--
प्राक् पादयोः पतति खादति पृष्ठमांसं
कर्णे कलं किमपि रौति शनैर्विचित्रम् ।
छिद्रं निरूप्य सहसा प्रविशत्यशङ्कः
सर्वं खलस्य चरितं मशकः करोति ॥१.८५॥

🌺
पदविभागः--
प्राक् पादयोः पतति खादति पृष्ठ-मांसं कर्णे कलं किम् अपि रौति शनैः विचित्रम् । छिद्रं निरूप्य सहसा प्रविशति अशङ्कः सर्वं खलस्य चरितं मशकः करोति ॥१.८५॥
🌸
अन्वयः--
प्राक् पादयोः पतति। पृष्ठ-मांसं खादति। कर्णे शनैः विचित्रं किम् अपि कलं रौति । सहसा छिद्रं निरूप्य अशङ्कः प्रविशति। मशकः सर्वं खलस्य चरितं करोति ॥१.८५॥
🌼
प्रतिपदार्थः--
प्राक् = पूर्वम्। पादयोः पतति = नीचैः गच्छति, (खलपक्षे-) चरणयोः प्रणमति च । पृष्ठमांसं खादति = पृष्ठे दशति, (खलपक्षे-) पृष्ठतो निन्दां करोति च ; कर्णे = श्रवणाङ्गे ; कलं = सुमधुरम् ; विचित्रं = नानाप्रकारम् ; किमपि = अनिर्वचनीयम् ; रौति = कूजति, कथयति च ; छिद्रं = विवरम्, अवसरं च ; निरूप्य = दृष्ट्वा ; अशङ्कः = निर्भयः सन् ; सहसा = सपदि, झटिति, अकस्मात् ; सर्वं = आसमन्तात्, अशेषं ; खलस्य = दुष्टस्य ; मशकः = दंशः ; चरितं = आचरणं ; ॥१.८५॥
🌻
तात्पर्यम्--
मशकः पूर्वं चरणयोः दशति। ततः मांसं खादन् इव पृष्ठभागं दशति। (केवलं दंशित्वा न विश्राम्यति) कर्णयोः आगत्य किमपि मधुरं गायन्निव ध्वनिं करोति । ततः तत्र रन्ध्रमस्तीति दृष्ट्वा अन्तः निर्भयं प्रविशति। (खलोऽपि तथैवास्ति।) प्रथमं पादयोः नमस्करोति। ततः पृष्ठतः अस्माभिरविज्ञातम् अस्माकमेव निन्दां करोति। ततश्च अवसरं प्राप्य अन्येषां दोषान् अस्माकं पुरतः कथयति, अस्मासु आक्रमणमपि करोति। ॥१.८५॥
🌿
हिन्द्यर्थः--
मच्छर पहले पैर पर गिरता है, फिर पीठ का मांस खाता है, पुनः धीरे-धीरे कान में कुछ गुनगुनाता है, फिर धीरे-धीरे मौका देखकर सहसा निर्भय होकर भीतर प्रवेश कर जाता है। इस प्रकार मच्छर दुर्जनों के सब चरित्रों का अनुकरण करता है । दुष्ट भी- पहले पैर पर गिरता है, फिर परोक्ष में (पीछे से) काम को बिगाड़ता है, फिर कान के पास आकर दूसरों की चुगली करता है, और मौका पाते ही आक्रमण भी करता है ॥१.८५॥
🙏

हितोपदेश-सुभाषित-श्लोकाः - 1.84

 🌷
मूलम्--
दुर्जनेन समं सख्यं वैरं चापि न कारयेत् ।
उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥१.८४॥

🌺
पदविभागः--
दुर्जनेन समं सख्यं वैरं च अपि न कारयेत् । उष्णः दहति च अङ्गारः शीतः कृष्णायते करम् ॥१.८४॥
🌸
अन्वयः--
दुर्जनेन समं सख्यं वैरं च अपि न कारयेत् । अङ्गारः उष्णः दहति शीतःच करं कृष्णायते ॥१.८४॥
🌼
प्रतिपदार्थः--
सख्यं = स्नेहं, मैत्रीं ; अङ्गारः = कोकिलः (कोयला) ; उष्णः = प्रदीप्तः सन् ; दहति = अग्नियुक्तं करोति ; शीतः = अनुष्णः कृष्णायते - कृष्णं करोति = मलिनीकुरुते। करं = हस्तम् ॥१.८४॥
🌻
तात्पर्यम्--
दुष्टेन साकं मित्रता वा शत्रुता वा न कार्या। (सः अङ्गारवत् भवति) अङ्गारः यदि तप्तः भवति तर्हि पाणिं तापयति। यदि अनुष्णः भवति तदा हस्तं कालवर्णेन मलिनं करोति॥१.८४॥
🌿
हिन्द्यर्थः--
🙏
दुर्जन के साथ मित्रता और प्रीति दोनों ही नहीं करनी चाहिये। क्यों कि -अङ्गार गरम (जलता) हो तो हाथ जलता है, और वही यदि शीतल हो तो हाथ को ही काला कर देता है ॥१.८४॥