Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.122

🌷
मूलम्--
पलितेषु हि दृष्टेषु पुंसः का नाम कामिता ।
भैषज्यमिव मन्यन्ते यदन्यमनसः स्त्रियः ॥१.१२२॥

🌺
पदविभागः--
पलितेषु हि दृष्टेषु पुंसः का नाम कामिता! । भैषज्यम् इव मन्यन्ते यद् अन्य-मनसः स्त्रियः ॥१.१२२॥
🌸
अन्वयः--
पुंसः (केशेषु) पलितेषु हि दृष्टेषु का नाम कामिता! यद् अन्य-मनसः स्त्रियः भैषज्यम् इव मन्यन्ते ॥१.१२२॥
🌼
प्रतिपदार्थः--
पलितेषु = शुक्लेषु केशेषु, केशशौक्ल्ये ; दृष्टेषु = जातेषु ; का नाम = का खलु ; कामिता = कामोपभोगपरायणता ; सा नैवोचिता इत्यर्थः ; यत् = यस्मात् ; अन्यमनसः = विरक्ताः, अन्यासक्ता वा ; स्त्रियः = कामिन्यः ; भैषज्यम् इव = कटुकौषधम् इव ; मन्यन्ते = भावयन्ति, ॥१.१२२॥
🌻
तात्पर्यम्--
मनुष्यस्य मूर्धजाः यदा शुक्लवर्णं प्राप्ताः, तदा का वार्ता कामभावस्य? नार्यः तादृशं पतिं परिहार्यं मन्यन्ते, अनिच्छया च तं सेवन्ते ॥१.१२२॥
🌿
हिन्द्यर्थः--
और जब पुरुष के सब बाल पक गये हों तो फिर कहो उसकी कामुकता कैसी ? अर्थात् वृद्धावस्था में कामोपभोग की इच्छा व्यर्थ है । क्यों कि- वृद्ध पुरुष की स्त्री दूसरे से आसक्त हो जाती हैं और वह अपने उस वृद्ध पति को औषध (दवा) की तरह ही कडुआ समझती है ॥१.१२२॥
🙏


No comments:

Post a Comment