Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.118

🌷
मूलम्--
मुखं प्रसन्नं विमला च दृष्टिः
कथानुरागो मधुरा च वाणी ।
स्नेहोऽधिकः सम्भ्रमदर्शनं च
सदानुरक्तस्य जनस्य लक्ष्म ॥१.११८॥

🌺
पदविभागः--
मुखं प्रसन्नं विमला च दृष्टिः कथानुरागः मधुरा च वाणी । स्नेहः अधिकः सम्भ्रम-दर्शनं च सदा अनुरक्तस्य जनस्य लक्ष्म ॥१.११८॥
🌸
अन्वयः--
सदा अनुरक्तस्य जनस्य लक्ष्म (इत्थं भवति)- प्रसन्नं मुखं, विमला च दृष्टिः, कथानुरागः, मधुरा च वाणी, अधिकः स्नेहः, सम्भ्रम-दर्शनं च ॥१.११८॥
🌼
प्रतिपदार्थः--
मुखं = वदनं ; प्रसन्नं = सन्तुष्टियुक्तं ; विमला = स्वच्छा, रागशून्या ; दृष्टिः = दर्शनम् ; कथानुरागः = वार्ताश्रवणादरः ; मधुरा वाणी = श्रवणानन्दकरी वाक् ; स्नेहः = सुहृद्भावः ; सम्भ्रमर्दनं = आगमने सत्कारादिषु च त्वरादर्शनम् ; सदा = नित्यं ; अनुरक्तस्य = प्रीतिभावयुक्तस्य ; लक्ष्म = लक्षणम् ॥१.११८॥
🌻
तात्पर्यम्--
यः सदा अनुरागयुक्तः भवति तस्य लक्षणानि उच्यन्ते- तद्वदनम् आनन्दितं, दृष्टिः स्वच्छा च भवति । तस्मिन् सुहृदः वार्तां श्रोतुम् उत्साहः दृश्यते । तस्य वाक् मधुरा । अधिकं सुहृद्भावं च दर्शयति । मित्रे आगते सति सानन्दाश्चर्यं दर्शयति ॥१.११८॥
🌿
हिन्द्यर्थः--
प्रसन्न मुख, विमल नेत्र, बातों में प्रेम, मधुर वाणी, अधिक स्नेह, आने पर संभ्रम से (हडबडाकर, उत्सुकतापूर्वक) देखना- ये सब अनुरक्त मनुष्यों के लक्षण हैं ॥१.११८॥
🙏

No comments:

Post a Comment