Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.149

🌷
मूलम्--
वरं मौनं कार्यं न च वचनमुक्तं यदनृतं
वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् ।
वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचि-
र्वरं भिक्षाशित्वं न च परधनास्वादनसुखम् ॥१.१४९॥
🌺
पदविभागः--
वरं मौनं कार्यं न च वचनम् उक्तं यद् अनृतं वरं क्लैब्यं पुंसां न च पर-कलत्र-अभिगमनम् । वरं प्राण-त्यागः न च पिशुन-वाक्येषु अभिरुचिः वरं भिक्षाशित्वं न च परधन-आस्वादन-सुखम् ॥१.१४९॥
🌸
अन्वयः--
मौनं कार्यं वरं, यद् अनृतं (तद्) वचनम् उक्तं न च। पुंसां क्लैब्यं वरं, पर-कलत्र-अभिगमनं न च । प्राण-त्यागः वरं, पिशुन-वाक्येषु अभिरुचिः न च । भिक्षाशित्वं वरं, परधन-आस्वादन-सुखं न च ॥१.१४९॥
🌼
प्रतिपदार्थः--
वरं = उत्तमम् ; मौनं कार्यं = तूष्णीभावस्य आचरणम् ; वचनं = वाणी ; अनृतं = मिथ्या ; क्लैब्यं = नपुंसकता ; परकलत्राभिगमनम् = परदाराणां प्रति असाधुवाञ्छा, तदाचरणं च ; प्राणत्यागः = जीवनस्य समापनम् ; पिशुनवाक्येषु = अनुपस्थितौ निन्दासु, दुर्जनखलवचनेषु ; अभिरुचिः=आदरः ; भिक्षाशित्वं = भिक्षाभोजनस्वीकारः ; परधनास्वादनसुखम् = परेषां धनस्य उपभोगे लम्पटता ॥१.१४९॥
🌻
तात्पर्यम्--
(अस्मिन् पद्ये श्रेष्ठाचारस्य कीर्तनं, तदितरस्य गर्हिताचरणस्य निन्दा च कृता ।) असत्यवचनात् न किमपि उक्तमेव साध्वाचारः । अन्येषां पत्नीषु आसक्तेः नपुंसकत्वमेव उत्तमम् । कस्यचित् अनुपस्थितौ दुर्वचनानां प्रयोगात् मृत्युरेव आचरणीयः । अन्येषां धनमुपयुज्य उपभोगेच्छया भिक्षाटनं साधुकार्यम्  ॥१.१४९॥
🌿
हिन्द्यर्थः--
चुप रहना कहीं अच्छा है, परन्तु मू बोलना अच्छा नहीं।  नपुंसकता अच्छा है, परन्तु परस्त्रीगमन अच्छा नहीं । मर जाना अच्छा है परन्तु दुष्ट व निन्दक के वचन में विश्वास करना अच्छा नहीं । भिक्षा माँगकर खाना अच्छा है, परन्तु क्रूर के धन पर आनन्द (मौज) करना कभी अच्छा नहीं है ॥१.१४९॥
🙏

No comments:

Post a Comment