Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.90

🌷
मूलम्--
साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् ।
न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया ॥१.९०॥

🌺
पदविभागः--
साधोः प्रकोपितस्य अपि मनः न आयाति विक्रियाम् । न हि तापयितुं शक्यं सागर-अम्भः तृण-उल्कया ॥१.९०॥
🌸
अन्वयः--
प्रकोपितस्य साधोः अपि मनः विक्रियाम् न आयाति । सागराम्भः तृणोल्कया हि तापयितुं न शक्यम् ॥१.९०॥ 🌼
प्रतिपदार्थः--
साधोः = सज्जनस्य ; प्रकोपितस्य = कोपं प्रापितस्यापि ; मनः = मतिः ; विक्रियां = विकारम् ; न आयाति = न प्राप्नोति गच्छति वा ; हि = यतः ; सागराम्भः = समुद्रजलं ; तृणोल्का = तृणमेव उल्का इव, अग्नियुक्तघासः ; तापयितुं = उष्णीकर्तुं ; न शक्यम् = असाध्यम्; ॥१.९०॥
🌻
तात्पर्यम्--
सत्स्वभावयुक्तः (अन्यैः) कोपयुक्तं कृतः सन्नपि तस्य मानसं विकारलेशमपि न प्राप्नोति। अस्योदाहरणम्- समुद्रनीरम् अग्नियुक्तेन घासेन उष्णीकर्तुं न शक्यते। (साधुः सः परैः अपकारशतेन क्रोधितोपि सन् क्रुद्धो न भवति इति। कोपितोऽपि साधुतां न जहातीति भावः) ॥१.९०॥
🌿
हिन्द्यर्थः--
सज्जन का चित्त क्रोध दिलाये जाने पर भी विकार को प्राप्त नहीं होता है । जैसे समुद्र के जल को घास कूस को अग्नि (लुकाटी) से गरम नहीं किया जा सकता है । ॥१.९०॥
🙏

No comments:

Post a Comment