Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.147

🌷
मूलम्--
वरं विभवहीनेन प्राणैः सन्तर्पितोऽनलः ।
नोपचारपरिभ्रष्टः कृपणः प्रार्थितो जनः ॥१.१४७॥

🌺
पदविभागः--
वरं विभव-हीनेन प्राणैः सन्तर्पितः अनलः । न उपचार-परिभ्रष्टः कृपणः प्रार्थितः जनः ॥१.१४७॥
🌸
अन्वयः--
विभवहीनेन प्राणैः सन्तर्पितः अनलः वरम्।  उपचारपरिभ्रष्टः कृपणः प्रार्थितः जनः (इति) न (वरम्) ॥१.१४७॥
🌼
प्रतिपदार्थः--
वरम् = श्रेष्ठम् ; विभवहीनेन = धनरहितेन पुंसा ; अनलः = वह्निः ; प्राणैः = जीवितेन ; सन्तर्पितः = तृप्तिं कारितः, वह्वौ शरीरं हुतं चेत् ; वरं = किञ्चित् श्रेष्ठम् ; उपचारपरिभ्रष्ठः = सत्कारवर्जितः ; कृपणो जनः = कदर्यः ;  प्रार्थितः=याचितः ; ॥१.१४७॥
🌻
तात्पर्यम्--
(अस्मिन् श्लोके निर्धनस्य मनुष्यस्य दुःस्थितिः वर्ण्यते-) सद्भावनारहितस्य परमलुब्धस्य पुरतः गत्वा याचनात् वरमिदं यत् धनहीनः वह्नौ स्वस्य शरीरं त्यजेत् ॥१.१४७॥
🌿
हिन्द्यर्थः--
दरिद्र मनुष्य अपने प्राण को अग्नि में समर्पण कर दे, तो वह बहुत अच्छा है। परन्तु विचार शून्य कृपण मनुष्यों से प्रार्थना करना (उनसे भिक्षा माँगना) यह तो अच्छा नहीं हैं ॥१.१४७॥
🙏

No comments:

Post a Comment