Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.108

🌷
मूलम्--
को वीरस्य मनस्विनः स्वविषयः को वा विदेशः स्मृतः
यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् ।
यद्दंष्ट्रानखलाङ्गुलप्रहरणः सिंहो वनं गाहते
तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिनत्त्यात्मनः ॥१.१०८॥

🌺
पदविभागः--
कः वीरस्य मनस्विनः स्वविषयः कः वा विदेशः स्मृतः यं देशं श्रयते तम् एव कुरुते बाहु-प्रताप-अर्जितम् । यद् दंष्ट्रा-नख-लाङ्गुल-प्रहरणः सिंहः वनं गाहते तस्मिन् एव हत-द्विपेन्द्र-रुधिरैः तृष्णां छिनत्ति आत्मनः ॥१.१०८॥
🌸
अन्वयः--
मनस्विनः वीरस्य कः स्वविषयः, कः वा विदेशः स्मृतः? (सः) यं देशं श्रयते तम् एव बाहुप्रतापार्जितं कुरुते । यद् दंष्ट्रानख-लाङ्गुलप्रहरणः सिंहः वनं गाहते, तस्मिन् एव (वने) हतद्विपेन्द्ररुधिरैः आत्मनः तृष्णां छिनत्ति ॥१.१०८॥
🌼
प्रतिपदार्थः--
वीरस्य = शूरस्य ; मनस्विनः = धीरस्य, गम्भीराशयस्य ; स्वविषयः = (अत्र) स्वदेशः ; विदेशः = स्वदेशात् भिन्नः प्रदेशः ; स्मृतः = भावितः ; श्रयते = आश्रयते ; बाहुप्रतापार्जितम् ~ बाह्वोः-प्रतापेन अर्जितम् = भुजयोः बलेन स्वाधीनं कृतम् ; दंष्ट्रानखलाङ्गुलप्रहरणः ~ दंष्ट्राः नखाः पुच्छं च आयुधाः यस्य ; सिंहः = केसरी ; वनं = अरण्यं ; गाहते = प्रविशति ; तस्मिन्नेव = (अत्र) वने ; हतद्विपेन्द्ररुधिरैः ~ हतः द्विपेन्द्रः, तस्य रुधिराणि, तैः = व्यापादितः गजेन्द्रः तस्य रक्तैः, आत्मनः = स्वीयं ; तृष्णां = पिपासाम् अथवा बुभुक्षाम् ; छिनत्ति = अपनयति ॥१.१०८॥
🌻
तात्पर्यम्--
धैर्यशालिनः विक्रान्तस्य चिन्तने स्वदेशः कः, विदेशः कः? (कोपि भेदो न। सः सर्वत्र एकथैव तिष्ठति) यत्रापि (गच्छेत्) निवसेत्, तत्र स्वभुदोर्बलेन स्वायत्तं करोति। (अत्र उदाहरणम्) यथा सिंहः दशनरूपैः नखरूपैः, पुच्छरूपेण च आयुधैः युक्तः इव कानने निवसति, तत्रैव गजान् हत्वा तेषां शोणितेन स्वस्य बुभुक्षादिकं निवारयति। (अस्यार्थः- सिंहः स्वस्य वनं वा अपरं वनं वेति न चिन्तयति। यत्र निवासाय याति तत्रैव स्वस्याहारम् अन्विष्यति, तेन जीवति च।) ॥१.१०८॥
🌿
हिन्द्यर्थः--
और भी-वीर एवं मनस्वी पुरुष के लिये कौन अपना देश है कौन-कौन विदेश है? वह तो जिस देश में जाता है, उसी को अपने बाहुबल से अपना कर लेता है । जैसे (दाँत, नख, और पूंछ ही आयुध जिसके हैं, ऐसा वीर) सिंह जिस वन में जाता है, उसी वन में हाथियों को मारकर, उनके रुधिर से हो अपनी प्यास बुझाता है॥१.१०८॥
🙏

No comments:

Post a Comment