Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.148

🌷
मूलम्--
दारिद्र्याद्ध्रियमेति ह्रीपरिगतः सत्त्वात् परिभ्रश्यते
निःसत्त्वः परिभूयते परिभवान्निर्वेदमापद्यते ।
निर्विण्णः शुचमेति शोकनिहतो बुद्ध्या परित्यज्यते
निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥१.१४८॥

🌺
पदविभागः--
दारिद्र्याद् ह्रियम् एति ह्रीपरिगतः सत्त्वात् परिभ्रश्यते निःसत्त्वः परिभूयते परिभवान् निर्वेदम् आपद्यते । निर्विण्णः शुचम् एति शोक-निहतः बुद्ध्या परित्यज्यते निर्बुद्धिः क्षयम् एति अहो निधनता सर्व-आपदाम् आस्पदम् ॥१.१४८॥
🌸
अन्वयः--
दारिद्र्याद् ह्रियम् एति । ह्रीपरिगतः सत्त्वात् परिभ्रश्यते । निःसत्त्वः परिभूयते । परिभवान् निर्वेदम् आपद्यते । निर्विण्णः शुचम् एति । शोकनिहतः बुद्ध्या परित्यज्यते । निर्बुद्धिः क्षयम् एति । अहो निधनता सर्वापदाम् आस्पदम् ॥१.१४८॥
🌼
प्रतिपदार्थः--
दारिद्र्याद् = निर्धनत्वात् । ह्रियं = लज्जाम्। ह्रीपरिगतः = लज्जितः ; सत्त्वात् = शक्त्या, बलात्, ओजसः, पौरुषात्, धैर्याच्च ; परिभ्रश्यते = तेजसा विहीनो भवति ; निस्सत्त्वः = शक्तिहीनः ; परिभूयते = तिरस्क्रियते ; निर्वेदं = ग्लानिम्. मनस्तापञ्च ; आपद्यते = स्थितिं प्राप्नोति ; निर्विण्णः = खिन्नः ; शुचं= शोकम् ; एति = गच्छति ; शोकनिहतः = व्याकुलः ; बुद्ध्या = मत्या ; परित्यज्यते = त्यक्तो भवति ; निर्बुद्धिः = बुद्धिहीनः ; क्षयं = विनाशम् ; निधनता = निर्धनता, दरिद्रता ; सर्वापदां = सकलविपत्तीनाम् ; आस्पदं = स्थानम्, कारणञ्च ॥१.१४८॥
🌻
तात्पर्यम्--
(अस्मिन् पद्ये दरिद्रतायाः नरः परम्पराशृङ्खलया कां स्थितिम् आप्नोतीति दर्शयति) निर्धनः जनः लज्जामनुभवति, ततः कान्तिहीनः, ततः पराभवभाक् च भवति। तेन खेदं, ततश्च शोकं, पुनः बुद्धिहीनतां च समाप्नोति। अहो, वित्तहीनः सर्वदा आपद्भिः एव परिवृत्तो भवति ॥१.१४८॥
🌿
हिन्द्यर्थः--
दरिद्रता से मनुष्य लज्जित सा हो जाता है । लज्जित मनुष्य तेज से हीन हो जाता है! तेजहीन मनुष्य का सर्वत्र निरादर होता है। अनादर से खेद (उदासी) होता है । खिन्न मनुष्य शोक से व्याप्त हो जाता है । शोक ग्रस्त मनुष्य की बुद्धि नष्ट हो जाती है । और बुद्धिहीन मनुष्य का नाश निश्चित है । अतः दरिद्रता ही सब आपत्तियों का आधार स्थान (स्थ कारण) है ॥१.१४८॥
🙏

No comments:

Post a Comment