Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.93

🌷
मूलम्--
दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥१.९३॥

🌺
पदविभागः--
दुर्जनः परिहर्तव्यः विद्यया अलङ्कृतः अपि सन् । मणिना भूषितः सर्पः किम् असौ न भयङ्करः ॥१.९३॥
🌸
अन्वयः--
दुर्जनः विद्यया अलङ्कृतः अपि सन् परिहर्तव्यः । मणिना भूषितः सर्पः असौ किम् न भयङ्करः? ॥१.९३॥
🌼
प्रतिपदार्थः--
दुर्जनः = दुष्टः ; विद्यया = ज्ञानेन ; अलङ्कृतः अपि सन् = भूषितः भूत्वा अपि ; परिहर्तव्यः = त्याज्यः ; मणिना = रत्नेन ; भूषितः = अलङ्कृतः ; सर्पः = नागः ; असौ = सः ; किम् न = (प्रश्नः) ; भयङ्करः = भयमुत्पादयति यः ; ॥१.९३॥
🌻
तात्पर्यम्--
ज्ञानेन आभूषितोऽपि दुष्टात्मा (दूरेणैव) परित्याज्यः। अत्र उदाहरणम्। भुजङ्गः रत्नेन अलङ्कृतोऽपि (सुन्दरः उपगमने योग्यः न भवति) भयमेवोत्पादयति ॥१.९३॥
🌿
हिन्द्यर्थः--
यदि दुर्जन विद्या से विभूषित भी हो तो भी उससे दूर ही रहना चाहिये । क्यों कि मणि से विभूषित होने पर भी क्या सर्प भयङ्कर नहीं होता है? अवश्य ही भयङ्कर होता है ॥१.९३॥
🙏

No comments:

Post a Comment