Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.97

🌷
मूलम्--
द्रवत्वात् सर्वलोहानां निमित्तान्मृगपक्षिणाम् ।
भयाल्लोभाच्च मूर्खाणां सङ्गतं दर्शनात् सताम् ॥१.९७॥

🌺
पदविभागः--
द्रवत्वात् सर्व-लोहानां निमित्ताद् मृग-पक्षिणाम् । भयात् लोभात् च मूर्खाणां सङ्गतं दर्शनात् सताम् ॥१.९७॥
🌸
अन्वयः--
सर्व-लोहानां द्रवत्वात्, मृग-पक्षिणां निमित्ताद्, मूर्खाणां भयात् लोभात् च, सतां सङ्गतं दर्शनात् (भवति)॥१.९७॥
🌼
प्रतिपदार्थः--
सर्वलौहानां = सकलधातूनां ; द्रवत्वात् = द्रवभावेन ; मृगपक्षिणां = पशूनां खगानां च ; निमित्तात् = भोजनादिदानात्, कार्यकारण-भावाच्च ; मूर्खाणां = मूढानां ; भयात् = भीतेः ; लोभात् = लौल्यात् ; सतां = सज्जनानां ; दर्शनाद् = प्रेक्षणमात्राद् एव ; सङ्गतं = मैत्री ॥१.९७॥
🌻
तात्पर्यम्--
समस्तधातुपदार्थानां विगलनमार्गेण संयुक्तता भवति। पशूनां पक्षिणां च मैत्री केनचिद् हेतुना कल्प्यते। बुद्धिहीनानां साङ्गत्यं भीतेः लोलुपतायाः च कारणात् घटते। सज्जनानां मित्रत्वं केवलं दर्शनमात्रेण जागर्ति॥१.९७॥
🌿
हिन्द्यर्थः--
सब धातुओंका परस्पर मेल गलाने से ही होता है, पशुपक्षियों का मेल किसी निमित्त (कारण) से ही होता है, मूर्खों का मेल भय और लोभ से ही होता है, परन्तु सज्जनों का मेल (मैत्री) तो केवल दर्शनमात्र से ही हो जाता है ॥१.९७॥
🙏

No comments:

Post a Comment