Sunday, April 11, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.159

🌷
मूलम्--
असेवितेश्वरद्वारमदृष्टविरहव्यथम् ।
अनुक्तक्लीबवचनं धन्यं कस्यापि जीवनम् ॥१.१५९॥

🌺
पदविभागः--
असेवित-ईश्वर-द्वारम् अदृष्ट-विरह-व्यथम् । अनुक्त-क्लीब-वचनं धन्यं कस्य अपि जीवनम् ॥१.१५९॥
🌸
अन्वयः--
असेवितेश्वरद्वारम् अदृष्टविरहव्यथम् । अनुक्त-क्लीब-वचनं धन्यं कस्य अपि जीवनम् ॥१.१५९॥
🌼
प्रतिपदार्थः--
(जीवनम् इत्यस्य विशेषणानि सर्वाणि पदानि) असेवितेश्वरद्वारम् ~ न सेवितं ईश्वरस्य द्वारं यस्मिन् जीवने = राजादिधनिगृहद्वारं न सेवितम् यस्मिन् जीवने; अदृष्टविरहव्यथम् ~ अदृष्टा विरहव्यथा यस्मिन् तत् तादृक् = प्रियविरहं न अनुभूतं यस्मिन् जीवने ; अनुक्तक्लीबवचनम् ~ नोक्तं क्वीबवचनं यस्मिन् जीवने = दीनवाक्यं मुखात् न निःसृतं ; जीवनम् = जीवितम् ; कस्यापि = सन्तुष्टस्य, विरक्तस्य च ; धन्यम् = सम्पन्नम् ॥१.१५९॥
🌻
तात्पर्यम्--
यः राज्ञां, धनिकानां वा गृहेषु सेवां न कृतवान्, यः कस्यचित् इष्टजनस्य अभावजनितां पीडां न अनुभूतवान्, यः कस्यचित् पुरतः गत्वा दीनभावं न व्यञ्जयति, तादृशस्य पुरुषस्य जीवनं सम्पन्नम् अस्ति॥१.१५९॥
🌿
हिन्द्यर्थः--
जिसने धनिको के द्वार की सेवा नहीं की, जिसने विरह की व्यथा नहीं सही, और जिसने कहीं अपनी दीनता प्रगट नहीं की, उसी मनुष्य का जीवन धन्य हैं ॥१.१५९॥
🙏

No comments:

Post a Comment