🌷
मूलम्--
शशिनीव हिमार्तानां घर्मार्तानां रवाविव ।
मनो न रमते स्त्रीणां जराजीर्णेन्द्रिये पतौ ॥१.१२१॥
🌺
पदविभागः--
शशिनी इव हिमार्तानां घर्मार्तानां रवौ इव । मनः न रमते स्त्रीणां जरा-जीर्णेन्द्रिये पतौ ॥१.१२१॥
🌸
अन्वयः--
शशिनी इव हिमार्तानां घर्मार्तानां रवौ इव स्त्रीणां मनः जरा-जीर्णेन्द्रिये पतौ न रमते ॥१.१२१॥
🌼
प्रतिपदार्थः--
हिमार्तानाम्= शीतपीडितानाम् ; शशिनि = चन्द्रे ; इव = वत् ; घर्मार्तानां = ग्रीष्मोपतापतप्तानाम् ; रवौ = सूर्ये ; स्त्रीणां = नारीणां ; मनः = चित्तं ; जराजीर्णेन्द्रिये = जरया विकले इन्द्रियग्रामे ; पतौ = भर्तरि (छान्दसोऽयं प्रयोगः, पत्यौ इत्युचितम्) ; 'धवे' इति पाठान्तरम् ; न रमते = आनन्दितं न भवति ॥१.१२१॥
🌻
तात्पर्यम्--
शैत्येन पीडितानां यथा चन्द्रमसि आसक्तिः न भवति, आतपेन तप्तानाम् आदित्ये चेतः न भवति, तथैव यस्य इन्द्रियाणि जीर्णानि तादृशि वृद्धे पत्यौ नारीणां मनः रतं न भवति ॥१.१२१॥
🌿
हिन्द्यर्थः--
हिम (बर्फ़ जाड़ा) से पीडित प्राणी को चन्द्रमा अच्छा नहीं लगता है, धूप से पीडित मनुष्य को सूर्य अच्छा नहीं लगता है, वैसे ही जिस की सभी इन्द्रियों जीर्ण हो गयी हो ऐसा वृद्धपति युवति स्त्रियों को कभी अच्छा नहीं लगता है ॥१.१२१॥
🙏
हितोपदेशे स्थितानि सुभाषितानि पदविभाग-अन्वय-प्रतिपदार्थ-तात्पर्य-सहितानि। (प्रतिपदार्थमात्रे गुरुप्रसादशास्त्रिणः कृतेः साहाय्यं स्वीकृतम्)
Sunday, April 11, 2021
हितोपदेश-सुभाषित-श्लोकाः - 1.121
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment