🌷
मूलम्--
घृतकुम्भसमा नारी तप्ताङ्गारसमः पुमान्।
तस्माद् घृतञ्च वह्निञ्च नैकत्र स्थापयेद्बुधः ॥१.१२९॥
🌺
पदविभागः--
घृतकुम्भसमा नारी, तप्त-अङ्गार-समः पुमान्। तस्मात् घृतञ्च वह्निं च, न एकत्र स्थापयेद् बुधः ॥१.१२९॥
🌸
अन्वयः--
नारी घृतकुम्भसमा, पुमान् तप्ताङ्गारसमः । तस्मात् बुधः घृतं च वह्निं च, एकत्र न स्थापयेत् ॥१.१२९॥
🌼
प्रतिपदार्थः--
घृतकुम्भसमा = घृतपूर्णघटतुल्या ; नारी = स्त्री ; तप्ताङ्गारसमः =ज्वलद्-अङ्गार-तुल्यः ; पुमान् = पुरुषः ; तस्माद् = तेन कारणेन ; घृतञ्च = आज्यं च ; वह्निञ्च = अग्निं च ; नैकत्र = एकस्मिन् स्थान् न ; स्थापयेद् = न्यस्येत् ; बुधः= बुद्धिमान् ;॥१.१२९॥
🌻
तात्पर्यम्--
वनिता सर्पिःसदृशा। नरः तु उष्ण-अङ्गारतुल्यः। अतः द्वावपि एकत्र न स्थापनीयौ। ॥१.१२९॥
🌿
हिन्द्यर्थः--
और स्त्री- घी से भरे घड़े के समान है, पुरुष-जलते हुए अङ्गार (अग्नि) है समान है, इस लिए बुद्धिमान् पुरुष को चाहिये कि घृत और अग्नि को एक साथ कभी न रखे ॥१.१२९॥
🙏
हितोपदेशे स्थितानि सुभाषितानि पदविभाग-अन्वय-प्रतिपदार्थ-तात्पर्य-सहितानि। (प्रतिपदार्थमात्रे गुरुप्रसादशास्त्रिणः कृतेः साहाय्यं स्वीकृतम्)
Sunday, April 11, 2021
हितोपदेश-सुभाषित-श्लोकाः - 1.129
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment