Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.101

🌷
मूलम्--
घर्मार्तं न तथा सुशीतलजलैः स्नानं न मुक्तावली
न श्रीखण्डविलेपनं सुखयति प्रत्यङ्गमप्यर्पितम् ।
प्रीत्यै सज्जनभाषितं प्रभवति प्रायो यथा चेतसः
सद्युक्त्या च परिष्कृतं सुकृतिनामाकृष्टिमन्त्रोपमम् ॥१.१०१॥

🌺
पदविभागः--
घर्म-आर्तं न तथा सुशीतल-जलैः स्नानं न मुक्तावली न श्रीखण्ड-विलेपनम् सुखयति प्रत्यङ्गम् अपि अर्पितम् । प्रीत्यै सज्जन-भाषितं प्रभवति प्रायः यथा चेतसः सद्युक्त्या च परिष्कृतं सुकृतिनाम् आकृष्टि-मन्त्र-उपमम् ॥१.१०१॥
🌸
अन्वयः--
सुशीतलजलैः स्नानं न, मुक्तावली न, प्रत्यङ्गम् अर्पितम् श्रीखण्ड-विलेपनम् अपि घर्मार्तं न तथा सुखयति यथा प्रायः सद्युक्त्या परिष्कृतं, सुकृतिनाम् आकृष्टि-मन्त्र-उपमं च सज्जन-भाषितं चेतसः प्रीत्यै प्रभवति ॥१.१०१॥
🌼
प्रतिपदार्थः--
घर्मार्तं = निदाघसन्तप्तं पुमांसं; सुशीतलजैः = शीतनीरैः ; स्नानं = शरीरस्य जलेन शुद्धीकरणं ;  मुक्तावली = मुक्तानां माला ;  प्रत्यङ्गं = प्रत्यवयवम् ; अर्पितं = दत्तं, लेपितं ; श्रीखण्डविलेपनम् = चन्दनस्य लेपनं ; सुखयति = प्रसन्नकरं भवति ; चेतसः = मनसः ; प्रीत्यै = आनन्दाय ; सद्युक्या = शोभनयुक्त्या, कल्पोक्तविधिविधानेन च ; परिष्कृतं = शोभितम् ; आकृष्टिमन्त्रोपमम् = आकर्षणमन्त्रतुल्यम् ; सज्जनभाषितं =सत्पुरुषाणां वचांसि ; प्रभवति = शक्तो भवति ॥१.१०१॥
🌻
तात्पर्यम्--
निदाघतप्तं पुरुषं हिमजलैः स्नानं तथा न हर्षयति। मुक्तानां हारं धृत्वा वा, श्रीचन्दनं सर्वेषु अवयवेषु विलेप्य वा सः तादृशं सुखं नानुभवति। सुष्ठु युक्तिभिः अलङ्कृतं, आकर्षणमन्त्रसदृशं सत्पुरुषवचनं श्रुत्वा मनसः अतिशयेन सन्तोषः भवति॥१.१०१॥
🌿
हिन्द्यर्थः--
आकर्षण मन्त्र की तरह मन को खींचने वाली, अच्छी २ युक्तियों से युक्त सज्जनों की वाणी चित्त को जितना आनन्द देती है, उतना सुख घाम से सन्तप्त मनुष्यों को- शीतल जल का स्नान, मोती की माला और शरीर में लगा शुभा चन्दन भी नहीं देता है ॥१.१०१॥
🙏

No comments:

Post a Comment