Saturday, February 20, 2021

हितोपदेश-सुभाषित-श्लोकाः - 1.99

🌷
मूलम्--
स्नेहच्छेदेऽपि साधूनां गुणा नायान्ति विक्रियाम् ।
भङ्गेऽपि हि मृणालानामनुबध्नन्ति तन्तवः ॥१.९९॥

🌺
पदविभागः--
स्नेहच्छेदे अपि साधूनां गुणा न आयान्ति विक्रियाम् । भङ्गे अपि हि मृणालानाम् अनुबध्नन्ति तन्तवः ॥१.९९॥
🌸
अन्वयः--
साधूनां गुणाः स्नेहच्छेदे अपि विक्रियाम् न आयान्ति । मृणालानां भङ्गे अपि तन्तवः अनुबध्नन्ति हि॥१.९९॥
🌼
प्रतिपदार्थः--
स्नेहच्छेदे = प्रणयभङ्गे ; साधूनां = सज्जनानां ; गुणाः = सरलत्वादयः सद्गुणाः ; विक्रियां = विकारम् ; भङ्गेऽपि = छेदेऽपि ; मृणालानाम् = कमलदण्डानाम् ; तन्तवः = बिससूत्राणि, बिसतन्तवः ; अनुबध्नन्ति = सम्बन्धं न परिहरन्ति ॥१.९९॥
🌻
तात्पर्यम्--
सत्पुरुषानां मध्ये यदा स्नेहच्छेदः भवति, तदापि तेषां सल्लक्षणानि दूषितानि न भवन्ति। (अत्रोदाहरणम्) कमलनालानि यदा विच्छिद्यन्ते तदापि तेषाम् अन्तःस्थितानि तनूनि सूत्राणि परस्परं बद्धानि एव भवन्ति, बन्धं न त्यजन्ति॥१.९९॥
🌿
हिन्द्यर्थः--
और सज्जनों के साथ प्रीति टूट जाने पर भी उनका चित्त विकृत नहीं होता है, किन्तु उनका साधारण सम्बन्ध बना ही रहता है। जैसे मृणालों (कमल की डण्डी) के बीच में से टूट जाने पर भी उनके तन्तु परस्पर में जुड़े ही रहते हैं ॥१.९९॥
🙏

No comments:

Post a Comment