मूलम्-
हीयते हि मतिस्तात हीनैः सह समागमात् ।
समैश्च समतामेति विशिष्टैश्च विशिष्टताम्॥४२॥
पदविभागः-
हीयते हि मतिः तात हीनैः सह समागमात् । समैः च समताम् एति विशिष्टैः
च विशिष्टताम्॥४२॥
अन्वयः-
तात, हीनैः सह समागमात् मतिः हीयते हि । समैः च समताम् एति । विशिष्टैः च विशिष्टताम्॥४२॥
प्रतिपदार्थः-
‘ताते’ति सम्बोधनम् ; तात = हे वत्स! ;
हीनैः = अधमैः,
मूर्खैः ;
समागमात् = मित्रत्वात्, साङ्गत्यात् ;
मतिः = बुद्धिः ;
हीयते = अल्पतामेति, क्षयमेति ;
समैः = स्वात्मतुल्यैः, ये समानबुद्धयः भवन्ति तैः सह
;
समतां = समान-बौद्धिक-स्थितिं ;
विशिष्टैः
= स्वस्माद् अधिकैः, ये विलक्षण-बुद्धयः भवन्ति तैः सह ;
विशिष्टता= वैदुष्यं, महत्त्वञ्च ॥४२॥
तात्पर्यम्-
हे वत्स,
अल्पबुद्धिभिः सहवासेन धीशक्तिः क्षीयते। स्वतुल्यधीभिः सह साङ्गत्येन
समा धीस्थितिः भवति। स्वस्मात् विशेषेण अधिकमतिभिः सह सख्यतया नरः स्वयमपि महान् भवति।
No comments:
Post a Comment