Saturday, February 27, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.1



अथ मङ्गलाचरणम्
मूलम्-
सिद्धिः साध्ये सतामस्तु प्रसादात् तस्य धूर्जटेः ।
जाह्नवीफेनलेखेव यन्मूर्ध्नि शशिनः कला॥१॥
पदविभागः-
सिद्धिः साध्ये सताम् अस्तु प्रसादात् तस्य धूर्जटेः । जाह्नवी-फेन-लेखा इव यत्-मूर्ध्नि शशिनः कला॥१॥
अन्वयः-
तस्य धूर्जटेः प्रसादात् सतां साध्ये सिद्धिः अस्तु। यत्-(यस्य =धूर्जटेः) मूर्ध्नि शशिनः कला जाह्नवी-फेन-लेखा इव (शोभते)॥१॥
प्रतिपदार्थः-
तस्य धूर्जटेः =शिवस्य;  
प्रसादात् = कृपया;  
सतां = सज्जनानाम्;  
साध्ये = कर्तव्ये कर्मणि;  
सिद्धिः = अभीष्टलाभः; अस्तु। 
यत्-(यस्य =धूर्जटेः) मूर्ध्नि शशिनः कला 
जाह्नवी-फेन-लेखा इव ~ जाह्नव्याः फेनाः तेषां लेखाः। = गङ्गायाः वारिकफाः 
तेषां पङ्क्तिः इव (शोभते)॥१॥
तात्पर्यम्-
यस्य शिवस्य शिरसि गङ्गाफेनपङ्क्तिरिव चन्द्रकला अस्ति, तस्य शिवस्य कृपया सज्जनानां क्रियासु सिद्धिः भवतु।

No comments:

Post a Comment