मूलम्-
को धन्यो बहुभिः पुत्रैः कुशूलापूरणाढकैः ।
वरमेकः कुलालम्बी यत्र विश्रूयते पिता॥२०॥
पदविभागः-
कः धन्यः बहुभिः पुत्रैः कुशूल-आपूरण-आढकैः । वरम् एकः
कुल-आलम्बी यत्र विश्रूयते पिता ॥२०॥
अन्वयः-
कुशूल-आपूरण-आढकैः कः धन्यः बहुभिः पुत्रैः एकः कुल-आलम्बी
वरम् । यत्र पिता विश्रूयते ॥२०॥
प्रतिपदार्थः-
कुशूल-आपूरण-आढकैः = धान्य-कोष्ठक-पूरण-असमर्थैः आढकपात्रैः
इव।
[कुशूलं- = धान्यावपनम्- आढकम्- = आढकपरिमितम् धान्यपात्रम् (अढाई सेर का) ]; = स्वल्पाशयैः
तुच्छैः ;
बहुभिः पुत्रैरपि ;
कः धन्यः = श्रेष्ठः, धनवान् ;
एकः
कुल-आलम्बी = येन कुल आलम्ब्यते ;
वरम् = श्रेष्ठः ;
यत्र = यस्मिन् पुत्रे जाते ;
पिता = जनकः
;
विश्रूयते
= लोके महीयते ; ॥२०॥
तात्पर्यम्-
कः पुमान् अल्पाशयैः पुत्रैः धनी इति लोके विश्रूयते? यः पुत्रः
कुलं धरति, यस्य जातेन
कुलस्य आलम्बः भवति, स एव पुत्रः; तेनैव पिता जगति कीर्तिं विन्दति।
(अथवा अन्ये तु– खरीवाहादिपरिमितैः, आढकपरिमितैः
च पुत्रस्थानीयधान्यादिभिः कः धनी इति गण्यते? कुशूलादिमितेनापि धान्यराशिना न कोपि धन्यतां
लभते। एकेन कुलदीपकेन रत्नादिना, कौस्तुभमणिना सागर इव पिता धनी श्रेष्ठश्च भवति– इत्यर्थमाहुः)
No comments:
Post a Comment