Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.32



मूलम्-

यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् ।

तथा पुरुषकारेण विना दैवं न सिद्ध्यति॥३२॥


पदविभागः-

यथा हि एकेन चक्रेण न रथस्य गतिः भवेत् । तथा पुरुषकारेण विना दैवं न सिद्ध्यति॥३२॥


अन्वयः-

यथा हि एकेन चक्रेण रथस्य गतिः न भवेत् । तथा पुरुषकारेण विना दैवं न सिद्ध्यति॥३२॥


प्रतिपदार्थः-

यथा = येन प्रकारेण ; एकेन ;  
चक्रेण = रथाङ्गेन
रथस्य ; गतिः = अग्रे चलनं
न भवेत् = न भवति
एवं = तथैव ;  
पुरुषकारेण = मानवप्रयत्नेन, सहायभूतेन पौरुषेण
विना
दैवम् = केवलम् अदृष्टं ;  
न सिध्यति = नैव फलतीत्यर्थः ॥ ३२ ॥


तात्पर्यम्-

यथा रथः द्वयोः चक्रयोः चलति, एकेन चक्रेण नाग्रे गन्तुं पारयति, तथैव मनुष्यस्य प्रयत्नेन विना केवलं भाग्येन कार्यं न सिद्ध्यति।

No comments:

Post a Comment