Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.26



मूलम्-

धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते ।

अजागलस्तनस्येव तस्य जन्म निरर्थकम्॥२६॥

पदविभागः-

धर्म-अर्थ-काम-मोक्षाणां यस्य एकः अपि न विद्यते । अजा-गल-स्तनस्य इव तस्य जन्म निरर्थकम्॥२६॥

अन्वयः-

यस्य धर्म-अर्थ-काम-मोक्षाणां एकः अपि न विद्यते, तस्य जन्म अजा-गल-स्तनस्य इव निरर्थकम्॥२६॥

प्रतिपदार्थः-

यस्य = यस्य पुंसः
धर्म-अर्थ-काम-मोक्षाणां = धर्मार्थ-काम-मोक्षाख्य-पुरुषार्थ-चतुष्टयस्य मध्ये
एकोऽपि ; पुरुषार्थः = धर्मादिरूपो
न विद्यते = (ध्येयत्वेन) न भवति ;  
तस्य = तस्य पुंसः ;  
अजागलस्तनस्य इव =  अजा-गल-स्थित-स्तन-वत् लम्बमान-चर्म-खडस्य इव
जन्म = जननं
निरर्थकं = निष्फलमेव ;

तात्पर्यम्-

यस्य पुरुषस्य पुरुषार्थ-चतुष्टयस्य मध्ये एकः अपि पुरुषार्थः धर्मो अर्थो कामो मोक्षो वा न विद्यते, तस्य धर्मादीनसेवमानस्य पुंसः दुग्धादि-रहित-बर्कर-गलचर्म-खण्डमिव वृथैव जन्म इत्याशयः ॥२६॥

No comments:

Post a Comment