Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.36




मूलम्-

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।

न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥३६॥


पदविभागः-

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥३६॥


अन्वयः-

उद्यमेन हि कार्याणि सिध्यन्ति। मनोरथैः न। सुप्तस्य सिंहस्य मुखे मृगाः न हि प्रविशन्ति ॥३६॥


प्रतिपदार्थः-

उद्यमेन = उद्योगेन, प्रयत्नेन ;  
सिध्यन्ति = सफलानि भवन्ति
कार्याणि = उद्दिष्टानि कर्माणि
मनोरथैः = कामनाभिः ;  
हि = यतः
सुप्तस्य = शयितस्य (बुभुक्षितस्यापि) ;  
सिंहस्य ; मुखे= वदने
मृगाः = पशवः ;  
न प्रविशन्ति = आहारो न भवन्ति ; ॥३६॥


तात्पर्यम्-

आकाङ्क्षितैः, 'ममेदं भवतु' 'सिध्यतु ममेद'मित्यादि-मनोरथमात्रेण कर्माणि न सम्पद्यन्ते । सिंहः यदा शेते, तदा (स क्षुदा पीडित इति कृत्वा स्वयमेवागत्य) जन्तवः तस्य मुखान्ते (अन्नं भूत्वा) न प्रविशन्ति ।किन्तु तदर्थं सिंहोऽपि यत्नं करोति । एवमेव सर्वैरपि यत्नो विधेयः।

No comments:

Post a Comment