मूलम्-
सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् ।
अहार्यत्वाद् अनर्घत्वाद् अक्षयत्वाच्च सर्वदा॥४॥
पदविभागः-
सर्व-द्रव्येषु विद्या एव द्रव्यम् आहुः अनुत्तमम् । अहार्यत्वाद् अनर्घत्वाद् अक्षयत्वात्
च सर्वदा॥४॥
अन्वयः-
सर्वदा
(अन्येन केनापि) अहार्यत्वाद्, अनर्घत्वाद्, अक्षयत्वात् च सर्व-द्रव्येषु विद्या एव अनुत्तमम् द्रव्यम् (इति
विद्वांसः) आहुः ॥४॥
प्रतिपदार्थः-
सर्वदा;
(अन्येन केनापि) अहार्यत्वाद् = हर्तुम् अशक्यत्वात्;
अनर्घत्वाद् = बहुमूल्यत्वात्;
अक्षयत्वात् च = दानादिना अपि अक्षीयमाणत्वात्;
सर्व-द्रव्येषु = सर्वसाधनोपेक्षया; विद्या एव;
अनुत्तमम् = सर्वश्रेष्ठम्;
द्रव्यम् = धनं;
आहुः ॥४॥
(अन्येन केनापि) अहार्यत्वाद् = हर्तुम् अशक्यत्वात्;
अनर्घत्वाद् = बहुमूल्यत्वात्;
अक्षयत्वात् च = दानादिना अपि अक्षीयमाणत्वात्;
सर्व-द्रव्येषु = सर्वसाधनोपेक्षया; विद्या एव;
अनुत्तमम् = सर्वश्रेष्ठम्;
द्रव्यम् = धनं;
आहुः ॥४॥
तात्पर्यम्-
सर्वकालेषु
सर्वधनेषु विद्या एव सर्वश्रेष्ठं धनम् इति विद्वद्वचनम्। यतः– तत् अन्यैः हर्तुं न
शक्यते। बहुमूल्या वर्तते। कदापि क्षयं न याति।
No comments:
Post a Comment