मूलम्-
ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी ।
भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः॥२१॥
प्रतिपदार्थः-
ऋण-कर्ता पिता शत्रुः माता च व्यभिचारिणी । भार्या रूपवती
शत्रुः पुत्रः शत्रुः अपण्डितः॥२१॥
अन्वयः-
पिता ऋण-कर्ता शत्रुः। माता च व्यभिचारिणी (शत्रुः) ।
भार्या रूपवती शत्रुः । पुत्रः अपण्डितः शत्रुः ॥२१॥
प्रतिपदार्थः-
पिता = जनकः ;
ऋण-कर्ता = यः पुनः पुनः अन्येभ्यः ऋणं स्वीकृत्य जीवति ;
शत्रुः = अयशोहेतुत्वात् शत्रुरिव ;
माता = जननी ;
व्यभिचारिणी = परपुरुषरता ;
भार्या = पत्नी ;
रूपवती = सुन्दरी ;
शत्रुः = विवाद-ईर्ष्यादि-हेतुत्वात् शत्रुरिव ;
पुत्रः ;
अपण्डितः = मूर्खः ;
शत्रुः = मनस्तापहेतुत्वात् शत्रुरिव ॥२१॥
ऋण-कर्ता = यः पुनः पुनः अन्येभ्यः ऋणं स्वीकृत्य जीवति ;
शत्रुः = अयशोहेतुत्वात् शत्रुरिव ;
माता = जननी ;
व्यभिचारिणी = परपुरुषरता ;
भार्या = पत्नी ;
रूपवती = सुन्दरी ;
शत्रुः = विवाद-ईर्ष्यादि-हेतुत्वात् शत्रुरिव ;
पुत्रः ;
अपण्डितः = मूर्खः ;
शत्रुः = मनस्तापहेतुत्वात् शत्रुरिव ॥२१॥
तात्पर्यम्-
यस्य पिता ऋणं करोति, सः पुत्रस्य शत्रुरिव भवति (तस्य पुत्रेणैव
तदृण-प्रत्यर्पणधुर्याः भारवहनत्वात्) । माता च नैकपतिव्रता (समाजे ज्ञातिषु
चाकीर्तिकरत्वात्) शत्रुः भवति। सुन्दरी पत्नी तु (सर्वजनैः आकृष्टा, दृश्या च
भूत्वा, पत्युर्मनसि
ईर्ष्यादिदुर्भावान् जनयतीति कारणेन) शत्रुर्भवति। पुत्रस्तु विद्याहीनः, मूर्खश्च
(कुलस्योद्गमे अयोग्यः सन्) शत्रुः भवति।
No comments:
Post a Comment