मूलम्-
कोऽर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः ।
काणेन चक्षुषा किं वा चक्षुः पीडैव केवलम्॥१२॥
पदविभागः-
कः तात्पर्यम् पुत्रेण जातेन यः न विद्वान् न
धार्मिकः । काणेन चक्षुषा किं वा चक्षुः पीडा एव केवलम्॥१२॥
अन्वयः-
यः (पुत्रः) न विद्वान् न (च) धार्मिकः (तेन) पुत्रेण जातेन
कः तात्पर्यम्? काणेन चक्षुषा किं वा चक्षुः पीडा एव केवलम्॥१२॥
प्रतिपदार्थः-
यः = पुत्रः;
न विद्वान् न धार्मिकः = धर्माचरणप्रवणः;
(तेन) पुत्रेण जातेन = उत्पन्नेनापि;
कः तात्पर्यम् = किं प्रयोजनम्?;
काणेन = दर्शनशक्तिशून्येन;
एकचक्षुर्युक्तः (काणत्वञ्च चक्षुरिन्द्रियशून्यैकगोलकवत्त्वम्);
चक्षुषा = नेत्रेण;
किं वा = किं नु फलं, न किमपि फलं;
चक्षुः-पीडा एव = शारीरिकव्यथा;
केवलम् = मात्रम्;॥१२॥
न विद्वान् न धार्मिकः = धर्माचरणप्रवणः;
(तेन) पुत्रेण जातेन = उत्पन्नेनापि;
कः तात्पर्यम् = किं प्रयोजनम्?;
काणेन = दर्शनशक्तिशून्येन;
एकचक्षुर्युक्तः (काणत्वञ्च चक्षुरिन्द्रियशून्यैकगोलकवत्त्वम्);
चक्षुषा = नेत्रेण;
किं वा = किं नु फलं, न किमपि फलं;
चक्षुः-पीडा एव = शारीरिकव्यथा;
केवलम् = मात्रम्;॥१२॥
तात्पर्यम्-
यः सुतः विद्वत्त्वं वा न धारयति, धर्मं वा
नाचरति, सः
सम्भूयापि न कस्यापि प्रयोजनं कारयति। अस्योदाहरणमेवम्– दर्शनशक्तिहीन-गोलरूपेणाक्ष्णा
वस्तुदर्शनं न शक्यते। केवलं तत्व्यथां कारयति, न कस्याप्युपयोगाय भवति।
आङ्ग्लेय्यार्थः-
What is the use of a son who is neither a scholar nor
follows dharma? (In the same lines) what is the use of a disabled eye, but for
causing pain?
हिन्द्यर्थः-
उस पुत्र के उत्पन्न होने से क्या लाभ है, जो न विद्वान् है और न धार्मिक ही । कानी आँख से कोई लाभ नहीं
होता, वह तो केवल पीडा ही देने के लिये होती है ॥
No comments:
Post a Comment