Saturday, February 27, 2016

संस्कृताय जीवनम्

संस्कृतं नाम दैवीवागन्वाख्याता महर्षिभिः।
           भाषेयं देववाणी। वागियं परमपवित्रा। अस्याः ज्ञानायावगमनाय च जना ईहन्ते। अवबुध्य स्वयं समुन्नता भवामः- इति भावनया तुष्यन्ति। आत्मनः सन्तुष्टिरियं पुरुषं धार्मिके प्रगतिपथे नयति।
           संस्कृतं संस्कृतेर्मूलम्। यथा चाचार्यः कपिलदेव द्विवेदी कथयति--
           "सुविदितमेतत् समेषामपि शेमुषीमतां यद् भारतीया-संस्कृतिः न अधिगन्तुं पार्यते  संस्कृतज्ञानमन्तरा। संस्कृतिमन्तरेण निर्जीवं जीवनं जीविनः। संस्कृतिर्हि स्वान्तस्य संस्कर्त्री, सद्भावानां भावयित्री, गुणगणस्य ग्राहयित्री, धैर्यस्य धारयित्री, दमस्य दात्री सदाचारस्य सञ्चारयित्री, दुर्गुणगणस्य दमयित्री, अविद्यान्धतमसस्य अपनोदयित्री, आत्मावबोधस्य अवगमयित्री, सुखस्य सीधयित्री, शान्तेः सन्धात्री च काचिदनुत्तमा शक्तिः। सेयं संस्कृतिः अजस्रं रक्षणीया, पालनीया, परिवर्धनीयेति भारतीय-संस्कृतेः समुद्धाराय अवबोधाय च संस्कृतज्ञानमनिवार्यम्। समग्रमपि पुरातनं भारतीयं वाङ्मयं संस्कृतमाश्रित्य अवतिष्ठते।" इति।
           अतः संस्कृतभाषाज्ञानाय, शिक्षणाय, प्रचाराय, प्रसाराय च केचन प्रयत्नाः क्रियन्ते स्वस्वप्रतिभाः, अभिरुचीत्यादिकमनुसृत्य तज्ज्ञैः। तादृशः कश्चन प्रयत्नः मया क्रियमाणः भवतां संस्कृतानुरागिणां पुरतः सप्रणामं प्रस्तूयते।
            "धर्मेण हीनाः पशुभिः समानाः", "विद्या ददाति विनयम्", "अनभ्यासे विषं विद्या", "उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः", "उद्यमेन हि सिध्यन्ति कार्याणि, न मनोरथैः", "पूर्वजन्मकृतं कर्म तद्दैवमिति कथ्यते ।" ---एतानि सुप्रसिद्धानि वाक्यानि कुत्रचित् श्रुतानीव भासन्ते किल। एतानि हितोपदेशग्रन्थे सन्ति। भारतीय-सनातन-धर्मस्यांशानाम् उद्घोषणं कुर्वन्नयं ग्रन्थः जनसामान्ये प्रख्यातः। संस्कृतशिक्षणे प्राथमिकदशायां हितोपदेश-श्लोकान् कण्ठस्थीकारयन्ति शिक्षकाः विद्यार्थीन्। धार्मिकजीवनाय, अमूल्यज्ञानसम्पन्नतायै च श्लोकानामेतेषामुपयोगितां मनसि निधाय, टिप्पणीसहितं प्रतिपदार्थतात्पर्ययुक्तं सरलं व्याख्यानमत्र प्रस्तूयते। 
            व्याख्यानं सर्वं किञ्चित्प्रयोजनमुद्दिश्य संस्कृतेनैव कृतम्। ये जना संस्कृतभारत्या संस्कृतं शिक्षित्वा आगच्छन्ति, तेषाम् अवगतिः संस्कृतमूलग्रन्थानां पठनाय नालम्। हिन्दी-आङ्ग्लेय्यादि-भाषा-साहाय्यं अपेक्ष्यते तैः। अतस्तादृशानामनुवादं विनैव संस्कृते चिन्तनं वर्धतामिति सङ्कल्पं कृत्वा प्रयासोयं आरब्धः।
             अत्र रचनाप्रणाली एवम्--- सर्वप्रथमं मूलश्लोकः दीयते। तदनन्तरं पदविभागः-- यत्र पदानि सर्वाणि विसन्धीकृत्य प्रदर्श्यन्ते। तत अन्वयः-- यत्र भारतीयभाषाणां वाक्यनिर्मितिमनुसृत्य श्लोकस्थशब्दानां अनुक्रमः योज्यते। तत्पश्चात् प्रतिपदार्थः-- यत्र श्लोके स्थितानां कठिनशब्दानां सामान्यार्थः दीयते। एते अर्थाः श्रीमतः गुरुप्रसादशास्त्रिणः 'अभिनवराजरक्ष्मी' इति संस्कृतटीकातः निर्मिताः। (https://archive.org/details/Hitopadesha-OCR) यत्र व्याख्याकृता न कोपि अर्थः दत्तः, तत्र मया यथाशक्ति अर्थाः कृताः। तस्मात् परं तात्पर्यं भवति-- यत्र संस्कृतवाक्येन श्लोकभावः प्रकटीकृतः। तात्पर्यं तु स्वतन्त्रतया मया कृतम्।
           कार्यमिदं न सम्पूर्णम्। प्रतिदिनं एकैकं श्लोकं एवंरूपेण निर्मीय प्रकट्यते अत्र। अद्यावधि यावन्तः कृताः तावन्तः प्रदर्शिताः। अग्रेपि कार्यमिदं प्रचलिष्यति।
           अत्र यत्रकुत्रचित् सन्ति चेद्दोषाः सूच्या इति नम्रं निवेदनम्। यत्किञ्चिद्वक्तव्यं, प्रयत्नस्यास्य संवर्धनाय, संशोधनाय च प्रयोजनकरं तत् सर्वं विमर्शनरूपेण वदन्तु इति प्रार्थना।
           मदीयः प्रयत्नः संस्कृताध्यायिभ्यः यदि किञ्चिदपि उपयोगाय, प्रयोजनसिद्धये वा संसेत्स्यति, तर्हि सफलो जातः यावान् समयः अत्र यापित इति हर्षमनुभविष्यामि। अनुगृह्णन्तु। नमांसि।

1 comment:

  1. बहुशोभनोऽयं प्रयास: ।
    धन्यवादा: ।

    ReplyDelete