मूलम्-
आहारनिद्राभयमैथुनञ्च सामान्यमेतत् पशुभिर्नराणाम् ।
धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः॥२५॥
पदविभागः-
आहार-निद्रा-भय-मैथुनञ्च सामान्यम् एतत् पशुभिः नराणाम् । धर्मः
हि तेषां अधिकः विशेषः धर्मेण हीनाः पशुभिः समानाः॥२५॥
अन्वयः-
आहार-निद्रा-भय-मैथुनञ्च एतत् नराणाम् पशुभिः सामान्यम् । हि
तेषां धर्मः अधिकः विशेषः । धर्मेण हीनाः पशुभिः समानाः॥२५॥
प्रतिपदार्थः-
आहार-निद्रा-भय-मैथुनञ्च ~ आहारश्च, निद्रा च,
भयञ्च, मैथुनं च = रतिश्च, एषां समाहारः ~ आहार-निद्राभयमैथुनम् । एतत् ;
नराणां = पुंसां ;
पशुभिः = गवादिभिः पशुभिः ;
सामान्यं= तुल्यम् एव ;
हि = यतः ;
तेषां = नराणाम् ;
धर्मः = विद्य-विनय-धर्माचारादिः एव
;
अधिकः = असदृशः, अतिरिक्तः अंशः,
तत्र अवर्तमानः ;
विशेषः = भेदकः ;
धर्मेण हीनाः = रहिताः नरास्तु ;
पशुभिः समानाः = पशुतुल्या
एव इत्यर्थः ॥२५॥
तात्पर्यम्-
अन्नादनं,
शयनं, प्राणभीतिः, रतीच्छा
च चतुष्पादजन्तूनां मनुष्याणां च समानधर्माः भवन्ति। तयोः द्वयोः धर्माचरणमेव भेदः।
नराणां धर्मः अतिरिक्ततया विशेषांशो भवति। ये पुरुषाः धर्माचरणरहिताः ते पशुसदृशाः भवन्ति।
No comments:
Post a Comment