Saturday, February 27, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.3



विद्याप्रशंसा
मूलम्-
अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत्॥३॥
पदविभागः-
अजर-अमर-वत् प्राज्ञः विद्याम् र्थं च चिन्तयेत् । गृहीतः इव केशेषु मृत्युना धर्मम् चरेत्॥३॥
अन्वयः-
प्राज्ञः अजर-अमर-वत् विद्याम् अर्थं च चिन्तयेत्। मृत्युना केशेषु गृहीतः इव धर्मम् आचरेत्॥३॥
प्रतिपदार्थः-
प्राज्ञः = विद्वान्;  
अजर-अमर-वत् = जरा-मरण-वर्जितम् आत्मानं मन्यमान इव;  
विद्याम् = धर्मशास्त्रादिकं, कलाकलापविज्ञानं, ज्ञानं च;  
अर्थं च = धनं च
चिन्तयेत् = अभ्यसेत्, उपार्जयेत् च;  
मृत्युना केशेषु गृहीतः इव = कालकवलितम् इव आत्मानं पश्यन्
धर्मम्; आचरेत् = सेवेत, पालयेत् च॥३॥
तात्पर्यम्-
विद्वान् जरामरणरहितः इव शास्त्रविद्यामभ्यसेत्। (आजीवनं शास्त्राध्ययनं कुर्यात्।) मृत्युदेवः केशान् गृहीत्व तिष्ठति (मरणकालः आसन्नः, अत्यन्तं निकटे अस्ति) इति मत्वा धर्माचरणं कुर्यात्।

1 comment:

  1. तात्पर्ये गृहीत्वा इति भवेत् किल?

    ReplyDelete