Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.30



मूलम्-

न दैवमपि सञ्चिन्त्य त्यजेदुद्योगमात्मनः ।

अनुद्योगेन तैलानि तिलेभ्यो नाप्तुमर्हति॥३०॥


पदविभागः-

न दैवम् अपि सञ्चिन्त्य त्यजेद् उद्योगम् आत्मनः । अनुद्योगेन तैलानि तिलेभ्यः न आप्तुम् अर्हति॥३०॥


अन्वयः-

दैवम् अपि सञ्चिन्त्य आत्मनः उद्योगं न त्यजेद् । अनुद्योगेन तिलेभ्यः तैलानि न आप्तुम् अर्हति॥३०॥


प्रतिपदार्थः-

देवम् अपि = दैवम् अस्ति इति, भाग्यम् (तदेव सर्वकार्यसाधकमिति) ;  
सञ्चिन्त्य = विभाव्य, चिन्तयित्वा
आत्मनः = आत्माधीनम् ;  
उद्योगं = पुरुषार्थं ; (यत् स्वयं कर्तुं शक्यते तत्) न त्यजेत्
(यतः) अनुद्योगेन = उद्योगविकलेन, आलस्येन वा
(गृहकोणस्थितेभ्योऽपि तैलपूर्णेभ्योऽपि) तिलेभ्यः
तैलानि
आप्तुं = प्राप्तुं
न अर्हति = न योग्यो भवति ।


तात्पर्यम्-

भाग्यमस्ति इति चिन्तयित्वा स्वस्य हस्ते यदस्ति, तत् प्रयत्नं न त्यक्तव्यम् । प्रयत्नं विना तिलेषु सत्सु अपि तैलं न प्राप्नोति। (उद्योगाऽभावे हि गृहकोणस्थतिलेभ्योऽपि तैललाभो न भवति, किं पुनरभ्युदयसम्पत्तिसुखादिलाभः । एवञ्च दैवस्य आशां विहाय, पुरुषेण उद्योगोऽवश्यं विधेय इत्यर्थः) ॥३०॥

No comments:

Post a Comment