मूलम्-
नाद्रव्ये निहिता काचित् क्रिया फलवती भवेत् ।
न व्यापारशतेनापि शुकवत् पाठ्यते बकः॥४३॥
पदविभागः-
न अद्रव्ये निहिता काचित् क्रिया फलवती भवेत् । न व्यापार-शतेन
अपि शुकवत् पाठ्यते बकः॥४३॥
अन्वयः-
अद्रव्ये निहिता काचित् क्रिया फलवती न भवेत् । व्यापार-शतेन
अपि बकः शुकवत् न पाठ्यते ॥४३॥
प्रतिपदार्थः-
देव = हे राजन् ; अद्रव्ये = अयोग्ये, अपात्रे
च ; निहिता = योजिता, स्थापिता च ;
क्रिया = संस्कारः, शिक्षा च = शिक्षणं ;
फलवती = सफला ; व्यापार-शतेनापि = उपाय-शतेनापि
; बकः = पक्षिविशेषः ; न खलु ; पाठ्यते=पाठयितुं शक्यते॥४३॥
तात्पर्यम्-
अपात्रं शिक्षयित्वा संस्कारयितुं कृतानि प्रयतनानि न कदापि
सफलानि भवन्ति। बकः शुकवत् भणितुं न पारयति। अतः तं शिक्षयितुं प्रयत्नः व्यर्थो भवति।
No comments:
Post a Comment