Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.33



मूलम्-

पूर्वजन्मकृतं कर्म तद् दैवमिति कथ्यते ।

तस्मात् पुरुषकारेण यत्नं कुर्यादतन्द्रितः॥३३॥


पदविभागः-

पूर्व-जन्म-कृतं कर्म तद् दैवम् इति कथ्यते । तस्मात् पुरुषकारेण यत्नं कुर्याद् अतन्द्रितः॥३३॥


अन्वयः-

पूर्व-जन्म-कृतं कर्म तद् दैवम् इति कथ्यते । तस्मात् पुरुषकारेण अतन्द्रितः यत्नं कुर्याद् ॥३३॥


प्रतिपदार्थः-

पूर्वजन्मनि = गते जन्मकाले ;  
कृतं यत्कर्म = आचरितानि कार्याणि ;  
तत् = तदेव
दैवमिति कथ्यते = दैवपदवाच्यम्, इतोऽन्यद्दैवं नाम किञ्चिदपि नास्ति ;  
तस्मात् = पुरुषकारेण विना दैवस्य सिद्धेरभावात् ;  
पुरुषकारेण = पुरुषार्थमास्थाय, प्रयत्नं  कृत्वा
अतन्द्रितः = आलस्यवर्जितः, सावधानः सन् ;  
पुमान् = पुरुषः, मनुष्यः ;  
यत्नं कुर्यात् = उद्यमं कुर्यात्॥३३॥


तात्पर्यम्-

गते जन्मनि यद्यदाचरितं कर्म वर्तते, तदेव अस्मिन् जन्मनि भाग्यरूपेण परिणमति। अतः (पूर्वकाले वा भवतु) प्रयत्नेनैव भाग्यस्यापि कल्पितत्वात्, सावधानो भूत्वा प्रयत्नः अवश्यं करणीयः।

No comments:

Post a Comment