मूलम्-
संयोजयति विद्यैव नीचगापि नरं सरित् ।
समुद्रमिव दुर्घर्षं नृपं भाग्यमतः परम्॥५॥
पदविभागः-
संयोजयति विद्या एव नीचगा अपि नरं सरित् । समुद्रम् इव दुर्घर्षं नृपं भाग्यम् अतः परम्॥५॥
अन्वयः-
नीचगा
अपि सरित् समुद्रम् इव विद्या एव (नीचगा अपि) दुर्धर्षं नरं नृपं संयोजयति। अतः
परं भाग्यम् (प्रमाणम्) ॥५॥
प्रतिपदार्थः-
नीचगा अपि = निम्नगा अपि;
सरित् = नदी;
समुद्रम् इव; विद्या;
एव = केवलं;
(नीचगा अपि = नीचजनस्था अपि)
दुर्धर्षं = दुरासदं, दुष्प्रापं, दुर्लभदर्शनं;
नृपं = राजानं;
नरं संयोजयति = तेन सह पुरुषं
सङ्गमयति।
अतः परं = तेन सह समागमानन्तरं;
भाग्यम् =
भाग्यानुसारेण ततो धनरत्नादीनां लाभः॥५॥
तात्पर्यम्-
नदी
यथा निम्नस्थानात् गच्छन्ती अपि समुद्रं गच्छति, तथैव विद्या
नीचजनमपि- राजानं संगतिं नयति।
श्लोकेस्मिन् दुर्घर्षं इति अस्ति।तत् दुर्धर्षं इति भवेत् खलु?
ReplyDelete