Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.24



मूलम्-

हा हा पुत्रक नाधीतं गतास्वेतासु रात्रिषु ।

तेन त्वं विदुषां मध्ये पङ्के गौरिव सीदसि॥२४॥

पदविभागः-

हा हा पुत्रक, न अधीतं गतासु एतासु रात्रिषु । तेन त्वं विदुषां मध्ये पङ्के गौः इव सीदसि॥२४॥

अन्वयः-

पुत्रक, हा हा, एतासु रात्रिषु गतासु न अधीतं । तेन विदुषां मध्ये पङ्के गौः इव त्वं सीदसि॥२४॥

प्रतिपदार्थः-

पुत्रक = हे पुत्र (सम्बोधनम्)
हा हा = धिक्, अहो, (दुःखकरं) ;  
एतासु रात्रिषु गतासु = वृथा-अपयातासु रात्रिसमयेषु (दिनसामान्यार्थे)
न अधीतं = शास्त्रं नाभ्यस्तम्, ज्ञानं न सम्प्राप्तम्
तेन = कालयापनेन, अनध्ययनेन च ;  
विदुषां = पण्डितानां, विद्यावतां
मध्ये = सभायां, पुरतः
पङ्के = कर्दमे
गौः इव = जन्तुविशेष-सदृशः ;  
त्वं सीदसि = क्लेशमनुभवसि, विषण्णो, आकुलो भवसि॥२४॥

तात्पर्यम्-

हे सुत, धिक्। त्वं एतावन्ति नक्तंदिनानि विना विद्याभ्यासं व्यर्थं कालमपनीतवान्। अतः त्वं इदानीं विद्वज्जनसम्मुखं यथा पङ्के पतितः गौः, तथा खिन्नः भवसि।

--------------------------------

No comments:

Post a Comment