Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.37



मूलम्-
मातापितृकृताभ्यासो गुणितामेति बालकः ।
न गर्भच्युतिमात्रेण पुत्रो भवति पण्डितः ॥३७॥
पदविभागः-
माता-पितृ-कृत-अभ्यासः गुणिताम् एति बालकः ।  न गर्भ-च्युति-मात्रेण पुत्रः भवति पण्डितः ॥३७॥
अन्वयः-
माता-पितृ-कृत-अभ्यासः बालकः गुणिताम् एति ।  गर्भ-च्युति-मात्रेण पुत्रः पण्डितः न भवति ॥३७॥
प्रतिपदार्थः-
मात्रा च पित्रा च कृतः, कारितः अभ्यासो येनासौ ~ मातापितृ-कृताऽभ्यासः = मातापितृभ्यां कारिताभ्यासः ; बालकः = पुत्रः ; गुणितां = विद्वत्त्वं, गुणवत्त्वञ्च ; एति = प्राप्नोति, लभते ; केवलं गर्भ-च्युति-मात्रेण = जन्मग्रहण-मात्रेणैव ; पुत्रः = बालकः ; पण्डितो न भवति ॥३७॥
तात्पर्यम्-
माता पिता च यं बालकं (सद्गुणानां) अभ्यासं कारयन्ति, स एव गुणी भवति। जन्मप्राप्तिमात्रेण न कोऽपि पुत्रः पण्डितः भवति। (अतः शिक्षणमावश्यकम्।) 

No comments:

Post a Comment