मूलम्-
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी-
र्दैवेन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिध्यति कोऽत्र दोषः॥३१॥
पदविभागः-
उद्योगिनं पुरुष-सिंहम् उपैति लक्ष्मीः दैवेन देयम् इति कापुरुषाः
वदन्ति । दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या यत्ने कृते यदि न सिध्यति कः अत्र
दोषः॥३१॥
अन्वयः-
उद्योगिनं पुरुष-सिंहम् लक्ष्मीः उपैति । कापुरुषाः ‘दैवेन देयम्’ इति वदन्ति । दैवं निहत्य, आत्म-शक्त्या
पौरुषं कुरु । यत्ने कृते यदि न सिध्यति कः अत्र दोषः॥३१॥
प्रतिपदार्थः-
उद्योगिनम् = प्रयत्नशीलं ;
पुरुषसिंहं = (~पुरुषः
सिंह इव, पुरुषसिंहस्तं) सिंहवद् विक्रमशालिनं पुरुषश्रेष्ठम्
;
लक्ष्मीः = धनं, सम्पत्तिः, सफलता, जयः ;
स्वयमेव = स्वत एव
;
उपैति = आगच्छति ;
कापुरुषाः = उद्योगशक्तिशून्याः,
भयशीलाः, कातरा एव, न शूराः
;
‘दैवेन देयम्’ इति = ‘भाग्येन एव दीयते (सर्वं सुखं दुःखं वे’ति) ;
वदन्ति = कथयन्ति ;
दैवम् = भाग्यं, अदृष्टं ;
निहत्य = तन्मुखप्रेक्षितां विहाय,
तदुपेक्ष्येति वा ;
पौरुषम् = उद्योगं ;
कुरु ;
यत्ने = उद्योगे ; कृते सति ;
यदि = चेत् ;
कार्यं
न सिध्यति (तर्हि अस्मिन्विषये) ;
कः = को वा पुंसः ;
दोषः = अपकर्षकारकं ;
(नैव कश्चिद्दोष इत्यर्थः)
।
यद्वा-अत्र = यत्ने एव कः = कोऽपि दोषः = त्रुटिरस्तीति विभाव्यम्, अन्यथा बलवति यत्ने सति अवश्यमेव कार्यं भवत्येवेत्यवधेयमित्यन्ये व्याचक्षते
॥३१॥
तात्पर्यम्-
यः प्रयत्नशीलः सिंहवत् विक्रमशाली पुरुषः, सः सफलत्वं प्राप्नोति। भयशीलिनः
तु ‘भाग्येनैव दीयते’ इति ब्रुवन्ति। अतः भाग्यमुपेक्ष्य, प्रयत्नं कुरु। यदि
यत्नं कृत्वा अपि फलं न प्राप्यते, तर्हि न कोऽपि दोषस्तत्र।
अथवा, यदि न प्राप्यते फलं, तर्हि ‘यत्ने को दोषः?’ इति चिन्तनीयम्।
No comments:
Post a Comment