Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.27



मूलम्-

आयुः कर्म च वित्तं च विद्या निधनमेव च ।

पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः॥२७॥

पदविभागः-

आयुः कर्म च वित्तं च विद्या निधनम् एव च । पञ्च एतानि हि सृज्यन्ते गर्भस्थस्य एव देहिनः॥२७॥

अन्वयः-

आयुः कर्म च वित्तं च विद्या निधनम् एव च एतानि पञ्च हि गर्भस्थस्य एव देहिनः सृज्यन्ते ॥२७॥

प्रतिपदार्थः-

आयुः = जीवितकालः ;  
कर्म = जीविकासाधनं कर्म, शुभाऽशुभमाचरणं वा ;  
वित्तं = धनम्
विद्या ; निधनं = मृत्युः
एतानि पञ्च ; गर्भस्थस्य = कुक्षिस्थस्यैव
देहिनः = प्राणिनः, जीविनः, शरीरिणः ;  
सृज्यन्ते = कल्प्यन्ते ॥२७॥

तात्पर्यम्-

शरीरिणः पञ्च विषयाः १. जीवनपरिमाणं, २. पोषणाय वृत्तिः शुभाशुभकार्याणि वा, ३. आर्थिकस्थितिः, ४. ज्ञानं, ५. मरणसमयश्च सर्वे जन्मनः पूर्वं गर्भे स्थिते एव निर्धृताः भवन्ति। (कोऽपि एतेषामभावस्य कारणं प्रयत्नलोप इति वक्तुं न शक्नोति। प्राणिनः मातृगर्भस्थितेः पूर्वमेव तस्य पूर्वजन्मनः कर्ममनुसृत्य आयुप्रमाणादिकं निर्दिश्यते। अनेन निष्कर्षेण, स्थितौ परिणामः नितरां असम्भव इति कथितुं न शक्यते। अभ्यासप्रयत्नाभ्यां तत्र कर्म-धन-विद्याविषयेषु लाभो भवेत्। यदि लाभो न दृश्येत, तर्हि शुचा न कार्या इत्येवास्य श्लोकस्यार्थः।)

No comments:

Post a Comment