Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.14



मूलम्-
वरं गर्भस्रावो वरमृतुषु नैवाभिगमनं
वरं जातः प्रेतो वरमपि च कन्यैव जनिता ।
वरं वन्ध्या भार्या वरमपि च गर्भेषु वसति-
र्न वाविद्वान् रूपद्रविणगुणयुक्तोऽपि तनयः॥१४॥
पदविभागः-
वरं गर्भ-स्रावः। वरम् ऋतुषु न एव अभिगमनम्। वरं जातः प्रेतः। वरम् अपि च कन्या एव जनिता । वरं वन्ध्या भार्या। वरम् अपि च गर्भेषु वसतिः। न वा अविद्वान् रूप-द्रविण-गुण-युक्तः अपि तनयः॥१४॥
अन्वयः-
गर्भ-स्रावः वरम्। ऋतुषु न एव अभिगमनम् वरम् । जातः प्रेतः वरम्। अपि च कन्या एव जनिता वरम्। वन्ध्या भार्या वरम् । अपि च गर्भेषु वसतिः वरम् । अविद्वान् रूप-द्रविण-गुण-युक्तः अपि तनयः न वा (वरम्)॥१४॥
प्रतिपदार्थः-
गर्भ-स्रावः =गर्भपातः
वरम् = ईषत् श्रेष्ठः
ऋतुषु = भार्यायाः ऋतुकाले;
न एव ; अभिगमनम् = उपसर्पणम्; वरम् । 
जातः ; प्रेतः = मृतः; वरम्। अपि च ;  
कन्या एव जनिता वरम्। 
वन्ध्या = सन्तानजनने असमर्था; भार्या वरम् । अपि च;  
गर्भेषु = कुक्षौ एव;  
वसतिः = निवासः; वरम् । 
अविद्वान् = मूर्खः
रूप-द्रविण-गुण-युक्तः = सुन्दरः, धनवान्, सकलसद्गुणयुक्तः;  
अपि तनयः = पुत्रः; न वा (वरम्)॥१४॥
तात्पर्यम्-
रूपसद्गुणयुक्तोपि सन् मूर्खपुत्रः यदि जायते, तत्तुलनायां किं किं श्रेष्ठमिति वदतिगर्भपातः, भार्यासङ्गमवर्जनं, मृतशिशुजननं, कन्याजननं, पत्न्याः शिशुजननाशक्तता, कुक्षावेव पिण्डस्य वासःएतानि सर्वाणि श्रेष्ठानि मूर्खसुतस्य जननात् इति।
(अयं श्लोको न सर्वत्रोपलभ्यते। अतः प्रक्षिप्तः इति मन्यामहे- गौरीप्रसादशास्त्री, १९५५)

No comments:

Post a Comment