Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.7



मूलम्-
विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये ।
आद्या हास्याय वृद्धत्वे द्वितीयाद्रियते सदा॥७॥
पदविभागः-
विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये । आद्या हास्याय वृद्धत्वे द्वितीया द्रियते सदा॥७॥
अन्वयः-
(मनुष्यस्य) प्रतिपत्तये, शस्त्रं विद्या च शास्त्रं (विद्या) च द्वे विद्ये (प्रसिद्धे)। आद्या वृद्धत्वे हास्याय। द्वितीया (लोके) सदा आद्रियते ॥७॥
प्रतिपदार्थः-
प्रतिपत्तये = ज्ञानाय, यशोलाभाय च 
शस्त्रं विद्या = धनुर्वेदादि
शास्त्रं (विद्या) च द्वे विद्ये; आद्या; 
वृद्धत्वे = वृद्धावस्थायां, बलक्षये 
हास्याय = उपहासप्रदा
द्वितीया = शास्त्रविद्या;
(लोके) सदा;  
द्रियते = पूज्यते॥७॥
तात्पर्यम्-
मनुष्यस्य ज्ञानार्जनाय, यशसे च द्वे विद्ये स्तः। शस्त्रविद्या, शास्त्रविद्या चेति। शस्त्रविद्यया गते वयसि न कोऽपि लाभः (शारीरिक-बलाभावात्)। किन्तु शास्त्रविद्यया जनः आजीवनं पूज्यते लोके (वृद्धोऽपि विद्यां न त्यजति)।
--------------------------------

No comments:

Post a Comment