मूलम्-
यस्य कस्य प्रसूतोऽपि गुणवान् पूज्यते नरः ।
धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति॥२३॥
पदविभागः-
यस्य कस्य प्रसूतः अपि गुणवान् पूज्यते नरः । धनुः वंश-विशुद्धः
अपि निर्गुणः किं करिष्यति॥२३॥
अन्वयः-
यस्य कस्य प्रसूतः अपि गुणवान् नरः पूज्यते । वंश-विशुद्धः अपि
धनुः निर्गुणः किं करिष्यति॥२३॥
प्रतिपदार्थः-
यस्य कस्य = अज्ञातकुलशीलस्य, अकुलीनस्यापि ;
प्रसूतः = तत उत्पन्नः ; अपि ;
गुणवान् = गुणी, सद्गुणसम्पन्नः, (अथवा धनुषः पक्षे) तन्तुयुतः, मौर्वीयुतः च ;
नरः ; पूज्यते = सत्क्रियते, आद्रियते ;
वंश-विशुद्धः अपि = श्रेष्ठवंशनिर्मितमपि ;
धनुः = कोदण्डं ;
निर्गुणः = गुणशून्यं, ज्यारहितम् ;
किं करिष्यति = किं लक्ष्यं हन्तुं समर्थो भवति?॥२३॥
प्रसूतः = तत उत्पन्नः ; अपि ;
गुणवान् = गुणी, सद्गुणसम्पन्नः, (अथवा धनुषः पक्षे) तन्तुयुतः, मौर्वीयुतः च ;
नरः ; पूज्यते = सत्क्रियते, आद्रियते ;
वंश-विशुद्धः अपि = श्रेष्ठवंशनिर्मितमपि ;
धनुः = कोदण्डं ;
निर्गुणः = गुणशून्यं, ज्यारहितम् ;
किं करिष्यति = किं लक्ष्यं हन्तुं समर्थो भवति?॥२३॥
तात्पर्यम्-
सामान्यपुरुषात् उत्पन्नोऽपि (कुलवैशिष्ट्यरहितः, वंशविशुद्धरहितोऽपि यावत्
) नरः यदि सद्गुणसम्पन्नः तर्हि सर्वैः आद्रियते। (अस्यैव वाक्यस्य समर्थनाय उदाहरणं
दीयते।) उत्तमकोटिधनुः अपि यदि ज्यारहितं, तर्हि न किमपि लक्ष्यं
भेत्तुं उपयुज्यते। (ज्या इत्यस्य गुण इति पर्यायशब्दः। अतः श्लेषः पुरुषेऽपि अनुवर्तते।)।
No comments:
Post a Comment