Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.10


मूलम्-

अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् ।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः॥१०॥

पदविभागः-

अनेक-संशय-उच्छेदि परोक्ष-अर्थस्य दर्शकम् । सर्वस्य लोचनं शास्त्रं यस्य नास्ति अन्धः एव सः॥१०॥

अन्वयः-

अनेक-संशय-उच्छेदि, परोक्ष-अर्थस्य दर्शकम्, सर्वस्य लोचनं शास्त्रं यस्य (पुंसः) नास्ति, सः अन्धः एव ॥१०॥

प्रतिपदार्थः-

अनेक-संशय-उच्छेदि ~ अनेकान् संशयान् उच्छिनत्ति तच्छीलम् = नाना-वितर्क-विनाशकम्
परोक्ष-अर्थस्य = अतीत-अनागतादि-अर्थस्य;  
दर्शकम् = बोधकम् ;  
सर्वस्य ; लोचनं = लोचनम् इव मार्गदर्शकम्
शास्त्रं यस्य (पुंसः) नास्ति, सः
अन्धः = लोचनविकलः; एव;॥१०॥

तात्पर्यम्-

सकलान् सन्देहान् अपाकुर्वत्, अप्रत्यक्षस्य, निगूढस्यार्थस्य च दर्शकं यत् शास्त्रं, तत् सर्वेषां नयनमिव विलसति। यस्य मनुष्यस्य शास्त्रज्ञानं नास्ति, सः अन्ध एव।
आङ्ग्लेय्यार्थः



Shastra, which clears many doubts, which shows the meaning which is hidden (non-direct),  is like an eye for everyone. One who does not possess it, is indeed blind. 

हिन्द्यर्थः-


सब प्रकार के संशय को दूर करने वाला, तथा परोक्ष वस्तुओंको भी प्रत्यक्ष करानेवाला शास्त्र ही सबका सच्चा नेत्र हे, और जिसके पास वह शास्त्र रूपी नेत्र नहीं है, वह मनुष्य अन्धे के समान है।
 

No comments:

Post a Comment