Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.11



मूलम्-
यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता ।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम्॥११॥
पदविभागः-
यौवनं धन-सम्पत्तिः प्रभुत्वम् अविवेकिता । एकैकम् अपि अनर्थाय किमु यत्र चतुष्टयम्॥११॥
अन्वयः-
यौवनं, धन-सम्पत्तिः, प्रभुत्वम्, अविवेकिता - (अत्र) एकैकम् अपि (पुंसां) अनर्थाय (भवति)। यत्र चतुष्टयम् (तत्र) किमु (अनर्थस्य विषये वक्तव्यम्?)॥११॥
प्रतिपदार्थः-
यौवनं = युवावस्था;  
धन-सम्पत्तिः = वित्तसमृद्धिः
प्रभुत्वम् = ऐश्वर्यम्, अधिकारः;  
अविवेकिता = विचार-वैकल्यम्, मूढता;  
एकैकम् अपि (पुंसां)
अनर्थाय = विपत्कारकं भवति
यत्र = यस्मिन् पुंसि
चतुष्टयम् (तत्र);  
किमु = किं वा वक्तव्यम्; ॥११॥
तात्पर्यम्-
युवावस्था, वित्तसमृद्धिः, अधिकारस्थानं, अविवेकः इत्येतेषु गुणस्थितिषु प्रत्येकं (अन्यजनेभ्यः) आपत्करं भवति। यदि कस्मिंश्चित् पुरुषे सर्वाणि मिलित्वा विद्यन्ते, तर्हि अनर्थकत्वस्य किं विशेषतया वक्तव्यं भवति? तदवश्यमेव आपत्स्थानं भवति।
आङ्ग्लेय्यार्थः- 

Youth, wealth, authority (power), and imprudence (lack of judgement) are singly disastrous. What to say where all the four are present?

हिन्द्यर्थः-

युवावस्था, धनसम्पत्ति, प्रभुत्वव अज्ञानता, इन चारों में एक भी जहाँ वस्तु हो वहाँ अनर्थ (जिस मनुष्य में) ही प्रायः होता है । फिर जहाँ ये चारो एकत्र हो, वहाँ की तो बात ही क्या है?

 

No comments:

Post a Comment