Sunday, February 28, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.6



मूलम्-
विद्या ददाति विनयं विनयाद् याति पात्रताम् ।
पात्रत्वात् धनमाप्नोति धनाद् धर्मं ततः सुखम्॥६॥
पदविभागः-
विद्या ददाति विनयं विनयाद् याति पात्रताम् । पात्रत्वात् धनम् प्नोति धनाद् धर्मं ततः सुखम्॥६॥
अन्वयः-
विद्या विनयं ददाति। विनयाद् पात्रताम् याति । पात्रत्वात् धनम् आप्नोति। धनाद् धर्मं (आप्नोति) ततः सुखम् (आप्नोति)॥६॥
प्रतिपदार्थः-
विद्या; विनयं = सौजन्यंददाति; विनयाद्;  
पात्रताम् = योग्यताम् 
याति = तत्स्थितिं लभते;  
पात्रत्वात्; धनम्;  
प्नोति; धनाद्; धर्मं; ततः; सुखम्; (चाप्नोति)॥६॥
तात्पर्यम्-
विद्यैव सर्वसुखसाधनमित्याशयः। विद्यावान् विनयं प्राप्य, तेन पात्रत्वं लभते। पात्रभूतः सज्जनो धनं लभते, धनात् धर्मोपार्जनं शक्यं कर्तुम्। ततः सुखं प्राप्नोति।

No comments:

Post a Comment