मूलम्-
यदभावि न तद् भावि भावि चेन्न तदन्यथा ।
इति चिन्ताविषघ्नोऽयमगदः किं न पीयते॥२९॥
पदविभागः-
यद् अभावि न तद् भावि भावि चेद् न तद् अन्यथा । इति चिन्ता-विषघ्नः
अयम् अगदः किं न पीयते॥२९॥
अन्वयः-
यद् अभावि,
न तद् भावि ; भावि चेद् तद् न अन्यथा’ इति चिन्ता-विषघ्नः अयम् अगदः किं न पीयते॥२९॥
प्रतिपदार्थः-
यत् = सुखादि ;
अभावि = न भावि ;
तत् न भावि
= न भवितुं न शक्यते ;
चेत् = यदि ;
भावि
= सुखदुःखादिकं भावि, तत् = भाविसुखादि ;
न अन्यया = न दूरीकर्तुं शक्यम् ;
इति = इत्ययं ;
चिन्ता एव विषं, तद्-हन्ति इति चिन्ताविषघ्नः
= चिन्ताविषापहारी ;
अगदः = औषधं, किं न
= कुतो न ;
पीयते = सेव्यते ॥२९॥
तात्पर्यम्-
यद्भावि,
तद्विना प्रयत्नमपि भवति। यन्न भावि तत् प्रयत्न-सहस्रेणापि न भवति।
अतः अलं चिन्तया इति-- चिन्तानाम विषं हरन् विचार-औषधः जनैः किमर्थं न सेव्यते?
अर्थात्- यद्भावि तद्भविष्यत्येव ; यच्च न भावि
तन्न भविष्यत्येव, दैवाधीनमेव सर्वम् ; तत्र किं वृथा चिन्तया आयासेन च - इत्याशयः॥
No comments:
Post a Comment