Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.34



मूलम्-

यथा मृत्पिण्डतः कर्ता कुरुते यद् यदिच्छति ।

एवमात्मकृतं कर्म मानवः प्रतिपद्यते॥३४॥


पदविभागः-

यथा मृत्पिण्डतः कर्ता कुरुते यद् यद् इच्छति । एवम् आत्मकृतं कर्म मानवः प्रतिपद्यते॥३४॥


अन्वयः-

यथा मृत्पिण्डतः कर्ता यद् यद् इच्छति (तत्तत्) कुरुते । एवम् मानवः आत्मकृतं कर्म प्रतिपद्यते॥३४॥


प्रतिपदार्थः-

यथा मृत्पिण्डतः = मृत्तिकासंघेन ;  
कर्ता = (अत्र) कुलालः ;  
यद्यत् = शरावोदञ्चन-घटादिकम् ;  
इच्छति = कर्तुं वाञ्छति
तत्तत्-कुरुते = स्वप्रयत्नेन सम्पादयति ;  
एवं = पूर्वोपपादितया रीत्या ;  
मानवः = कर्ता ;  
आत्मकृतमेव = स्वयमाचरितम्
कर्म = कर्मफलम्
धटादिकञ्च ;  
प्रतिपद्यते = लभते, प्राप्नोति ॥३४॥


तात्पर्यम्-

यथा कुलालः मृत्तिकामुपयुज्य यद्वस्तु आवश्यकं तत् निर्माति, (कार्येषु उपयुनक्ति च) तथा मनुष्योऽपि स्वयमाचरितस्य कर्मणः एव फलं भुनक्ति।

No comments:

Post a Comment