मूलम्-
अनभ्यासे विषं विद्या अजीर्णे भोजनं विषम् ।
विषं सभा दरिद्रस्य वृद्धस्य
तरुणी विषम् ॥२२॥
पदविभागः-
अनभ्यासे विषं विद्या अजीर्णे भोजनं विषम् । विषं सभा दरिद्रस्य वृद्धस्य तरुणी विषम् ॥२२॥
अन्वयः-
अनभ्यासे (सति) विद्या विषं । अजीर्णे भोजनं विषम् । दरिद्रस्य
सभा विषं । वृद्धस्य तरुणी विषम् ॥२२॥
प्रतिपदार्थः-
अनभ्यासे (सति) = पुनःपुनरनुशीलनाभावे, पौनःपुन्येन करणाभावे ;
विद्या ; विषं = अपमानस्थानत्वात् विषवद् दुःखप्रदा
;
अजीर्णे = कुक्षौ अपक्वे आहारे (सति) ;
भोजनं = अन्नं ;
विषम् = जीवितापहारकत्वात् विषवद् दुःखप्रदम्
;
दरिद्रस्य = धनहीनस्य, निर्धनस्य ;
सभा = सदः, परिषद् ;
विषं
= सन्तापजनकत्वात् विषवद् दुःखप्रदा ;
वृद्धस्य = विगतयौवनस्य
;
तरुणी = युवा स्त्री ;
विषम् = अयोग्यत्वात्
विषवद् दुःखप्रदा ; ॥२२॥
तात्पर्यम्-
अभ्यासाभावे विद्या हानिकरा भवति । (आवृत्त्यभावे नरः अधिगतविद्योऽपि
सन् आवश्यकतायां सत्यां तां नोपयोक्तुं पारयेत् । अतः तस्य विद्यावत्त्वमेव शङ्क्यते
जनैः ।) (उदरे जीर्णमभूत्वा यदान्नं यथातथं तिष्ठेत्, तदा अस्वास्थ्यं जनयति । अतः)
अपाके खाद्यं विषं भवति । (धनाभावे उत्तमवस्त्रादीनां राहित्यात् जनसमूहेषु अपमानमनुभवेदिति)
अकिञ्चनस्य सदः विषतुल्यं भवति । (तरुण्या सह सम्पर्कः यौवने सुख-सन्तानादिकारकं भवति
। तदनावश्यकत्वात् शरीरशैथिल्याच्च) वयोऽधिकस्य स्त्रीसम्पर्कः विषं (अनारोग्यकरः)
भवति।
No comments:
Post a Comment