Saturday, February 27, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.2



मूलम्-
श्रुतो हितोपदेशोऽयं पाटवं संस्कृतोक्तिषु ।
वाचां सर्वत्र वैचित्र्यं नीतिविद्यां ददाति च॥२॥
पदविभागः-
श्रुतः हितोपदेशः अयं पाटवं संस्कृत-उक्तिषु । वाचां सर्वत्र वैचित्र्यं नीति-विद्यां ददाति च॥२॥
अन्वयः-
अयं हितोपदेशः श्रुतः। संस्कृत-उक्तिषु पाटवं च सर्वत्र वाचां वैचित्र्यं ददाति। नीति-विद्यां च (ददाति)॥२॥
प्रतिपदार्थः-
अयं = मया वक्ष्यमाणः;  
श्रुतः हितोपदेशः = ग्रन्थविशेषः
संस्कृत-उक्तिषु = संस्कृतभाषणादिषु
पाटवं = कौशलम्
सर्वत्र = सर्वविषयेषु;  
वाचां वैचित्र्यं = नानाविधोक्ति-चातुर्यम्
 नीति-विद्यां = राजनीतिं,  
व्यवहारकौशलं च;  
ददाति = (अत्र) शिक्षयति॥२॥
तात्पर्यम्
मया वक्ष्यमाणः हितोपदेशः संस्कृतभाषाप्रावीण्यं, सर्वविषयेषु चातुर्यं, राजनीतिं व्यवहारज्ञानं च ददाति।

No comments:

Post a Comment