Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.35



मूलम्-
काकतालीयवत् प्राप्तं दृष्ट्वापि निधिमग्रतः ।
न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते॥३५॥
🌸
पदविभागः-
काक-तालीय-वत् प्राप्तं दृष्ट्वा अपि निधिम् अग्रतः । न स्वयं दैवम् आदत्ते पुरुषार्थम् अपेक्षते॥३५॥
🌹
अन्वयः-
काक-तालीय-वत् प्राप्तं निधिम् अग्रतः दृष्ट्वा अपि दैवं स्वयं न आदत्ते । पुरुषार्थम् अपेक्षते॥३५॥
🌷
प्रतिपदार्थः-
काकस्य आगमनमिव, तालस्य पतनमिव-काकतालं, काकतालमिव ~ काकतालीयं = सहसा उपनतम् ; तद्वत् = काकतालीयवत् = काकागमनेन तालपतनवद्, कस्मात्, दैववशात्
प्राप्तं = लब्धं, निधिम् = शेवधिम् = (खजाने को)
अग्रतः = पुरतः, दृष्ट्वापि ;  
दैवं = भाग्यं
स्वयम् = स्वतः
न आदत्ते = न गृह्णाति
किन्तु-- आदाने-पुरुषार्थे = हस्तचालनादिकं पुरुषव्यापारम्
अपेक्षते = आश्रयते एव
सहायमपेक्षते एव ॥३५ ॥
🍁
तात्पर्यम्-
काकतालीयमिव (कस्यचित् मनुष्यस्य) पुरतः पतितं धनमपि भाग्येन न गृह्णाति । तदर्थमपि प्रयत्न अपेक्ष्यते। 🌻

No comments:

Post a Comment