Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.28



मूलम्-

अवश्यं भाविनो भावा भवन्ति महतामपि ।

नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः॥२८॥

पदविभागः-

अवश्यं भाविनः भावाः भवन्ति महताम् अपि । नग्नत्वं नीलकण्ठस्य महा-अहि-शयनं हरेः॥२८॥

अन्वयः-

महताम् अपि भावाः अवश्यं भाविनः भवन्ति । नीलकण्ठस्य नग्नत्वं, हरेः महा-अहि-शयनं ॥२८॥

प्रतिपदार्थम्-

महतामपि = महात्मानामपि
भावाः = भवितव्यानि ;  
अवश्यं भाविनः = निश्चयेन भवमानाः घटनाः ;
नीलकण्ठस्य = शिवस्य
नग्नत्वं = दिगम्बरत्वम् ;  
हरेः = विष्णोः, महाहिशयनं = शेषशय्या ॥२८॥

तात्पर्यम्-

ये घटनाः नूनं भवमानाः भवन्ति, ते (न केवलं सामान्यानाम् अपि तु) महापुरुषाणामपि जीवने घटन्ते एव। (यद्यपि जगद्रक्षकौ, तथापि तयोः भाग्यमेवं भवति येन) शिवस्य तु दिगम्बरत्वं, विष्णोस्तु शेषे शय्या (परिकल्पिते)।

No comments:

Post a Comment