Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.18



मूलम्-
पुण्यतीर्थे कृतं येन तपः क्वाप्यतिदुष्करम् ।
तस्य पुत्रो भवेद् वश्यः समृद्धो धार्मिकः सुधीः॥१
पदविभागः-
पुण्य-तीर्थे कृतं येन तपः क्व-अपि अति-दुष्करम् । तस्य पुत्रः भवेद् वश्यः समृद्धः धार्मिकः सुधीः॥१
अन्वयः-
येन क्वापि पुण्य-तीर्थे अति-दुष्करं तपः कृतं, तस्य पुत्रः वश्यः समृद्धः धार्मिकः सुधीः च भवेद् ॥१
प्रतिपदार्थः-
येन क्वापि पुण्य-तीर्थे = महाक्षेत्रे
कृतं ; अति-दुष्करं = कठिनं ;  
तपः ;  
तस्य = पुण्यात्मनः पुत्रः वश्यः = वशंवदः ;  
समृद्धः = गुणगण-अलङ्कृकृतः धनी च
धार्मिकः = धर्मात्मा ;  
सुधीः = विद्वान् ;  
विनीतश्च ;  
भवेद् = भवति ॥१
तात्पर्यम्-
येन पित्रा कुत्रचित् महापुण्यस्थले तपः आचरितं, तस्य एव नियतः, सम्पन्नः, धर्मानुष्ठानपरः, धीशाली च पुत्रो भवेत्। (अतिमहतस्तपसः फलमेतद्यत्पुत्रो विद्वान् विनीतश्च भवतीति भावः।)

No comments:

Post a Comment