मूलम्-
वरमेको गुणी पुत्रो न च मूर्खशतान्यपि ।
एकश्चन्द्रस्तमो हन्ति न च तारागणोऽपि च॥१७॥
पदविभागः-
वरम् एकः गुणी पुत्रः न च मूर्ख-शतानि अपि । एकः चन्द्रः
तमः हन्ति न च तारा-गणः अपि च॥१७॥
अन्वयः-
एकः अपि गुणी पुत्रः वरम्। (किन्तु) न च मूर्ख-शतानि । एकः
चन्द्रः तमः हन्ति। न च तारा-गणः अपि च॥१७॥
प्रतिपदार्थः-
एकः अपि ;
गुणी = सुगुणसंयुक्तः ;
पुत्रः = सुतः ;
वरम् = श्रेष्ठः ;
(किन्तु) न
च ;
मूर्ख-शतानि
= जड-मन्दपुत्राणां शतमपि ;
एकः चन्द्रः ;
तमः = अन्धकारं ;
हन्ति = नाशयति ;
न च तारा-गणः अपि च = नक्षत्रकोटीरपि ॥१७॥
तात्पर्यम्-
गुणवता पुत्रेण एकेनापि अलम्। यदि एकशतं पुत्राः अपि
मन्दबुद्धयः भवन्तु, तेन न कोऽपि लाभः। यथा– रात्रौ चन्द्रः एक एव अन्धकारं अपनेतुं समर्थः।
असङ्ख्यकानि नक्षत्राणि मिलित्वा अपि कान्तिं न कुर्वन्ति।
One virtuous son is better than a hundred stupid sons. The moon alone removes darkness, not the (whole) cluster of stars.
आङ्ग्लेय्यार्थः-
One virtuous son is better than a hundred stupid sons. The moon alone removes darkness, not the (whole) cluster of stars.
हिन्द्यर्थः-
सौ मूर्ख पुत्रों की अपेक्षा एक ही पुत्र गुणी श्रेष्ठ है। चन्द्रमा अकेला ही अन्धकार को दूर करता है, पर ताराओं का समूह नहीं ॥
No comments:
Post a Comment