Monday, February 29, 2016

हितोपदेश-सुभाषित-श्लोकाः - 0.15



मूलम्-
स जातो येन जातेन याति वंशः समुन्नतिम् ।
परिवर्तिनि संसारे मृतः को वा न जायते॥१५॥
पदविभागः-
सः जातः येन जातेन याति वंशः समुन्नतिम् । परिवर्तिनि संसारे मृतः कः वा न जायते॥१५॥
अन्वयः-
येन जातेन वंशः समुन्नतिं याति सः जातः। परिवर्तिनि संसारे कः वा मृतः, (कः च) न जायते॥१५॥
प्रतिपदार्थः-
येन जातेन = यस्य जन्मना
वंशः = आत्मकुलं;  
समुन्नतिं = ख्यातिं, औन्नत्यं च
याति = भजते, प्राप्नोति; सः;  
जातः = सुजातः
परिवर्तिनि = परिवर्तनशीले;  
संसारे = अनादावस्मिन् जगति;  
को वा न मृतः? को वा न जायते?॥१५॥
तात्पर्यम्-
यस्य जन्मना कुलं (कुटुम्बः) औन्नत्यं प्राप्नोति, सः पुत्रः जातः इति वक्तुं शक्यते। अन्ये जीवाः बहवो संसारेऽस्मिन् जीवन्ति, म्रियन्ते च।
कोटिशो जीवाः अस्मिन् जगति प्रत्यहमुद्यन्ते, विलीयन्ते च, स एव तु सुजन्मा धन्यजीवितो यस्य जन्मना स्वकुलं महीयते इत्याशयः।

आङ्ग्लेय्यार्थः-
While enlisting the good qualities of a person, if the (writer’s) pen does not fall down (on a paper) by surprise, if such a person’s mother is called a mother, then who is a barren woman? [One who does not get recognized by his good qualities in the world, then such a son is as good as not born at all.]
हिन्द्यर्थः-
गुणियों की गिनती के आरम्भ में जिसके नाम पर सबसे पहले सहसा लोगों की कलम न उठे, उस पुरुष के जन्म से भी यदि उसकी माता पुत्र-वती कहलावे, तो कहो वन्ध्या किसे कहेंगे? ॥ [जिसे अपने सद्गुणों के कारण लोग नहीं पहचानते, ऐसे पुत्र का होना ना होने के समान है।]

 

No comments:

Post a Comment